🪷 Mahābhārata · Strī-Parva · Chapter 21

The Book of the Women · Parva 11 · 14 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 14 Shlokas

MBh 11.21.1
[गान्धारी] एष वैकर्तनः शेते महेष्वासॊ महारथः जवलितानलवत संख्ये संशान्तः पार्थ तेजसा
MBh 11.21.2
पश्य वैकर्तनं कर्णं निहत्यातिरथान बहून शॊणितौघपरीताङ्गं शयानं पतितं भुवि
MBh 11.21.3
अमर्षी दीर्घरॊषश च महेष्वासॊ महारथः रणे विनिहतः शेते शूरॊ गाण्डीवधन्वना
MBh 11.21.4
यं सम पाण्डव संत्रासान मम पुत्रा महारथाः परायुध्यन्त पुरस्कृत्य मातङ्गा इव यूथपम
MBh 11.21.5
शार्दूलम इव सिंहेन समरे सव्यसाचिना मातङ्गम इव मत्तेन मातङ्गेन निपातितम
MBh 11.21.6
समेताः पुरुषव्याघ्र निहतं शूरम आहवे परकीर्णमूर्धजाः पत्न्यॊ रुदत्यः पर्युपासते
MBh 11.21.7
उद्विग्नः सततं यस्माद धर्मराजॊ युधिष्ठिरः तरयॊदश समा निद्रां चिन्तयन्न नाध्यगच्छत
MBh 11.21.8
अनाधृष्यः परैर युद्धे शत्रुभिर मघवान इव युगान्ताग्निर इवार्चिष्मान हिमवान इव च सथिरः
MBh 11.21.9
स भूत्वा शरणं वीरॊ धार्तराष्ट्रस्य माधव भूमौ विनिहतः शेते वातरुग्ण इव दरुमः
MBh 11.21.10
पश्य कर्णस्य पत्नीं तवं वृषसेनस्य मातरम लालप्यमानाः करुणं रुदतीं पतितां भुवि
MBh 11.21.11
आचार्य शापॊ ऽनुगतॊ धरुवं तवां; यद अग्रसच चक्रम इयं धरा ते ततः शरेणापहृतं शिरस ते; धनंजयेनाहवे शत्रुमध्ये
MBh 11.21.12
अहॊ धिग एषा पतिता विसंज्ञा; समीक्ष्य जाम्बूनदबद्धनिष्कम कर्णं महाबाहुम अदीनसत्त्वं; सुषेण माता रुदती भृशार्ता
MBh 11.21.13
अल्पावशेषॊ हि कृतॊ महात्मा; शरीरभक्षैः परिभक्षयद्भिः दरष्टुं न संप्रीति करः शशीव; कृष्णश्य पक्षस्य चतुर्दशाहे
MBh 11.21.14
सावर्तमाना पतिता पृथिव्याम; उत्थाय दीना पुनर एव चैषा कर्णस्य वक्त्रं परिजिघ्रमाणा; रॊरूयते पुत्रवधाभितप्ता

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷