🪷 Mahābhārata · Udyoga-Parva · Chapter 157

The Book of the Effort · Parva 5 · 18 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 18 Shlokas

MBh 5.157.1
संजय उवाच हिरण्वत्यां निविष्टेषु पाण्डवेषु महात्मसु दुर्योधनो महाराज कर्णेन सह भारत
MBh 5.157.2
सौबलेन च राजेन्द्र तथा दुःशासनेन च आहूयोपह्वरे राजन्नुलूकमिदमब्रवीत्
MBh 5.157.3
उलूक गच्छ कैतव्य पाण्डवान्सहसोमकान् गत्वा मम वचो ब्रूहि वासुदेवस्य शृण्वतः
MBh 5.157.4
इदं तत्समनुप्राप्तं वर्षपूगाभिचिन्तितम् पाण्डवानां कुरूणां च युद्धं लोकभयंकरम्
MBh 5.157.5
यदेतत्कत्थनावाक्यं संजयो महदब्रवीत् मध्ये कुरूणां कौन्तेय तस्य कालोऽयमागतः यथा वः संप्रतिज्ञातं तत्सर्वं क्रियतामिति
MBh 5.157.6
अमर्षं राज्यहरणं वनवासं च पाण्डव द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव
MBh 5.157.7
यदर्थं क्षत्रिया सूते गर्भं तदिदमागतम् बलं वीर्यं च शौर्यं च परं चाप्यस्त्रलाघवम् पौरुषं दर्शयन्युद्धे कोपस्य कुरु निष्कृतिम्
MBh 5.157.8
परिक्लिष्टस्य दीनस्य दीर्घकालोषितस्य च न स्फुटेद्धृदयं कस्य ऐश्वर्याद्भ्रंशितस्य च
MBh 5.157.9
कुले जातस्य शूरस्य परवित्तेषु गृध्यतः आच्छिन्नं राज्यमाक्रम्य कोपं कस्य न दीपयेत्
MBh 5.157.10
यत्तदुक्तं महद्वाक्यं कर्मणा तद्विभाव्यताम् अकर्मणा कत्थितेन सन्तः कुपुरुषं विदुः
MBh 5.157.11
अमित्राणां वशे स्थानं राज्यस्य च पुनर्भवः द्वावर्थौ युध्यमानस्य तस्मात्कुरुत पौरुषम्
MBh 5.157.12
अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम् अथ वा निहतोऽस्माभिर्वीरलोकं गमिष्यसि
MBh 5.157.13
राष्ट्रात्प्रव्राजनं क्लेशं वनवासं च पाण्डव कृष्णायाश्च परिक्लेशं संस्मरन्पुरुषो भव
MBh 5.157.14
अप्रियाणां च वचने प्रव्रजत्सु पुनः पुनः अमर्षं दर्शयाद्य त्वममर्षो ह्येव पौरुषम्
MBh 5.157.15
क्रोधो बलं तथा वीर्यं ज्ञानयोगोऽस्त्रलाघवम् इह ते पार्थ दृश्यन्तां संग्रामे पुरुषो भव
MBh 5.157.16
तं च तूबरकं मूढं बह्वाशिनमविद्यकम् उलूक मद्वचो ब्रूया असकृद्भीमसेनकम्
MBh 5.157.17
अशक्तेनैव यच्छप्तं सभामध्ये वृकोदर दुःशासनस्य रुधिरं पीयतां यदि शक्यते
MBh 5.157.18
लोहाभिहारो निर्वृत्तः कुरुक्षेत्रमकर्दमम् पुष्टास्तेऽश्वा भृता योधाः श्वो युध्यस्व सकेशवः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 18 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 5.157local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷