🪷 Mahābhārata · Udyoga-Parva · Chapter 149
The Book of the Effort · Parva 5 · 84 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 84 Shlokas
MBh 5.149.1
वैशंपायन उवाच
जनार्दनवचः श्रुत्वा धर्मराजो युधिष्ठिरः
भ्रातॄनुवाच धर्मात्मा समक्षं केशवस्य ह
MBh 5.149.2
श्रुतं भवद्भिर्यद्वृत्तं सभायां कुरुसंसदि
केशवस्यापि यद्वाक्यं तत्सर्वमवधारितम्
MBh 5.149.3
तस्मात्सेनाविभागं मे कुरुध्वं नरसत्तमाः
अक्षौहिण्यस्तु सप्तैताः समेता विजयाय वै
MBh 5.149.4
तासां मे पतयः सप्त विख्यातास्तान्निबोधत
द्रुपदश्च विराटश्च धृष्टद्युम्नशिखण्डिनौ
MBh 5.149.5
सात्यकिश्चेकितानश्च भीमसेनश्च वीर्यवान्
एते सेनाप्रणेतारो वीराः सर्वे तनुत्यजः
MBh 5.149.6
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः
ह्रीमन्तो नीतिमन्तश्च सर्वे युद्धविशारदाः
इष्वस्त्रकुशलाश्चैव तथा सर्वास्त्रयोधिनः
MBh 5.149.7
सप्तानामपि यो नेता सेनानां प्रविभागवित्
यः सहेत रणे भीष्मं शरार्चिःपावकोपमम्
MBh 5.149.8
त्वं तावत्सहदेवात्र प्रब्रूहि कुरुनन्दन
स्वमतं पुरुषव्याघ्र को नः सेनापतिः क्षमः
MBh 5.149.9
सहदेव उवाच
संयुक्त एकदुःखश्च वीर्यवांश्च महीपतिः
यं समाश्रित्य धर्मज्ञं स्वमंशमनुयुञ्ज्महे
MBh 5.149.10
मत्स्यो विराटो बलवान्कृतास्त्रो युद्धदुर्मदः
प्रसहिष्यति संग्रामे भीष्मं तांश्च महारथान्
MBh 5.149.11
वैशंपायन उवाच
तथोक्ते सहदेवेन वाक्ये वाक्यविशारदः
नकुलोऽनन्तरं तस्मादिदं वचनमाददे
MBh 5.149.12
वयसा शास्त्रतो धैर्यात्कुलेनाभिजनेन च
ह्रीमान्कुलान्वितः श्रीमान्सर्वशास्त्रविशारदः
MBh 5.149.13
वेद चास्त्रं भरद्वाजाद्दुर्धर्षः सत्यसंगरः
यो नित्यं स्पर्धते द्रोणं भीष्मं चैव महाबलम्
MBh 5.149.14
श्लाघ्यः पार्थिवसंघस्य प्रमुखे वाहिनीपतिः
पुत्रपौत्रैः परिवृतः शतशाख इव द्रुमः
MBh 5.149.15
यस्तताप तपो घोरं सदारः पृथिवीपतिः
रोषाद्द्रोणविनाशाय वीरः समितिशोभनः
MBh 5.149.16
पितेवास्मान्समाधत्ते यः सदा पार्थिवर्षभः
श्वशुरो द्रुपदोऽस्माकं सेनामग्रे प्रकर्षतु
MBh 5.149.17
स द्रोणभीष्मावायान्तौ सहेदिति मतिर्मम
स हि दिव्यास्त्रविद्राजा सखा चाङ्गिरसो नृपः
MBh 5.149.18
माद्रीसुताभ्यामुक्ते तु स्वमते कुरुनन्दनः
वासविर्वासवसमः सव्यसाच्यब्रवीद्वचः
MBh 5.149.19
योऽयं तपःप्रभावेन ऋषिसंतोषणेन च
दिव्यः पुरुष उत्पन्नो ज्वालावर्णो महाबलः
MBh 5.149.20
धनुष्मान्कवची खड्गी रथमारुह्य दंशितः
दिव्यैर्हयवरैर्युक्तमग्निकुण्डात्समुत्थितः
MBh 5.149.21
गर्जन्निव महामेघो रथघोषेण वीर्यवान्
सिंहसंहननो वीरः सिंहविक्रान्तविक्रमः
MBh 5.149.22
सिंहोरस्को महाबाहुः सिंहवक्षा महाबलः
सिंहप्रगर्जनो वीरः सिंहस्कन्धो महाद्युतिः
MBh 5.149.23
सुभ्रूः सुदंष्ट्रः सुहनुः सुबाहुः सुमुखोऽकृशः
सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः
MBh 5.149.24
अभेद्यः सर्वशस्त्राणां प्रभिन्न इव वारणः
जज्ञे द्रोणविनाशाय सत्यवादी जितेन्द्रियः
MBh 5.149.25
धृष्टद्युम्नमहं मन्ये सहेद्भीष्मस्य सायकान्
वज्राशनिसमस्पर्शान्दीप्तास्यानुरगानिव
MBh 5.149.26
यमदूतसमान्वेगे निपाते पावकोपमान्
रामेणाजौ विषहितान्वज्रनिष्पेषदारुणान्
MBh 5.149.27
पुरुषं तं न पश्यामि यः सहेत महाव्रतम्
धृष्टद्युम्नमृते राजन्निति मे धीयते मतिः
MBh 5.149.28
क्षिप्रहस्तश्चित्रयोधी मतः सेनापतिर्मम
अभेद्यकवचः श्रीमान्मातङ्ग इव यूथपः
MBh 5.149.29
भीम उवाच
वधार्थं यः समुत्पन्नः शिखण्डी द्रुपदात्मजः
वदन्ति सिद्धा राजेन्द्र ऋषयश्च समागताः
MBh 5.149.30
यस्य संग्राममध्येषु दिव्यमस्त्रं विकुर्वतः
रूपं द्रक्ष्यन्ति पुरुषा रामस्येव महात्मनः
MBh 5.149.31
न तं युद्धेषु पश्यामि यो विभिन्द्याच्छिखण्डिनम्
शस्त्रेण समरे राजन्संनद्धं स्यन्दने स्थितम्
MBh 5.149.32
द्वैरथे विषहेन्नान्यो भीष्मं राजन्महाव्रतम्
शिखण्डिनमृते वीरं स मे सेनापतिर्मतः
MBh 5.149.33
युधिष्ठिर उवाच
सर्वस्य जगतस्तात सारासारं बलाबलम्
सर्वं जानाति धर्मात्मा गतमेष्यच्च केशवः
MBh 5.149.34
यमाह कृष्णो दाशार्हः सोऽस्तु नो वाहिनीपतिः
कृतास्त्रो ह्यकृतास्त्रो वा वृद्धो वा यदि वा युवा
MBh 5.149.35
एष नो विजये मूलमेष तात विपर्यये
अत्र प्राणाश्च राज्यं च भावाभावौ सुखासुखे
MBh 5.149.36
एष धाता विधाता च सिद्धिरत्र प्रतिष्ठिता
यमाह कृष्णो दाशार्हः स नः सेनापतिः क्षमः
ब्रवीतु वदतां श्रेष्ठो निशा समतिवर्तते
MBh 5.149.37
ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनम्
रात्रिशेषे व्यतिक्रान्ते प्रयास्यामो रणाजिरम्
अधिवासितशस्त्राश्च कृतकौतुकमङ्गलाः
MBh 5.149.38
वैशंपायन उवाच
तस्य तद्वचनं श्रुत्वा धर्मराजस्य धीमतः
अब्रवीत्पुण्डरीकाक्षो धनंजयमवेक्ष्य ह
MBh 5.149.39
ममाप्येते महाराज भवद्भिर्य उदाहृताः
नेतारस्तव सेनायाः शूरा विक्रान्तयोधिनः
सर्व एते समर्था हि तव शत्रून्प्रमर्दितुम्
MBh 5.149.40
इन्द्रस्यापि भयं ह्येते जनयेयुर्महाहवे
किं पुनर्धार्तराष्ट्राणां लुब्धानां पापचेतसाम्
MBh 5.149.41
मयापि हि महाबाहो त्वत्प्रियार्थमरिंदम
कृतो यत्नो महांस्तत्र शमः स्यादिति भारत
धर्मस्य गतमानृण्यं न स्म वाच्या विवक्षताम्
MBh 5.149.42
कृतार्थं मन्यते बालः सोऽऽत्मानमविचक्षणः
धार्तराष्ट्रो बलस्थं च मन्यतेऽऽत्मानमातुरः
MBh 5.149.43
युज्यतां वाहिनी साधु वधसाध्या हि ते मताः
न धार्तराष्ट्राः शक्ष्यन्ति स्थातुं दृष्ट्वा धनंजयम्
MBh 5.149.44
भीमसेनं च संक्रुद्धं यमौ चापि यमोपमौ
युयुधानद्वितीयं च धृष्टद्युम्नममर्षणम्
MBh 5.149.45
अभिमन्युं द्रौपदेयान्विराटद्रुपदावपि
अक्षौहिणीपतींश्चान्यान्नरेन्द्रान्दृढविक्रमान्
MBh 5.149.46
सारवद्बलमस्माकं दुष्प्रधर्षं दुरासदम्
धार्तराष्ट्रबलं संख्ये वधिष्यति न संशयः
MBh 5.149.47
एवमुक्ते तु कृष्णेन संप्रहृष्यन्नरोत्तमाः
तेषां प्रहृष्टमनसां नादः समभवन्महान्
MBh 5.149.48
योग इत्यथ सैन्यानां त्वरतां संप्रधावताम्
हयवारणशब्दश्च नेमिघोषश्च सर्वशः
शङ्खदुन्दुभिनिर्घोषस्तुमुलः सर्वतोऽभवत्
MBh 5.149.49
प्रयास्यतां पाण्डवानां ससैन्यानां समन्ततः
गङ्गेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी
MBh 5.149.50
अग्रानीके भीमसेनो माद्रीपुत्रौ च दंशितौ
सौभद्रो द्रौपदेयाश्च धृष्टद्युम्नश्च पार्षतः
प्रभद्रकाश्च पाञ्चाला भीमसेनमुखा ययुः
MBh 5.149.51
ततः शब्दः समभवत्समुद्रस्येव पर्वणि
हृष्टानां संप्रयातानां घोषो दिवमिवास्पृशत्
MBh 5.149.52
प्रहृष्टा दंशिता योधाः परानीकविदारणाः
तेषां मध्ये ययौ राजा कुन्तीपुत्रो युधिष्ठिरः
MBh 5.149.53
शकटापणवेशाश्च यानयुग्यं च सर्वशः
कोशयन्त्रायुधं चैव ये च वैद्याश्चिकित्सकाः
MBh 5.149.54
फल्गु यच्च बलं किंचित्तथैव कृशदुर्बलम्
तत्संगृह्य ययौ राजा ये चापि परिचारकाः
MBh 5.149.55
उपप्लव्ये तु पाञ्चाली द्रौपदी सत्यवादिनी
सह स्त्रीभिर्निववृते दासीदाससमावृता
MBh 5.149.56
कृत्वा मूलप्रतीकारान्गुल्मैः स्थावरजङ्गमैः
स्कन्धावारेण महता प्रययुः पाण्डुनन्दनाः
MBh 5.149.57
ददतो गां हिरण्यं च ब्राह्मणैरभिसंवृताः
स्तूयमाना ययू राजन्रथैर्मणिविभूषितैः
MBh 5.149.58
केकया धृष्टकेतुश्च पुत्रः काश्यस्य चाभिभूः
श्रेणिमान्वसुदानश्च शिखण्डी चापराजितः
MBh 5.149.59
हृष्टास्तुष्टाः कवचिनः सशस्त्राः समलंकृताः
राजानमन्वयुः सर्वे परिवार्य युधिष्ठिरम्
MBh 5.149.60
जघनार्धे विराटश्च यज्ञसेनश्च सोमकिः
सुधर्मा कुन्तिभोजश्च धृष्टद्युम्नस्य चात्मजाः
MBh 5.149.61
रथायुतानि चत्वारि हयाः पञ्चगुणास्ततः
पत्तिसैन्यं दशगुणं सादिनामयुतानि षट्
MBh 5.149.62
अनाधृष्टिश्चेकितानश्चेदिराजोऽथ सात्यकिः
परिवार्य ययुः सर्वे वासुदेवधनंजयौ
MBh 5.149.63
आसाद्य तु कुरुक्षेत्रं व्यूढानीकाः प्रहारिणः
पाण्डवाः समदृश्यन्त नर्दन्तो वृषभा इव
MBh 5.149.64
तेऽवगाह्य कुरुक्षेत्रं शङ्खान्दध्मुररिंदमाः
तथैव दध्मतुः शङ्खौ वासुदेवधनंजयौ
MBh 5.149.65
पाञ्चजन्यस्य निर्घोषं विस्फूर्जितमिवाशनेः
निशम्य सर्वसैन्यानि समहृष्यन्त सर्वशः
MBh 5.149.66
शङ्खदुन्दुभिसंसृष्टः सिंहनादस्तरस्विनाम्
पृथिवीं चान्तरिक्षं च सागरांश्चान्वनादयत्
MBh 5.149.67
ततो देशे समे स्निग्धे प्रभूतयवसेन्धने
निवेशयामास तदा सेनां राजा युधिष्ठिरः
MBh 5.149.68
परिहृत्य श्मशानानि देवतायतनानि च
आश्रमांश्च महर्षीणां तीर्थान्यायतनानि च
MBh 5.149.69
मधुरानूषरे देशे शिवे पुण्ये महीपतिः
निवेशं कारयामास कुन्तीपुत्रो युधिष्ठिरः
MBh 5.149.70
ततश्च पुनरुत्थाय सुखी विश्रान्तवाहनः
प्रययौ पृथिवीपालैर्वृतः शतसहस्रशः
MBh 5.149.71
विद्राव्य शतशो गुल्मान्धार्तराष्ट्रस्य सैनिकान्
पर्यक्रामत्समन्ताच्च पार्थेन सह केशवः
MBh 5.149.72
शिबिरं मापयामास धृष्टद्युम्नश्च पार्षतः
सात्यकिश्च रथोदारो युयुधानः प्रतापवान्
MBh 5.149.73
आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम्
सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम्
MBh 5.149.74
खानयामास परिखां केशवस्तत्र भारत
गुप्त्यर्थमपि चादिश्य बलं तत्र न्यवेशयत्
MBh 5.149.75
विधिर्यः शिबिरस्यासीत्पाण्डवानां महात्मनाम्
तद्विधानि नरेन्द्राणां कारयामास केशवः
MBh 5.149.76
प्रभूतजलकाष्ठानि दुराधर्षतराणि च
भक्ष्यभोज्योपपन्नानि शतशोऽथ सहस्रशः
MBh 5.149.77
शिबिराणि महार्हाणि राज्ञां तत्र पृथक्पृथक्
विमानानीव राजेन्द्र निविष्टानि महीतले
MBh 5.149.78
तत्रासञ्शिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः
सर्वोपकरणैर्युक्ता वैद्याश्च सुविशारदाः
MBh 5.149.79
ज्याधनुर्वर्मशस्त्राणां तथैव मधुसर्पिषोः
ससर्जरसपांसूनां राशयः पर्वतोपमाः
MBh 5.149.80
बहूदकं सुयवसं तुषाङ्गारसमन्वितम्
शिबिरे शिबिरे राजा संचकार युधिष्ठिरः
MBh 5.149.81
महायन्त्राणि नाराचास्तोमरर्ष्टिपरश्वधाः
धनूंषि कवचादीनि हृद्यभूवन्नृणां तदा
MBh 5.149.82
गजाः कङ्कटसंनाहा लोहवर्मोत्तरच्छदाः
अदृश्यंस्तत्र गिर्याभाः सहस्रशतयोधिनः
MBh 5.149.83
निविष्टान्पाण्डवांस्तत्र ज्ञात्वा मित्राणि भारत
अभिसस्रुर्यथोद्देशं सबलाः सहवाहनाः
MBh 5.149.84
चरितब्रह्मचर्यास्ते सोमपा भूरिदक्षिणाः
जयाय पाण्डुपुत्राणां समाजग्मुर्महीक्षितः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Udyoga-Parva Ch 148
- Next chapter · Udyoga-Parva Ch 150 →
Sources and Connected Readings
Continue from these 84 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 5.149local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷