🪷 Mahābhārata · Udyoga-Parva · Chapter 148

The Book of the Effort · Parva 5 · 19 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 19 Shlokas

MBh 5.148.1
[वासु] एवम उक्ते तु भीष्मेण दरॊणेन विदुरेण च गान्धार्या धृतराष्ट्रेण न च मन्दॊ ऽनवबुध्यत
MBh 5.148.2
अवधूयॊत्थितः करुद्धॊ रॊषात संरक्तलॊचनः अन्वद्रवन्त तं पश्चाद राजानस तयक्तजीविताः
MBh 5.148.3
अज्ञापयच च राज्ञस तान पार्थिवन दुष्टचेतसः परयाध्वं वै कुरुक्षेत्रं पुष्यॊ ऽदयेति पुनः पुनः
MBh 5.148.4
ततस ते पृथिवीपालाः परययुः सह सैनिकाः भीष्मं सेनापतिं कृत्वा संहृष्टाः कालचॊदिताः
MBh 5.148.5
अक्षौहिण्यॊ दशैका च पार्थिवानां समागताः तासां परमुखतॊ भीष्मस तालकेतुर वयरॊचत यद अत्र युक्तं पराप्तं च तद विधत्स्व विशां पते
MBh 5.148.6
उक्तं भीष्मेण यद वाक्यं दरॊणेन विदुरेण च गान्धार्या धृतराष्ट्रेण समक्षं मम भारत एतत ते कथितं राजन यद्वृत्तं कुरुसंसदि
MBh 5.148.7
साम दादौ परयुक्तं मे राजन सौभ्रात्रम इच्छता अभेदात कुरुवंशस्य परजानां च विवृद्धये
MBh 5.148.8
पुनर भेदश च मे युक्तॊ यदा साम न गृह्यते कर्मानुकीर्तनं चैव देव मानुषसंहितम
MBh 5.148.9
यदा नाद्रियते वाक्यं सामपूर्वं सुयॊधनः तदा मया समानीय भेदिताः सर्वपार्थिवाः
MBh 5.148.10
अद्भुतानि च घॊराणि दारुणानि च भारत अमानुषाणि कर्माणि दर्शितानि च मे विभॊ
MBh 5.148.11
भर्त्सयित्वा तु राज्ञस तांस तृणी कृत्यसुयॊधनम राध्येयं भीषयित्वा च सौबलं च पुनः पुनः
MBh 5.148.12
नयूनतां धार्तराष्ट्राणां निन्दां चैव पुनः पुनः भेदयित्वा नृपान सर्वान वाग्भिर मन्त्रेण चासकृत
MBh 5.148.13
पुनः सामाभिसंयुक्तं संप्रदानम अथाब्रुवम अभेदात कुरुवंशस्य कार्ययॊगात तथैव च
MBh 5.148.14
ते बाला धृतराष्ट्रस्य भीष्मस्य विदुरस्य च तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानम अधश चराः
MBh 5.148.15
परयच्छन्तु च ते राज्यम अनीशास ते भवन्तु च यथाह राजा गाङ्गेयॊ विदुरश च तथास्तु तत
MBh 5.148.16
सर्वं भवतु ते राज्यं पञ्च गरामान विसर्जय अवश्यं भरणीया हि पितुस ते राजसत्तम
MBh 5.148.17
एवम उक्तस तु दुष्टात्मा नैव भावं वयमुञ्चत दण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा
MBh 5.148.18
निर्याताश च विनाशाय कुरुक्षेत्रं नराधिपाः एतत ते कथितं सर्वं यद्वृत्तं कुरुसंसदि
MBh 5.148.19
न ते राज्यं परयच्छन्ति विना युद्धेन पाण्डव विनाशहेतवः सर्वे परत्युपस्थित मृत्यवः

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷