🪷 Mahābhārata · Udyoga-Parva · Chapter 158

The Book of the Effort · Parva 5 · 41 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 41 Shlokas

MBh 5.158.1
संजय उवाच सेनानिवेशं संप्राप्य कैतव्यः पाण्डवस्य ह समागतः पाण्डवेयैर्युधिष्ठिरमभाषत
MBh 5.158.2
अभिज्ञो दूतवाक्यानां यथोक्तं ब्रुवतो मम दुर्योधनसमादेशं श्रुत्वा न क्रोद्धुमर्हसि
MBh 5.158.3
युधिष्ठिर उवाच उलूक न भयं तेऽस्ति ब्रूहि त्वं विगतज्वरः यन्मतं धार्तराष्ट्रस्य लुब्धस्यादीर्घदर्शिनः
MBh 5.158.4
संजय उवाच ततो द्युतिमतां मध्ये पाण्डवानां महात्मनाम् सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः
MBh 5.158.5
द्रुपदस्य सपुत्रस्य विराटस्य च संनिधौ भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह
MBh 5.158.6
इदं त्वामब्रवीद्राजा धार्तराष्ट्रो महामनाः शृण्वतां कुरुवीराणां तन्निबोध नराधिप
MBh 5.158.7
पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम् शक्योऽमर्षो मनुष्येण कर्तुं पुरुषमानिना
MBh 5.158.8
द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासिताः संवत्सरं विराटस्य दास्यमास्थाय चोषिताः
MBh 5.158.9
अमर्षं राज्यहरणं वनवासं च पाण्डव द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव
MBh 5.158.10
अशक्तेन च यच्छप्तं भीमसेनेन पाण्डव दुःशासनस्य रुधिरं पीयतां यदि शक्यते
MBh 5.158.11
लोहाभिहारो निर्वृत्तः कुरुक्षेत्रमकर्दमम् समः पन्था भृता योधाः श्वो युध्यस्व सकेशवः
MBh 5.158.12
असमागम्य भीष्मेण संयुगे किं विकत्थसे आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम्
MBh 5.158.13
द्रोणं च युध्यतां श्रेष्ठं शचीपतिसमं युधि अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि
MBh 5.158.14
ब्राह्मे धनुषि चाचार्यं वेदयोरन्तरं द्वयोः युधि धुर्यमविक्षोभ्यमनीकधरमच्युतम्
MBh 5.158.15
द्रोणं मोहाद्युधा पार्थ यज्जिगीषसि तन्मृषा न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम्
MBh 5.158.16
अनिलो वा वहेन्मेरुं द्यौर्वापि निपतेन्महीम् युगं वा परिवर्तेत यद्येवं स्याद्यथात्थ माम्
MBh 5.158.17
को ह्याभ्यां जीविताकाङ्क्षी प्राप्यास्त्रमरिमर्दनम् गजो वाजी नरो वापि पुनः स्वस्ति गृहान्व्रजेत्
MBh 5.158.18
कथमाभ्यामभिध्यातः संसृष्टो दारुणेन वा रणे जीवन्विमुच्येत पदा भूमिमुपस्पृशन्
MBh 5.158.19
किं दर्दुरः कूपशयो यथेमां; न बुध्यसे राजचमूं समेताम् दुराधर्षां देवचमूप्रकाशां; गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम्
MBh 5.158.20
प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यै;रुदीच्यकाम्बोजशकैः खशैश्च शाल्वैः समत्स्यैः कुरुमध्यदेशै;र्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः
MBh 5.158.21
नानाजनौघं युधि संप्रवृद्धं; गाङ्गं यथा वेगमवारणीयम् मां च स्थितं नागबलस्य मध्ये; युयुत्ससे मन्द किमल्पबुद्धे
MBh 5.158.22
इत्येवमुक्त्वा राजानं धर्मपुत्रं युधिष्ठिरम् अभ्यावृत्य पुनर्जिष्णुमुलूकः प्रत्यभाषत
MBh 5.158.23
अकत्थमानो युध्यस्व कत्थसेऽर्जुन किं बहु पर्यायात्सिद्धिरेतस्य नैतत्सिध्यति कत्थनात्
MBh 5.158.24
यदीदं कत्थनात्सिध्येत्कर्म लोके धनंजय सर्वे भवेयुः सिद्धार्था बहु कत्थेत दुर्गतः
MBh 5.158.25
जानामि ते वासुदेवं सहायं; जानामि ते गाण्डिवं तालमात्रम् जानाम्येतत्त्वादृशो नास्ति योद्धा; राज्यं च ते जानमानो हरामि
MBh 5.158.26
न तु पर्यायधर्मेण सिद्धिं प्राप्नोति भूयसीम् मनसैव हि भूतानि धाता प्रकुरुते वशे
MBh 5.158.27
त्रयोदश समा भुक्तं राज्यं विलपतस्तव भूयश्चैव प्रशासिष्ये निहत्य त्वां सबान्धवम्
MBh 5.158.28
क्व तदा गाण्डिवं तेऽभूद्यत्त्वं दासपणे जितः क्व तदा भीमसेनस्य बलमासीच्च फल्गुन
MBh 5.158.29
सगदाद्भीमसेनाच्च पार्थाच्चैव सगाण्डिवात् न वै मोक्षस्तदा वोऽभूद्विना कृष्णामनिन्दिताम्
MBh 5.158.30
सा वो दास्यं समापन्नान्मोक्षयामास भामिनी अमानुष्यसमायुक्तान्दास्यकर्मण्यवस्थितान्
MBh 5.158.31
अवोचं यत्षण्ढतिलानहं वस्तथ्यमेव तत् धृता हि वेणी पार्थेन विराटनगरे तदा
MBh 5.158.32
सूदकर्मणि च श्रान्तं विराटस्य महानसे भीमसेनेन कौन्तेय यच्च तन्मम पौरुषम्
MBh 5.158.33
एवमेव सदा दण्डं क्षत्रियाः क्षत्रिये दधुः श्रेण्यां कक्ष्यां च वेण्यां च संयुगे यः पलायते
MBh 5.158.34
न भयाद्वासुदेवस्य न चापि तव फल्गुन राज्यं प्रतिप्रदास्यामि युध्यस्व सहकेशवः
MBh 5.158.35
न माया हीन्द्रजालं वा कुहका वा विभीषणी आत्तशस्त्रस्य मे युद्धे वहन्ति प्रतिगर्जनाः
MBh 5.158.36
वासुदेवसहस्रं वा फल्गुनानां शतानि वा आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दश
MBh 5.158.37
संयुगं गच्छ भीष्मेण भिन्धि त्वं शिरसा गिरिम् प्रतरेमं महागाधं बाहुभ्यां पुरुषोदधिम्
MBh 5.158.38
शारद्वतमहीमानं विविंशतिझषाकुलम् बृहद्बलसमुच्चालं सौमदत्तितिमिंगिलम्
MBh 5.158.39
दुःशासनौघं शलशल्यमत्स्यं; सुषेणचित्रायुधनागनक्रम् जयद्रथाद्रिं पुरुमित्रगाधं; दुर्मर्षणोदं शकुनिप्रपातम्
MBh 5.158.40
शस्त्रौघमक्षय्यमतिप्रवृद्धं; यदावगाह्य श्रमनष्टचेताः भविष्यसि त्वं हतसर्वबान्धव;स्तदा मनस्ते परितापमेष्यति
MBh 5.158.41
तदा मनस्ते त्रिदिवादिवाशुचे;र्निवर्ततां पार्थ महीप्रशासनात् राज्यं प्रशास्तुं हि सुदुर्लभं त्वया; बुभूषता स्वर्ग इवातपस्विना

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 41 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 5.158local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷