🪷 Mahābhārata · Strī-Parva · Chapter 27
The Book of the Women · Parva 11 · 24 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 24 Shlokas
MBh 11.27.1
वैशंपायन उवाच
ते समासाद्य गङ्गां तु शिवां पुण्यजनोचिताम्
ह्रदिनीं वप्रसंपन्नां महानूपां महावनाम्
MBh 11.27.2
भूषणान्युत्तरीयाणि वेष्टनान्यवमुच्य च
ततः पितॄणां पौत्राणां भ्रातॄणां स्वजनस्य च
MBh 11.27.3
पुत्राणामार्यकाणां च पतीनां च कुरुस्त्रियः
उदकं चक्रिरे सर्वा रुदन्त्यो भृशदुःखिताः
सुहृदां चापि धर्मज्ञाः प्रचक्रुः सलिलक्रियाः
MBh 11.27.4
उदके क्रियमाणे तु वीराणां वीरपत्निभिः
सूपतीर्थाभवद्गङ्गा भूयो विप्रससार च
MBh 11.27.5
तन्महोदधिसंकाशं निरानन्दमनुत्सवम्
वीरपत्नीभिराकीर्णं गङ्गातीरमशोभत
MBh 11.27.6
ततः कुन्ती महाराज सहसा शोककर्शिता
रुदती मन्दया वाचा पुत्रान्वचनमब्रवीत्
MBh 11.27.7
यः स शूरो महेष्वासो रथयूथपयूथपः
अर्जुनेन हतः संख्ये वीरलक्षणलक्षितः
MBh 11.27.8
यं सूतपुत्रं मन्यध्वं राधेयमिति पाण्डवाः
यो व्यराजच्चमूमध्ये दिवाकर इव प्रभुः
MBh 11.27.9
प्रत्ययुध्यत यः सर्वान्पुरा वः सपदानुगान्
दुर्योधनबलं सर्वं यः प्रकर्षन्व्यरोचत
MBh 11.27.10
यस्य नास्ति समो वीर्ये पृथिव्यामपि कश्चन
सत्यसंधस्य शूरस्य संग्रामेष्वपलायिनः
MBh 11.27.11
कुरुध्वमुदकं तस्य भ्रातुरक्लिष्टकर्मणः
स हि वः पूर्वजो भ्राता भास्करान्मय्यजायत
कुण्डली कवची शूरो दिवाकरसमप्रभः
MBh 11.27.12
श्रुत्वा तु पाण्डवाः सर्वे मातुर्वचनमप्रियम्
कर्णमेवानुशोचन्त भूयश्चार्ततराभवन्
MBh 11.27.13
ततः स पुरुषव्याघ्रः कुन्तीपुत्रो युधिष्ठिरः
उवाच मातरं वीरो निःश्वसन्निव पन्नगः
MBh 11.27.14
यस्येषुपातमासाद्य नान्यस्तिष्ठेद्धनंजयात्
कथं पुत्रो भवत्यां स देवगर्भः पुराभवत्
MBh 11.27.15
यस्य बाहुप्रतापेन तापिताः सर्वतो वयम्
तमग्निमिव वस्त्रेण कथं छादितवत्यसि
यस्य बाहुबलं घोरं धार्तराष्ट्रैरुपासितम्
MBh 11.27.16
नान्यः कुन्तीसुतात्कर्णादगृह्णाद्रथिनां रथी
स नः प्रथमजो भ्राता सर्वशस्त्रभृतां वरः
असूत तं भवत्यग्रे कथमद्भुतविक्रमम्
MBh 11.27.17
अहो भवत्या मन्त्रस्य पिधानेन वयं हताः
निधनेन हि कर्णस्य पीडिताः स्म सबान्धवाः
MBh 11.27.18
अभिमन्योर्विनाशेन द्रौपदेयवधेन च
पाञ्चालानां च नाशेन कुरूणां पतनेन च
MBh 11.27.19
ततः शतगुणं दुःखमिदं मामस्पृशद्भृशम्
कर्णमेवानुशोचन्हि दह्याम्यग्नाविवाहितः
MBh 11.27.20
न हि स्म किंचिदप्राप्यं भवेदपि दिवि स्थितम्
न च स्म वैशसं घोरं कौरवान्तकरं भवेत्
MBh 11.27.21
एवं विलप्य बहुलं धर्मराजो युधिष्ठिरः
विनदञ्शनकै राजंश्चकारास्योदकं प्रभुः
MBh 11.27.22
ततो विनेदुः सहसा स्त्रीपुंसास्तत्र सर्वशः
अभितो ये स्थितास्तत्र तस्मिन्नुदककर्मणि
MBh 11.27.23
तत आनाययामास कर्णस्य सपरिच्छदम्
स्त्रियः कुरुपतिर्धीमान्भ्रातुः प्रेम्णा युधिष्ठिरः
MBh 11.27.24
स ताभिः सह धर्मात्मा प्रेतकृत्यमनन्तरम्
कृत्वोत्ततार गङ्गायाः सलिलादाकुलेन्द्रियः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Strī-Parva chapter-index (27 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Strī-Parva Ch 26
- Next chapter · Śānti-Parva Ch 1 →
Sources and Connected Readings
Continue from these 24 source-pinned Devanāgarī addresses to Strī-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 11.27local chapter route · Strī-ParvaStrī-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷