🪷 Mahābhārata · Udyoga-Parva · Chapter 131

The Book of the Effort · Parva 5 · 42 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 42 Shlokas

MBh 5.131.1
कुन्त्युवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् विदुरायाश्च संवादं पुत्रस्य च परंतप
MBh 5.131.2
अत्र श्रेयश्च भूयश्च यथा सा वक्तुमर्हति यशस्विनी मन्युमती कुले जाता विभावरी
MBh 5.131.3
क्षत्रधर्मरता धन्या विदुरा दीर्घदर्शिनी विश्रुता राजसंसत्सु श्रुतवाक्या बहुश्रुता
MBh 5.131.4
विदुरा नाम वै सत्या जगर्हे पुत्रमौरसम् निर्जितं सिन्धुराजेन शयानं दीनचेतसम् अनन्दनमधर्मज्ञं द्विषतां हर्षवर्धनम्
MBh 5.131.5
न मया त्वं न पित्रासि जातः क्वाभ्यागतो ह्यसि निर्मन्युरुपशाखीयः पुरुषः क्लीबसाधनः
MBh 5.131.6
यावज्जीवं निराशोऽसि कल्याणाय धुरं वह मात्मानमवमन्यस्व मैनमल्पेन बीभरः मनः कृत्वा सुकल्याणं मा भैस्त्वं प्रतिसंस्तभ
MBh 5.131.7
उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः अमित्रान्नन्दयन्सर्वान्निर्मानो बन्धुशोकदः
MBh 5.131.8
सुपूरा वै कुनदिका सुपूरो मूषिकाञ्जलिः सुसंतोषः कापुरुषः स्वल्पकेनापि तुष्यति
MBh 5.131.9
अप्यरेरारुजन्दंष्ट्रामाश्वेव निधनं व्रज अपि वा संशयं प्राप्य जीवितेऽपि पराक्रम
MBh 5.131.10
अप्यरेः श्येनवच्छिद्रं पश्येस्त्वं विपरिक्रमन् विनदन्वाथ वा तूष्णीं व्योम्नि वापरिशङ्कितः
MBh 5.131.11
त्वमेवं प्रेतवच्छेषे कस्माद्वज्रहतो यथा उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः
MBh 5.131.12
मास्तं गमस्त्वं कृपणो विश्रूयस्व स्वकर्मणा मा मध्ये मा जघन्ये त्वं माधो भूस्तिष्ठ चोर्जितः
MBh 5.131.13
अलातं तिन्दुकस्येव मुहूर्तमपि विज्वल मा तुषाग्निरिवानर्चिः काकरङ्खा जिजीविषुः मुहूर्तं ज्वलितं श्रेयो न तु धूमायितं चिरम्
MBh 5.131.14
मा ह स्म कस्यचिद्गेहे जनी राज्ञः खरीमृदुः कृत्वा मानुष्यकं कर्म सृत्वाजिं यावदुत्तमम् धर्मस्यानृण्यमाप्नोति न चात्मानं विगर्हते
MBh 5.131.15
अलब्ध्वा यदि वा लब्ध्वा नानुशोचन्ति पण्डिताः आनन्तर्यं चारभते न प्राणानां धनायते
MBh 5.131.16
उद्भावयस्व वीर्यं वा तां वा गच्छ ध्रुवां गतिम् धर्मं पुत्राग्रतः कृत्वा किंनिमित्तं हि जीवसि
MBh 5.131.17
इष्टापूर्तं हि ते क्लीब कीर्तिश्च सकला हता विच्छिन्नं भोगमूलं ते किंनिमित्तं हि जीवसि
MBh 5.131.18
शत्रुर्निमज्जता ग्राह्यो जङ्घायां प्रपतिष्यता विपरिच्छिन्नमूलोऽपि न विषीदेत्कथंचन उद्यम्य धुरमुत्कर्षेदाजानेयकृतं स्मरन्
MBh 5.131.19
कुरु सत्त्वं च मानं च विद्धि पौरुषमात्मनः उद्भावय कुलं मग्नं त्वत्कृते स्वयमेव हि
MBh 5.131.20
यस्य वृत्तं न जल्पन्ति मानवा महदद्भुतम् राशिवर्धनमात्रं स नैव स्त्री न पुनः पुमान्
MBh 5.131.21
दाने तपसि शौर्ये च यस्य न प्रथितं यशः विद्यायामर्थलाभे वा मातुरुच्चार एव सः
MBh 5.131.22
श्रुतेन तपसा वापि श्रिया वा विक्रमेण वा जनान्योऽभिभवत्यन्यान्कर्मणा हि स वै पुमान्
MBh 5.131.23
न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि नृशंस्यामयशस्यां च दुःखां कापुरुषोचिताम्
MBh 5.131.24
यमेनमभिनन्देयुरमित्राः पुरुषं कृशम् लोकस्य समवज्ञातं निहीनाशनवाससम्
MBh 5.131.25
अहोलाभकरं दीनमल्पजीवनमल्पकम् नेदृशं बन्धुमासाद्य बान्धवः सुखमेधते
MBh 5.131.26
अवृत्त्यैव विपत्स्यामो वयं राष्ट्रात्प्रवासिताः सर्वकामरसैर्हीनाः स्थानभ्रष्टा अकिंचनाः
MBh 5.131.27
अवर्णकारिणं सत्सु कुलवंशस्य नाशनम् कलिं पुत्रप्रवादेन संजय त्वामजीजनम्
MBh 5.131.28
निरमर्षं निरुत्साहं निर्वीर्यमरिनन्दनम् मा स्म सीमन्तिनी काचिज्जनयेत्पुत्रमीदृशम्
MBh 5.131.29
मा धूमाय ज्वलात्यन्तमाक्रम्य जहि शात्रवान् ज्वल मूर्धन्यमित्राणां मुहूर्तमपि वा क्षणम्
MBh 5.131.30
एतावानेव पुरुषो यदमर्षी यदक्षमी क्षमावान्निरमर्षश्च नैव स्त्री न पुनः पुमान्
MBh 5.131.31
संतोषो वै श्रियं हन्ति तथानुक्रोश एव च अनुत्थानभये चोभे निरीहो नाश्नुते महत्
MBh 5.131.32
एभ्यो निकृतिपापेभ्यः प्रमुञ्चात्मानमात्मना आयसं हृदयं कृत्वा मृगयस्व पुनः स्वकम्
MBh 5.131.33
पुरं विषहते यस्मात्तस्मात्पुरुष उच्यते तमाहुर्व्यर्थनामानं स्त्रीवद्य इह जीवति
MBh 5.131.34
शूरस्योर्जितसत्त्वस्य सिंहविक्रान्तगामिनः दिष्टभावं गतस्यापि विघसे मोदते प्रजा
MBh 5.131.35
य आत्मनः प्रियसुखे हित्वा मृगयते श्रियम् अमात्यानामथो हर्षमादधात्यचिरेण सः
MBh 5.131.36
पुत्र उवाच किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा
MBh 5.131.37
मातोवाच किमद्यकानां ये लोका द्विषन्तस्तानवाप्नुयुः ये त्वादृतात्मनां लोकाः सुहृदस्तान्व्रजन्तु नः
MBh 5.131.38
भृत्यैर्विहीयमानानां परपिण्डोपजीविनाम् कृपणानामसत्त्वानां मा वृत्तिमनुवर्तिथाः
MBh 5.131.39
अनु त्वां तात जीवन्तु ब्राह्मणाः सुहृदस्तथा पर्जन्यमिव भूतानि देवा इव शतक्रतुम्
MBh 5.131.40
यमाजीवन्ति पुरुषं सर्वभूतानि संजय पक्वं द्रुममिवासाद्य तस्य जीवितमर्थवत्
MBh 5.131.41
यस्य शूरस्य विक्रान्तैरेधन्ते बान्धवाः सुखम् त्रिदशा इव शक्रस्य साधु तस्येह जीवितम्
MBh 5.131.42
स्वबाहुबलमाश्रित्य योऽभ्युज्जीवति मानवः स लोके लभते कीर्तिं परत्र च शुभां गतिम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 42 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 5.131local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷