🪷 Mahābhārata · Strī-Parva · Chapter 8

The Book of the Women · Parva 11 · 48 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 48 Shlokas

MBh 11.8.1
वैशंपायन उवाच विदुरस्य तु तद्वाक्यं निशम्य कुरुसत्तमः पुत्रशोकाभिसंतप्तः पपात भुवि मूर्छितः
MBh 11.8.2
तं तथा पतितं भूमौ निःसंज्ञं प्रेक्ष्य बान्धवाः कृष्णद्वैपायनश्चैव क्षत्ता च विदुरस्तथा
MBh 11.8.3
संजयः सुहृदश्चान्ये द्वाःस्था ये चास्य संमताः जलेन सुखशीतेन तालवृन्तैश्च भारत
MBh 11.8.4
पस्पृशुश्च करैर्गात्रं वीजमानाश्च यत्नतः अन्वासन्सुचिरं कालं धृतराष्ट्रं तथागतम्
MBh 11.8.5
अथ दीर्घस्य कालस्य लब्धसंज्ञो महीपतिः विललाप चिरं कालं पुत्राधिभिरभिप्लुतः
MBh 11.8.6
धिगस्तु खलु मानुष्यं मानुष्ये च परिग्रहम् यतोमूलानि दुःखानि संभवन्ति मुहुर्मुहुः
MBh 11.8.7
पुत्रनाशेऽर्थनाशे च ज्ञातिसंबन्धिनामपि प्राप्यते सुमहद्दुःखं विषाग्निप्रतिमं विभो
MBh 11.8.8
येन दह्यन्ति गात्राणि येन प्रज्ञा विनश्यति येनाभिभूतः पुरुषो मरणं बहु मन्यते
MBh 11.8.9
तदिदं व्यसनं प्राप्तं मया भाग्यविपर्ययात् तच्चैवाहं करिष्यामि अद्यैव द्विजसत्तम
MBh 11.8.10
इत्युक्त्वा तु महात्मानं पितरं ब्रह्मवित्तमम् धृतराष्ट्रोऽभवन्मूढः शोकं च परमं गतः अभूच्च तूष्णीं राजासौ ध्यायमानो महीपते
MBh 11.8.11
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनः प्रभुः पुत्रशोकाभिसंतप्तं पुत्रं वचनमब्रवीत्
MBh 11.8.12
धृतराष्ट्र महाबाहो यत्त्वां वक्ष्यामि तच्छृणु श्रुतवानसि मेधावी धर्मार्थकुशलस्तथा
MBh 11.8.13
न तेऽस्त्यविदितं किंचिद्वेदितव्यं परंतप अनित्यतां हि मर्त्यानां विजानासि न संशयः
MBh 11.8.14
अध्रुवे जीवलोके च स्थाने वाशाश्वते सति जीविते मरणान्ते च कस्माच्छोचसि भारत
MBh 11.8.15
प्रत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवः पुत्रं ते कारणं कृत्वा कालयोगेन कारितः
MBh 11.8.16
अवश्यं भवितव्ये च कुरूणां वैशसे नृप कस्माच्छोचसि ताञ्शूरान्गतान्परमिकां गतिम्
MBh 11.8.17
जानता च महाबाहो विदुरेण महात्मना यतितं सर्वयत्नेन शमं प्रति जनेश्वर
MBh 11.8.18
न च दैवकृतो मार्गः शक्यो भूतेन केनचित् घटतापि चिरं कालं नियन्तुमिति मे मतिः
MBh 11.8.19
देवतानां हि यत्कार्यं मया प्रत्यक्षतः श्रुतम् तत्तेऽहं संप्रवक्ष्यामि कथं स्थैर्यं भवेत्तव
MBh 11.8.20
पुराहं त्वरितो यातः सभामैन्द्रीं जितक्लमः अपश्यं तत्र च तदा समवेतान्दिवौकसः नारदप्रमुखांश्चापि सर्वान्देवऋषींस्तथा
MBh 11.8.21
तत्र चापि मया दृष्टा पृथिवी पृथिवीपते कार्यार्थमुपसंप्राप्ता देवतानां समीपतः
MBh 11.8.22
उपगम्य तदा धात्री देवानाह समागतान् यत्कार्यं मम युष्माभिर्ब्रह्मणः सदने तदा प्रतिज्ञातं महाभागास्तच्छीघ्रं संविधीयताम्
MBh 11.8.23
तस्यास्तद्वचनं श्रुत्वा विष्णुर्लोकनमस्कृतः उवाच प्रहसन्वाक्यं पृथिवीं देवसंसदि
MBh 11.8.24
धृतराष्ट्रस्य पुत्राणां यस्तु ज्येष्ठः शतस्य वै दुर्योधन इति ख्यातः स ते कार्यं करिष्यति तं च प्राप्य महीपालं कृतकृत्या भविष्यसि
MBh 11.8.25
तस्यार्थे पृथिवीपालाः कुरुक्षेत्रे समागताः अन्योन्यं घातयिष्यन्ति दृढैः शस्त्रैः प्रहारिणः
MBh 11.8.26
ततस्ते भविता देवि भारस्य युधि नाशनम् गच्छ शीघ्रं स्वकं स्थानं लोकान्धारय शोभने
MBh 11.8.27
स एष ते सुतो राजँल्लोकसंहारकारणात् कलेरंशः समुत्पन्नो गान्धार्या जठरे नृप
MBh 11.8.28
अमर्षी चपलश्चापि क्रोधनो दुष्प्रसाधनः दैवयोगात्समुत्पन्ना भ्रातरश्चास्य तादृशाः
MBh 11.8.29
शकुनिर्मातुलश्चैव कर्णश्च परमः सखा समुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाः एतमर्थं महाबाहो नारदो वेद तत्त्वतः
MBh 11.8.30
आत्मापराधात्पुत्रास्ते विनष्टाः पृथिवीपते मा ताञ्शोचस्व राजेन्द्र न हि शोकेऽस्ति कारणम्
MBh 11.8.31
न हि ते पाण्डवाः स्वल्पमपराध्यन्ति भारत पुत्रास्तव दुरात्मानो यैरियं घातिता मही
MBh 11.8.32
नारदेन च भद्रं ते पूर्वमेव न संशयः युधिष्ठिरस्य समितौ राजसूये निवेदितम्
MBh 11.8.33
पाण्डवाः कौरवाश्चैव समासाद्य परस्परम् न भविष्यन्ति कौन्तेय यत्ते कृत्यं तदाचर
MBh 11.8.34
नारदस्य वचः श्रुत्वा तदाशोचन्त पाण्डवाः एतत्ते सर्वमाख्यातं देवगुह्यं सनातनम्
MBh 11.8.35
कथं ते शोकनाशः स्यात्प्राणेषु च दया प्रभो स्नेहश्च पाण्डुपुत्रेषु ज्ञात्वा दैवकृतं विधिम्
MBh 11.8.36
एष चार्थो महाबाहो पूर्वमेव मया श्रुतः कथितो धर्मराजस्य राजसूये क्रतूत्तमे
MBh 11.8.37
यतितं धर्मपुत्रेण मया गुह्ये निवेदिते अविग्रहे कौरवाणां दैवं तु बलवत्तरम्
MBh 11.8.38
अनतिक्रमणीयो हि विधी राजन्कथंचन कृतान्तस्य हि भूतेन स्थावरेण त्रसेन च
MBh 11.8.39
भवान्धर्मपरो यत्र बुद्धिश्रेष्ठश्च भारत मुह्यते प्राणिनां ज्ञात्वा गतिं चागतिमेव च
MBh 11.8.40
त्वां तु शोकेन संतप्तं मुह्यमानं मुहुर्मुहुः ज्ञात्वा युधिष्ठिरो राजा प्राणानपि परित्यजेत्
MBh 11.8.41
कृपालुर्नित्यशो वीरस्तिर्यग्योनिगतेष्वपि स कथं त्वयि राजेन्द्र कृपां वै न करिष्यति
MBh 11.8.42
मम चैव नियोगेन विधेश्चाप्यनिवर्तनात् पाण्डवानां च कारुण्यात्प्राणान्धारय भारत
MBh 11.8.43
एवं ते वर्तमानस्य लोके कीर्तिर्भविष्यति धर्मश्च सुमहांस्तात तप्तं स्याच्च तपश्चिरात्
MBh 11.8.44
पुत्रशोकसमुत्पन्नं हुताशं ज्वलितं यथा प्रज्ञाम्भसा महाराज निर्वापय सदा सदा
MBh 11.8.45
एतच्छ्रुत्वा तु वचनं व्यासस्यामिततेजसः मुहूर्तं समनुध्याय धृतराष्ट्रोऽभ्यभाषत
MBh 11.8.46
महता शोकजालेन प्रणुन्नोऽस्मि द्विजोत्तम नात्मानमवबुध्यामि मुह्यमानो मुहुर्मुहुः
MBh 11.8.47
इदं तु वचनं श्रुत्वा तव दैवनियोगजम् धारयिष्याम्यहं प्राणान्यतिष्ये च नशोचितुम्
MBh 11.8.48
एतच्छ्रुत्वा तु वचनं व्यासः सत्यवतीसुतः धृतराष्ट्रस्य राजेन्द्र तत्रैवान्तरधीयत

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 48 source-pinned Devanāgarī addresses to Strī-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 11.8local chapter route · Strī-ParvaStrī-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷