🪷 Mahābhārata · Śānti-Parva · Chapter 86

The Book of Peace · the great dharma-śāstra · Parva 12 · 33 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 33 Shlokas

MBh 12.86.1
युधिष्ठिर उवाच कथं स्विदिह राजेन्द्र पालयन्पार्थिवः प्रजाः प्रति धर्मं विशेषेण कीर्तिमाप्नोति शाश्वतीम्
MBh 12.86.2
भीष्म उवाच व्यवहारेण शुद्धेन प्रजापालनतत्परः प्राप्य धर्मं च कीर्तिं च लोकावाप्नोत्युभौ शुचिः
MBh 12.86.3
युधिष्ठिर उवाच कीदृशं व्यवहारं तु कैश्च व्यवहरेन्नृपः एतत्पृष्टो महाप्राज्ञ यथावद्वक्तुमर्हसि
MBh 12.86.4
ये चैते पूर्वकथिता गुणास्ते पुरुषं प्रति नैकस्मिन्पुरुषे ह्येते विद्यन्त इति मे मतिः
MBh 12.86.5
भीष्म उवाच एवमेतन्महाप्राज्ञ यथा वदसि बुद्धिमान् दुर्लभः पुरुषः कश्चिदेभिर्गुणगुणैर्युतः
MBh 12.86.6
किं तु संक्षेपतः शीलं प्रयत्ने नेह दुर्लभम् वक्ष्यामि तु यथामात्यान्यादृशांश्च करिष्यसि
MBh 12.86.7
चतुरो ब्राह्मणान्वैद्यान्प्रगल्भान्सात्त्विकाञ्शुचीन् त्रींश्च शूद्रान्विनीतांश्च शुचीन्कर्मणि पूर्वके
MBh 12.86.8
अष्टाभिश्च गुणैर्युक्तं सूतं पौराणिकं चरेत् पञ्चाशद्वर्षवयसं प्रगल्भमनसूयकम्
MBh 12.86.9
मतिस्मृतिसमायुक्तं विनीतं समदर्शनम् कार्ये विवदमानानां शक्तमर्थेष्वलोलुपम्
MBh 12.86.10
विवर्जितानां व्यसनैः सुघोरैः सप्तभिर्भृशम् अष्टानां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत्
MBh 12.86.11
ततः संप्रेषयेद्राष्ट्रे राष्ट्रायाथ च दर्शयेत् अनेन व्यवहारेण द्रष्टव्यास्ते प्रजाः सदा
MBh 12.86.12
न चापि गूढं कार्यं ते ग्राह्यं कार्योपघातकम् कार्ये खलु विपन्ने त्वां सोऽधर्मस्तांश्च पीडयेत्
MBh 12.86.13
विद्रवेच्चैव राष्ट्रं ते श्येनात्पक्षिगणा इव परिस्रवेच्च सततं नौर्विशीर्णेव सागरे
MBh 12.86.14
प्रजाः पालयतोऽसम्यगधर्मेणेह भूपतेः हार्दं भयं संभवति स्वर्गश्चास्य विरुध्यते
MBh 12.86.15
अथ योऽधर्मतः पाति राजामात्योऽथ वात्मजः धर्मासने नियुक्तः सन्धर्ममूलं नरर्षभ
MBh 12.86.16
कार्येष्वधिकृताः सम्यगकुर्वन्तो नृपानुगाः आत्मानं पुरतः कृत्वा यान्त्यधः सहपार्थिवाः
MBh 12.86.17
बलात्कृतानां बलिभिः कृपणं बहु जल्पताम् नाथो वै भूमिपो नित्यमनाथानां नृणां भवेत्
MBh 12.86.18
ततः साक्षिबलं साधु द्वैधे वादकृतं भवेत् असाक्षिकमनाथं वा परीक्ष्यं तद्विशेषतः
MBh 12.86.19
अपराधानुरूपं च दण्डं पापेषु पातयेत् उद्वेजयेद्धनैरृद्धान्दरिद्रान्वधबन्धनैः
MBh 12.86.20
विनयैरपि दुर्वृत्तान्प्रहारैरपि पार्थिवः सान्त्वेनोपप्रदानेन शिष्टांश्च परिपालयेत्
MBh 12.86.21
राज्ञो वधं चिकीर्षेद्यस्तस्य चित्रो वधो भवेत् आजीवकस्य स्तेनस्य वर्णसंकरकस्य च
MBh 12.86.22
सम्यक्प्रणयतो दण्डं भूमिपस्य विशां पते युक्तस्य वा नास्त्यधर्मो धर्म एवेह शाश्वतः
MBh 12.86.23
कामकारेण दण्डं तु यः कुर्यादविचक्षणः स इहाकीर्तिसंयुक्तो मृतो नरकमाप्नुयात्
MBh 12.86.24
न परस्य श्रवादेव परेषां दण्डमर्पयेत् आगमानुगमं कृत्वा बध्नीयान्मोक्षयेत वा
MBh 12.86.25
न तु हन्यान्नृपो जातु दूतं कस्यांचिदापदि दूतस्य हन्ता निरयमाविशेत्सचिवैः सह
MBh 12.86.26
यथोक्तवादिनं दूतं क्षत्रधर्मरतो नृपः यो हन्यात्पितरस्तस्य भ्रूणहत्यामवाप्नुयुः
MBh 12.86.27
कुलीनः शीलसंपन्नो वाग्मी दक्षः प्रियंवदः यथोक्तवादी स्मृतिमान्दूतः स्यात्सप्तभिर्गुणैः
MBh 12.86.28
एतैरेव गुणैर्युक्तः प्रतीहारोऽस्य रक्षिता शिरोरक्षश्च भवति गुणैरेतैः समन्वितः
MBh 12.86.29
धर्मार्थशास्त्रतत्त्वज्ञः संधिविग्रहको भवेत् मतिमान्धृतिमान्धीमान्रहस्यविनिगूहिता
MBh 12.86.30
कुलीनः सत्यसंपन्नः शक्तोऽमात्यः प्रशंसितः एतैरेव गुणैर्युक्तस्तथा सेनापतिर्भवेत्
MBh 12.86.31
व्यूहयन्त्रायुधीयानां तत्त्वज्ञो विक्रमान्वितः वर्षशीतोष्णवातानां सहिष्णुः पररन्ध्रवित्
MBh 12.86.32
विश्वासयेत्परांश्चैव विश्वसेन्न तु कस्यचित् पुत्रेष्वपि हि राजेन्द्र विश्वासो न प्रशस्यते
MBh 12.86.33
एतच्छास्त्रार्थतत्त्वं तु तवाख्यातं मयानघ अविश्वासो नरेन्द्राणां गुह्यं परममुच्यते

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 33 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.86local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷