🪷 Mahābhārata · Udyoga-Parva · Chapter 132
The Book of the Effort · Parva 5 · 40 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 40 Shlokas
MBh 5.132.1
विदुरोवाच
अथैतस्यामवस्थायां पौरुषं हातुमिच्छसि
निहीनसेवितं मार्गं गमिष्यस्यचिरादिव
MBh 5.132.2
यो हि तेजो यथाशक्ति न दर्शयति विक्रमात्
क्षत्रियो जीविताकाङ्क्षी स्तेन इत्येव तं विदुः
MBh 5.132.3
अर्थवन्त्युपपन्नानि वाक्यानि गुणवन्ति च
नैव संप्राप्नुवन्ति त्वां मुमूर्षुमिव भेषजम्
MBh 5.132.4
सन्ति वै सिन्धुराजस्य संतुष्टा बहवो जनाः
दौर्बल्यादासते मूढा व्यसनौघप्रतीक्षिणः
MBh 5.132.5
सहायोपचयं कृत्वा व्यवसाय्य ततस्ततः
अनुदुष्येयुरपरे पश्यन्तस्तव पौरुषम्
MBh 5.132.6
तैः कृत्वा सह संघातं गिरिदुर्गालयांश्चर
काले व्यसनमाकाङ्क्षन्नैवायमजरामरः
MBh 5.132.7
संजयो नामतश्च त्वं न च पश्यामि तत्त्वयि
अन्वर्थनामा भव मे पुत्र मा व्यर्थनामकः
MBh 5.132.8
सम्यग्दृष्टिर्महाप्राज्ञो बालं त्वां ब्राह्मणोऽब्रवीत्
अयं प्राप्य महत्कृच्छ्रं पुनर्वृद्धिं गमिष्यति
MBh 5.132.9
तस्य स्मरन्ती वचनमाशंसे विजयं तव
तस्मात्तात ब्रवीमि त्वां वक्ष्यामि च पुनः पुनः
MBh 5.132.10
यस्य ह्यर्थाभिनिर्वृत्तौ भवन्त्याप्यायिताः परे
तस्यार्थसिद्धिर्नियता नयेष्वर्थानुसारिणः
MBh 5.132.11
समृद्धिरसमृद्धिर्वा पूर्वेषां मम संजय
एवं विद्वान्युद्धमना भव मा प्रत्युपाहर
MBh 5.132.12
नातः पापीयसीं कांचिदवस्थां शम्बरोऽब्रवीत्
यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते
MBh 5.132.13
पतिपुत्रवधादेतत्परमं दुःखमब्रवीत्
दारिद्र्यमिति यत्प्रोक्तं पर्यायमरणं हि तत्
MBh 5.132.14
अहं महाकुले जाता ह्रदाद्ध्रदमिवागता
ईश्वरी सर्वकल्याणैर्भर्त्रा परमपूजिता
MBh 5.132.15
महार्हमाल्याभरणां सुमृष्टाम्बरवाससम्
पुरा दृष्ट्वा सुहृद्वर्गो मामपश्यत्सुदुर्गताम्
MBh 5.132.16
यदा मां चैव भार्यां च द्रष्टासि भृशदुर्बले
न तदा जीवितेनार्थो भविता तव संजय
MBh 5.132.17
दासकर्मकरान्भृत्यानाचार्यर्त्विक्पुरोहितान्
अवृत्त्यास्मान्प्रजहतो दृष्ट्वा किं जीवितेन ते
MBh 5.132.18
यदि कृत्यं न पश्यामि तवाद्येह यथा पुरा
श्लाघनीयं यशस्यं च का शान्तिर्हृदयस्य मे
MBh 5.132.19
नेति चेद्ब्राह्मणान्ब्रूयां दीर्यते हृदयं मम
न ह्यहं न च मे भर्ता नेति ब्राह्मणमुक्तवान्
MBh 5.132.20
वयमाश्रयणीयाः स्म नाश्रितारः परस्य च
सान्यानाश्रित्य जीवन्ती परित्यक्ष्यामि जीवितम्
MBh 5.132.21
अपारे भव नः पारमप्लवे भव नः प्लवः
कुरुष्व स्थानमस्थाने मृतान्संजीवयस्व नः
MBh 5.132.22
सर्वे ते शत्रवः सह्या न चेज्जीवितुमिच्छसि
अथ चेदीदृशीं वृत्तिं क्लीबामभ्युपपद्यसे
MBh 5.132.23
निर्विण्णात्मा हतमना मुञ्चैतां पापजीविकाम्
एकशत्रुवधेनैव शूरो गच्छति विश्रुतिम्
MBh 5.132.24
इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत
माहेन्द्रं च ग्रहं लेभे लोकानां चेश्वरोऽभवत्
MBh 5.132.25
नाम विश्राव्य वा संख्ये शत्रूनाहूय दंशितान्
सेनाग्रं वापि विद्राव्य हत्वा वा पुरुषं वरम्
MBh 5.132.26
यदैव लभते वीरः सुयुद्धेन महद्यशः
तदैव प्रव्यथन्तेऽस्य शत्रवो विनमन्ति च
MBh 5.132.27
त्यक्त्वात्मानं रणे दक्षं शूरं कापुरुषा जनाः
अवशाः पूरयन्ति स्म सर्वकामसमृद्धिभिः
MBh 5.132.28
राज्यं वाप्युग्रविभ्रंशं संशयो जीवितस्य वा
प्रलब्धस्य हि शत्रोर्वै शेषं कुर्वन्ति साधवः
MBh 5.132.29
स्वर्गद्वारोपमं राज्यमथ वाप्यमृतोपमम्
रुद्धमेकायने मत्वा पतोल्मुक इवारिषु
MBh 5.132.30
जहि शत्रून्रणे राजन्स्वधर्ममनुपालय
मा त्वा पश्येत्सुकृपणं शत्रुः श्रीमान्कदाचन
MBh 5.132.31
अस्मदीयैश्च शोचद्भिर्नदद्भिश्च परैर्वृतम्
अपि त्वां नानुपश्येयं दीना दीनमवस्थितम्
MBh 5.132.32
उष्य सौवीरकन्याभिः श्लाघस्वार्थैर्यथा पुरा
मा च सैन्धवकन्यानामवसन्नो वशं गमः
MBh 5.132.33
युवा रूपेण संपन्नो विद्ययाभिजनेन च
यस्त्वादृशो विकुर्वीत यशस्वी लोकविश्रुतः
वोढव्ये धुर्यनडुवन्मन्ये मरणमेव तत्
MBh 5.132.34
यदि त्वामनुपश्यामि परस्य प्रियवादिनम्
पृष्ठतोऽनुव्रजन्तं वा का शान्तिर्हृदयस्य मे
MBh 5.132.35
नास्मिञ्जातु कुले जातो गच्छेद्योऽन्यस्य पृष्ठतः
न त्वं परस्यानुधुरं तात जीवितुमर्हसि
MBh 5.132.36
अहं हि क्षत्रहृदयं वेद यत्परिशाश्वतम्
पूर्वैः पूर्वतरैः प्रोक्तं परैः परतरैरपि
MBh 5.132.37
यो वै कश्चिदिहाजातः क्षत्रियः क्षत्रधर्मवित्
भयाद्वृत्तिसमीक्षो वा न नमेदिह कस्यचित्
MBh 5.132.38
उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्
अप्यपर्वणि भज्येत न नमेदिह कस्यचित्
MBh 5.132.39
मातङ्गो मत्त इव च परीयात्सुमहामनाः
ब्राह्मणेभ्यो नमेन्नित्यं धर्मायैव च संजय
MBh 5.132.40
नियच्छन्नितरान्वर्णान्विनिघ्नन्सर्वदुष्कृतः
ससहायोऽसहायो वा यावज्जीवं तथा भवेत्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Udyoga-Parva Ch 131
- Next chapter · Udyoga-Parva Ch 133 →
Sources and Connected Readings
Continue from these 40 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 5.132local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷