🪷 Mahābhārata · Udyoga-Parva · Chapter 142

The Book of the Effort · Parva 5 · 30 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 30 Shlokas

MBh 5.142.1
वैशंपायन उवाच असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान्गते अभिगम्य पृथां क्षत्ता शनैः शोचन्निवाब्रवीत्
MBh 5.142.2
जानासि मे जीवपुत्रे भावं नित्यमनुग्रहे क्रोशतो न च गृह्णीते वचनं मे सुयोधनः
MBh 5.142.3
उपपन्नो ह्यसौ राजा चेदिपाञ्चालकेकयैः भीमार्जुनाभ्यां कृष्णेन युयुधानयमैरपि
MBh 5.142.4
उपप्लव्ये निविष्टोऽपि धर्ममेव युधिष्ठिरः काङ्क्षते ज्ञातिसौहार्दाद्बलवान्दुर्बलो यथा
MBh 5.142.5
राजा तु धृतराष्ट्रोऽयं वयोवृद्धो न शाम्यति मत्तः पुत्रमदेनैव विधर्मे पथि वर्तते
MBh 5.142.6
जयद्रथस्य कर्णस्य तथा दुःशासनस्य च सौबलस्य च दुर्बुद्ध्या मिथोभेदः प्रवर्तते
MBh 5.142.7
अधर्मेण हि धर्मिष्ठं हृतं वै राज्यमीदृशम् येषां तेषामयं धर्मः सानुबन्धो भविष्यति
MBh 5.142.8
ह्रियमाणे बलाद्धर्मे कुरुभिः को न संज्वरेत् असाम्ना केशवे याते समुद्योक्ष्यन्ति पाण्डवाः
MBh 5.142.9
ततः कुरूणामनयो भविता वीरनाशनः चिन्तयन्न लभे निद्रामहःसु च निशासु च
MBh 5.142.10
श्रुत्वा तु कुन्ती तद्वाक्यमर्थकामेन भाषितम् अनिष्टनन्ती दुःखार्ता मनसा विममर्श ह
MBh 5.142.11
धिगस्त्वर्थं यत्कृतेऽयं महाञ्ज्ञातिवधे क्षयः वर्त्स्यते सुहृदां ह्येषां युद्धेऽस्मिन्वै पराभवः
MBh 5.142.12
पाण्डवाश्चेदिपाञ्चाला यादवाश्च समागताः भारतैर्यदि योत्स्यन्ति किं नु दुःखमतः परम्
MBh 5.142.13
पश्ये दोषं ध्रुवं युद्धे तथा युद्धे पराभवम् अधनस्य मृतं श्रेयो न हि ज्ञातिक्षये जयः
MBh 5.142.14
पितामहः शांतनव आचार्यश्च युधां पतिः कर्णश्च धार्तराष्ट्रार्थं वर्धयन्ति भयं मम
MBh 5.142.15
नाचार्यः कामवाञ्शिष्यैर्द्रोणो युध्येत जातु चित् पाण्डवेषु कथं हार्दं कुर्यान्न च पितामहः
MBh 5.142.16
अयं त्वेको वृथादृष्टिर्धार्तराष्ट्रस्य दुर्मतेः मोहानुवर्ती सततं पापो द्वेष्टि च पाण्डवान्
MBh 5.142.17
महत्यनर्थे निर्बन्धी बलवांश्च विशेषतः कर्णः सदा पाण्डवानां तन्मे दहति सांप्रतम्
MBh 5.142.18
आशंसे त्वद्य कर्णस्य मनोऽहं पाण्डवान्प्रति प्रसादयितुमासाद्य दर्शयन्ती यथातथम्
MBh 5.142.19
तोषितो भगवान्यत्र दुर्वासा मे वरं ददौ आह्वानं देवसंयुक्तं वसन्त्याः पितृवेश्मनि
MBh 5.142.20
साहमन्तःपुरे राज्ञः कुन्तिभोजपुरस्कृता चिन्तयन्ती बहुविधं हृदयेन विदूयता
MBh 5.142.21
बलाबलं च मन्त्राणां ब्राह्मणस्य च वाग्बलम् स्त्रीभावाद्बालभावाच्च चिन्तयन्ती पुनः पुनः
MBh 5.142.22
धात्र्या विश्रब्धया गुप्ता सखीजनवृता तदा दोषं परिहरन्ती च पितुश्चारित्ररक्षिणी
MBh 5.142.23
कथं नु सुकृतं मे स्यान्नापराधवती कथम् भवेयमिति संचिन्त्य ब्राह्मणं तं नमस्य च
MBh 5.142.24
कौतूहलात्तु तं लब्ध्वा बालिश्यादाचरं तदा कन्या सती देवमर्कमासादयमहं ततः
MBh 5.142.25
योऽसौ कानीनगर्भो मे पुत्रवत्परिवर्तितः कस्मान्न कुर्याद्वचनं पथ्यं भ्रातृहितं तथा
MBh 5.142.26
इति कुन्ती विनिश्चित्य कार्यं निश्चितमुत्तमम् कार्यार्थमभिनिर्याय ययौ भागीरथीं प्रति
MBh 5.142.27
आत्मजस्य ततस्तस्य घृणिनः सत्यसङ्गिनः गङ्गातीरे पृथाशृण्वदुपाध्ययननिस्वनम्
MBh 5.142.28
प्राङ्मुखस्योर्ध्वबाहोः सा पर्यतिष्ठत पृष्ठतः जप्यावसानं कार्यार्थं प्रतीक्षन्ती तपस्विनी
MBh 5.142.29
अतिष्ठत्सूर्यतापार्ता कर्णस्योत्तरवाससि कौरव्यपत्नी वार्ष्णेयी पद्ममालेव शुष्यती
MBh 5.142.30
आ पृष्ठतापाज्जप्त्वा स परिवृत्य यतव्रतः दृष्ट्वा कुन्तीमुपातिष्ठदभिवाद्य कृताञ्जलिः यथान्यायं महातेजा मानी धर्मभृतां वरः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 30 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 5.142local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷