🪷 Mahābhārata · Udyoga-Parva · Chapter 160
The Book of the Effort · Parva 5 · 29 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 29 Shlokas
MBh 5.160.1
[स]
दुर्यॊधनस्य तद वाक्यं निशम्य भरतर्षभः
नेत्राभ्याम अतिताम्राभ्यां कैतव्यं समुदैक्षत
MBh 5.160.2
स केशवम अभिप्रेक्ष्य गुडाकेशॊ महायशाः
अभ्यभाषत कैतव्यं परगृह्य विपुलं भुजम
MBh 5.160.3
सववीर्यं यः समाश्रित्य समाह्वयति वै परान
अभीतः पूरयञ शक्तिं स वै पुरुष उच्यते
MBh 5.160.4
परवीर्यं समाश्रित्य यः समाह्वयते परान
कषत्रबन्धुर अशक्तत्वाल लॊके स पुरुषाधमः
MBh 5.160.5
स तवं परेषां वीर्येण मन्यसे वीर्यम आत्मनः
सवयं कापुरुषॊ मूढः परांश चक्षेप्तुम इच्छसि
MBh 5.160.6
यस तवं वृद्धं सर्वराज्ञां हितबुद्धिं जितेन्द्रियम
मरणाय महाबुद्धिं दीक्षयित्वा विकत्थसे
MBh 5.160.7
भावस ते विदितॊ ऽसमाभिर दुर्बुद्धे कुलपांसन
न हनिष्यन्ति गङ्गेयं पाण्डवाघृणयेति च
MBh 5.160.8
यस्य वीर्यं समाश्रित्य धार्तराष्ट्र विकत्थसे
हन्तास्मि परथमं भीष्मं मिषतां सर्वधन्विनाम
MBh 5.160.9
कैतव्य गत्वा भरतान समेत्य; सुयॊधनं धार्तराष्ट्रं बरवीहि
तथेत्य आह अर्जुनः सव्यसाची; निशा वयपाये भविता विमर्दः
MBh 5.160.10
यद वॊ ऽबरवीद वाक्यम अदीनसत्त्वॊ; मध्ये कुरूणां हर्षयन सत्यसंधः
अहं हन्ता पाण्डवानाम अनीकं; शाल्वेयकांश चेति ममैष भारः
MBh 5.160.11
हन्याम अहं दरॊणम ऋते हि लॊकं; न ते भयं विद्यते पाण्डवेभ्यः
ततॊ हि ते लब्धतमं च राज्यं; कषयं गताः पाण्डवाश चेति भावः
MBh 5.160.12
स दर्पपूर्णॊ न समीक्षसे तवम; अनर्थम आत्मन्य अपि वर्तमानम
तस्माद अहं ते परथमं समूहे; हन्ता समक्षं कुरुवृद्धम एव
MBh 5.160.13
सूर्यॊदये युक्तसेनः पतीक्ष्य; धवजी रथी रक्ष च सत्यसंधम
अहं हि वः पश्यतां दवीपम एनं; रथाद भीष्मं पातयितास्मि बाणैः
MBh 5.160.14
शवॊभूते कत्थना वाक्यं विज्ञास्यति सुयॊधनः
अर्दितं शरजालेन मया दृष्ट्वा पितामहम
MBh 5.160.15
यद उक्तश च सभामध्ये पुरुषॊ हरस्वदर्शनः
करुद्धेन भीमसेनेन भराता दुःशासनस तव
MBh 5.160.16
अधर्मज्ञॊ नित्यवैरी पापबुद्धिर नृशंसकृत
सत्यां परतिज्ञां नचिराद रक्ष्यसे तां सुयॊधन
MBh 5.160.17
अभिमानस्य दर्पस्य करॊधपारुष्ययॊस तथा
नैष्ठुर्यस्यावलेपस्य आत्मसंभावनस्य च
MBh 5.160.18
नृशंसतायास तैक्ष्ण्यस्य धर्मविद्वेषणस्य च
अधर्मस्यातिवादस्य वृद्धातिक्रमणस्य च
MBh 5.160.19
दर्शनस्य च वक्रस्य कृत्स्नस्यापनयस्य च
दरक्ष्यसि तवं फलं तीव्रम अचिरेण सुयॊधन
MBh 5.160.20
वासुदेव दवितीये हि मयि करुद्धे नराधिप
आशा ते जीविते मूढ राज्ये वा केन हेतुना
MBh 5.160.21
शान्ते भीष्मे तथा दरॊणे सूतपुत्रे च पातिते
निराशॊ जीविते राज्ये पुत्रेषु च भविष्यसि
MBh 5.160.22
भरातॄणां निधनं दृष्ट्वा पुत्राणां च सुयॊधन
भीमसेनेन निहतॊ दुष्कृतानि समरिष्यसि
MBh 5.160.23
न दवितीयां परतिज्ञां हि परतिज्ञास्यति केशवः
सत्यं बरवीम्य अहं हय एतत सर्वं सत्यं भविष्यति
MBh 5.160.24
इत्य उक्तः कैतवॊ राजंस तद वाक्यम उपधार्य च
अनुज्ञातॊ निववृते पुनर एव यथागतम
MBh 5.160.25
उपावृत्य तु पाण्डुभ्यः कैतव्यॊ धृतराष्ट्रजम
गत्वा यथॊक्तं तत सर्वम उवाच कुरुसंसदि
MBh 5.160.26
केशवार्जुनयॊर वाक्यं निशम्य भरतर्षभः
दुःशासनं च कर्णं च शकुनिं चाभ्यभाषत
MBh 5.160.27
आज्ञापयत राज्ञश च बलं मित्रबलं तथा
यथा परागु दयात सर्वा युक्ता तिष्ठत्य अनीकिनी
MBh 5.160.28
ततः कर्ण समादिष्टा दूताः परत्वरिता रथैः
उष्ट्रवामीभिर अप्य अन्ये सदश्वैर्श च महाजवैः
MBh 5.160.29
तूर्णं परिययुः सेनां कृत्स्नां कर्णस्य शासनात
आज्ञापयन्तॊ राज्ञस तान यॊगः पराग उदयाद इति
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Udyoga-Parva Ch 159
- Next chapter · Udyoga-Parva Ch 161 →
🪷 जय व्यास भगवान् 🪷