🪷 Mahābhārata · Udyoga-Parva · Chapter 141

The Book of the Effort · Parva 5 · 49 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 49 Shlokas

MBh 5.141.1
संजय उवाच केशवस्य तु तद्वाक्यं कर्णः श्रुत्वा हितं शुभम् अब्रवीदभिसंपूज्य कृष्णं मधुनिषूदनम् जानन्मां किं महाबाहो संमोहयितुमिच्छसि
MBh 5.141.2
योऽयं पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितः निमित्तं तत्र शकुनिरहं दुःशासनस्तथा दुर्योधनश्च नृपतिर्धृतराष्ट्रसुतोऽभवत्
MBh 5.141.3
असंशयमिदं कृष्ण महद्युद्धमुपस्थितम् पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम्
MBh 5.141.4
राजानो राजपुत्राश्च दुर्योधनवशानुगाः रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम्
MBh 5.141.5
स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः
MBh 5.141.6
पराजयं धार्तराष्ट्रे विजयं च युधिष्ठिरे शंसन्त इव वार्ष्णेय विविधा लोमहर्षणाः
MBh 5.141.7
प्राजापत्यं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः शनैश्चरः पीडयति पीडयन्प्राणिनोऽधिकम्
MBh 5.141.8
कृत्वा चाङ्गारको वक्रं ज्येष्ठायां मधुसूदन अनुराधां प्रार्थयते मैत्रं संशमयन्निव
MBh 5.141.9
नूनं महद्भयं कृष्ण कुरूणां समुपस्थितम् विशेषेण हि वार्ष्णेय चित्रां पीडयते ग्रहः
MBh 5.141.10
सोमस्य लक्ष्म व्यावृत्तं राहुरर्कमुपेष्यति दिवश्चोल्काः पतन्त्येताः सनिर्घाताः सकम्पनाः
MBh 5.141.11
निष्टनन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः पानीयं यवसं चापि नाभिनन्दन्ति माधव
MBh 5.141.12
प्रादुर्भूतेषु चैतेषु भयमाहुरुपस्थितम् निमित्तेषु महाबाहो दारुणं प्राणिनाशनम्
MBh 5.141.13
अल्पे भुक्ते पुरीषं च प्रभूतमिह दृश्यते वाजिनां वारणानां च मनुष्याणां च केशव
MBh 5.141.14
धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन पराभवस्य तल्लिङ्गमिति प्राहुर्मनीषिणः
MBh 5.141.15
प्रहृष्टं वाहनं कृष्ण पाण्डवानां प्रचक्षते प्रदक्षिणा मृगाश्चैव तत्तेषां जयलक्षणम्
MBh 5.141.16
अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशव वाचश्चाप्यशरीरिण्यस्तत्पराभवलक्षणम्
MBh 5.141.17
मयूराः पुष्पशकुना हंसाः सारसचातकाः जीवं जीवकसंघाश्चाप्यनुगच्छन्ति पाण्डवान्
MBh 5.141.18
गृध्राः काका बडाः श्येना यातुधानाः शलावृकाः मक्षिकाणां च संघाता अनुगच्छन्ति कौरवान्
MBh 5.141.19
धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निस्वनः अनाहताः पाण्डवानां नदन्ति पटहाः किल
MBh 5.141.20
उदपानाश्च नर्दन्ति यथा गोवृषभास्तथा धार्तराष्ट्रस्य सैन्येषु तत्पराभवलक्षणम्
MBh 5.141.21
मांसशोणितवर्षं च वृष्टं देवेन माधव तथा गन्धर्वनगरं भानुमन्तमुपस्थितम् सप्राकारं सपरिखं सवप्रं चारुतोरणम्
MBh 5.141.22
कृष्णश्च परिघस्तत्र भानुमावृत्य तिष्ठति उदयास्तमये संध्ये वेदयानो महद्भयम् एका सृग्वाशते घोरं तत्पराभवलक्षणम्
MBh 5.141.23
कृष्णग्रीवाश्च शकुना लम्बमाना भयानकाः संध्यामभिमुखा यान्ति तत्पराभवलक्षणम्
MBh 5.141.24
ब्राह्मणान्प्रथमं द्वेष्टि गुरूंश्च मधुसूदन भृत्यान्भक्तिमतश्चापि तत्पराभवलक्षणम्
MBh 5.141.25
पूर्वा दिग्लोहिताकारा शस्त्रवर्णा च दक्षिणा आमपात्रप्रतीकाशा पश्चिमा मधुसूदन
MBh 5.141.26
प्रदीप्ताश्च दिशः सर्वा धार्तराष्ट्रस्य माधव महद्भयं वेदयन्ति तस्मिन्नुत्पातलक्षणे
MBh 5.141.27
सहस्रपादं प्रासादं स्वप्नान्ते स्म युधिष्ठिरः अधिरोहन्मया दृष्टः सह भ्रातृभिरच्युत
MBh 5.141.28
श्वेतोष्णीषाश्च दृश्यन्ते सर्वे ते शुक्लवाससः आसनानि च शुभ्राणि सर्वेषामुपलक्षये
MBh 5.141.29
तव चापि मया कृष्ण स्वप्नान्ते रुधिराविला आन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन
MBh 5.141.30
अस्थिसंचयमारूढश्चामितौजा युधिष्ठिरः सुवर्णपात्र्यां संहृष्टो भुक्तवान्घृतपायसम्
MBh 5.141.31
युधिष्ठिरो मया दृष्टो ग्रसमानो वसुंधराम् त्वया दत्तामिमां व्यक्तं भोक्ष्यते स वसुंधराम्
MBh 5.141.32
उच्चं पर्वतमारूढो भीमकर्मा वृकोदरः गदापाणिर्नरव्याघ्रो वीक्षन्निव महीमिमाम्
MBh 5.141.33
क्षपयिष्यति नः सर्वान्स सुव्यक्तं महारणे विदितं मे हृषीकेश यतो धर्मस्ततो जयः
MBh 5.141.34
पाण्डुरं गजमारूढो गाण्डीवी स धनंजयः त्वया सार्धं हृषीकेश श्रिया परमया ज्वलन्
MBh 5.141.35
यूयं सर्वान्वधिष्यध्वं तत्र मे नास्ति संशयः पार्थिवान्समरे कृष्ण दुर्योधनपुरोगमान्
MBh 5.141.36
नकुलः सहदेवश्च सात्यकिश्च महारथः शुद्धकेयूरकण्ठत्राः शुक्लमाल्याम्बरावृताः
MBh 5.141.37
अधिरूढा नरव्याघ्रा नरवाहनमुत्तमम् त्रय एते महामात्राः पाण्डुरच्छत्रवाससः
MBh 5.141.38
श्वेतोष्णीषाश्च दृश्यन्ते त्रय एव जनार्दन धार्तराष्ट्रस्य सैन्येषु तान्विजानीहि केशव
MBh 5.141.39
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः रक्तोष्णीषाश्च दृश्यन्ते सर्वे माधव पार्थिवाः
MBh 5.141.40
उष्ट्रयुक्तं समारूढौ भीष्मद्रोणौ जनार्दन मया सार्धं महाबाहो धार्तराष्ट्रेण चाभिभो
MBh 5.141.41
अगस्त्यशास्तां च दिशं प्रयाताः स्म जनार्दन अचिरेणैव कालेन प्राप्स्यामो यमसादनम्
MBh 5.141.42
अहं चान्ये च राजानो यच्च तत्क्षत्रमण्डलम् गाण्डीवाग्निं प्रवेक्ष्याम इति मे नास्ति संशयः
MBh 5.141.43
कृष्ण उवाच उपस्थितविनाशेयं नूनमद्य वसुंधरा तथा हि मे वचः कर्ण नोपैति हृदयं तव
MBh 5.141.44
सर्वेषां तात भूतानां विनाशे समुपस्थिते अनयो नयसंकाशो हृदयान्नापसर्पति
MBh 5.141.45
कर्ण उवाच अपि त्वा कृष्ण पश्याम जीवन्तोऽस्मान्महारणात् समुत्तीर्णा महाबाहो वीरक्षयविनाशनात्
MBh 5.141.46
अथ वा संगमः कृष्ण स्वर्गे नो भविता ध्रुवम् तत्रेदानीं समेष्यामः पुनः सार्धं त्वयानघ
MBh 5.141.47
संजय उवाच इत्युक्त्वा माधवं कर्णः परिष्वज्य च पीडितम् विसर्जितः केशवेन रथोपस्थादवातरत्
MBh 5.141.48
ततः स्वरथमास्थाय जाम्बूनदविभूषितम् सहास्माभिर्निववृते राधेयो दीनमानसः
MBh 5.141.49
ततः शीघ्रतरं प्रायात्केशवः सहसात्यकिः पुनरुच्चारयन्वाणीं याहि याहीति सारथिम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 49 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 5.141local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷