🪷 Mahābhārata · Śānti-Parva · Chapter 84
The Book of Peace · the great dharma-śāstra · Parva 12 · 54 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 54 Shlokas
MBh 12.84.1
भीष्म उवाच
ह्रीनिषेधाः सदा सन्तः सत्यार्जवसमन्विताः
शक्ताः कथयितुं सम्यक्ते तव स्युः सभासदः
MBh 12.84.2
अत्याढ्यांश्चातिशूरांश्च ब्राह्मणांश्च बहुश्रुतान्
सुसंतुष्टांश्च कौन्तेय महोत्साहांश्च कर्मसु
MBh 12.84.3
एतान्सहायाँल्लिप्सेथाः सर्वास्वापत्सु भारत
कुलीनः पूजितो नित्यं न हि शक्तिं निगूहति
MBh 12.84.4
प्रसन्नं ह्यप्रसन्नं वा पीडितं हृतमेव वा
आवर्तयति भूयिष्ठं तदेको ह्यनुपालितः
MBh 12.84.5
कुलीना देशजाः प्राज्ञा रूपवन्तो बहुश्रुताः
प्रगल्भाश्चानुरक्ताश्च ते तव स्युः परिच्छदाः
MBh 12.84.6
दौष्कुलेयाश्च लुब्धाश्च नृशंसा निरपत्रपाः
ते त्वां तात निषेवेयुर्यावदार्द्रकपाणयः
MBh 12.84.7
अर्थमानार्घ्यसत्कारैर्भोगैरुच्चावचैः प्रियान्
यानर्थभाजो मन्येथास्ते ते स्युः सुखभागिनः
MBh 12.84.8
अभिन्नवृत्ता विद्वांसः सद्वृत्ताश्चरितव्रताः
न त्वां नित्यार्थिनो जह्युरक्षुद्राः सत्यवादिनः
MBh 12.84.9
अनार्या ये न जानन्ति समयं मन्दचेतसः
तेभ्यः प्रतिजुगुप्सेथा जानीयाः समयच्युतान्
MBh 12.84.10
नैकमिच्छेद्गणं हित्वा स्याच्चेदन्यतरग्रहः
यस्त्वेको बहुभिः श्रेयान्कामं तेन गणं त्यजेत्
MBh 12.84.11
श्रेयसो लक्षणं ह्येतद्विक्रमो यस्य दृश्यते
कीर्तिप्रधानो यश्च स्यात्समये यश्च तिष्ठति
MBh 12.84.12
समर्थान्पूजयेद्यश्च नास्पर्ध्यैः स्पर्धते च यः
न च कामाद्भयात्क्रोधाल्लोभाद्वा धर्ममुत्सृजेत्
MBh 12.84.13
अमानी सत्यवाक्शक्तो जितात्मा मान्यमानिता
स ते मन्त्रसहायः स्यात्सर्वावस्थं परीक्षितः
MBh 12.84.14
कुलीनः सत्यसंपन्नस्तितिक्षुर्दक्ष आत्मवान्
शूरः कृतज्ञः सत्यश्च श्रेयसः पार्थ लक्षणम्
MBh 12.84.15
तस्यैवं वर्तमानस्य पुरुषस्य विजानतः
अमित्राः संप्रसीदन्ति ततो मित्रीभवन्त्यपि
MBh 12.84.16
अत ऊर्ध्वममात्यानां परीक्षेत गुणागुणान्
संयतात्मा कृतप्रज्ञो भूतिकामश्च भूमिपः
MBh 12.84.17
संबद्धाः पुरुषैराप्तैरभिजातैः स्वदेशजैः
अहार्यैरव्यभीचारैः सर्वतः सुपरीक्षितैः
MBh 12.84.18
योधाः स्रौवास्तथा मौलास्तथैवान्येऽप्यवस्कृताः
कर्तव्या भूतिकामेन पुरुषेण बुभूषता
MBh 12.84.19
येषां वैनयिकी बुद्धिः प्रकृता चैव शोभना
तेजो धैर्यं क्षमा शौचमनुराग स्थितिर्धृतिः
MBh 12.84.20
परीक्षितगुणान्नित्यं प्रौढभावान्धुरंधरान्
पञ्चोपधाव्यतीतांश्च कुर्याद्राजार्थकारिणः
MBh 12.84.21
पर्याप्तवचनान्वीरान्प्रतिपत्तिविशारदान्
कुलीनान्सत्यसंपन्नानिङ्गितज्ञाननिष्ठुरान्
MBh 12.84.22
देशकालविधानज्ञान्भर्तृकार्यहितैषिणः
नित्यमर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः
MBh 12.84.23
हीनतेजा ह्यसंहृष्टो नैव जातु व्यवस्यति
अवश्यं जनयत्येव सर्वकर्मसु संशयान्
MBh 12.84.24
एवमल्पश्रुतो मन्त्री कल्याणाभिजनोऽप्युत
धर्मार्थकामयुक्तोऽपि नालं मन्त्रं परीक्षितुम्
MBh 12.84.25
तथैवानभिजातोऽपि काममस्तु बहुश्रुतः
अनायक इवाचक्षुर्मुह्यत्यूह्येषु कर्मसु
MBh 12.84.26
यो वा ह्यस्थिरसंकल्पो बुद्धिमानागतागमः
उपायज्ञोऽपि नालं स कर्म यापयितुं चिरम्
MBh 12.84.27
केवलात्पुनराचारात्कर्मणो नोपपद्यते
परिमर्शो विशेषाणामश्रुतस्येह दुर्मतेः
MBh 12.84.28
मन्त्रिण्यननुरक्ते तु विश्वासो न हि विद्यते
तस्मादननुरक्ताय नैव मन्त्रं प्रकाशयेत्
MBh 12.84.29
व्यथयेद्धि स राजानं मन्त्रिभिः सहितोऽनृजुः
मारुतोपहतच्छिद्रैः प्रविश्याग्निरिव द्रुमम्
MBh 12.84.30
संक्रुध्यत्येकदा स्वामी स्थानाच्चैवापकर्षति
वाचा क्षिपति संरब्धस्ततः पश्चात्प्रसीदति
MBh 12.84.31
तानि तान्यनुरक्तेन शक्यान्यनुतितिक्षितुम्
मन्त्रिणां च भवेत्क्रोधो विस्फूर्जितमिवाशनेः
MBh 12.84.32
यस्तु संहरते तानि भर्तुः प्रियचिकीर्षया
समानसुखदुःखं तं पृच्छेदर्थेषु मानवम्
MBh 12.84.33
अनृजुस्त्वनुरक्तोऽपि संपन्नश्चेतरैर्गुणैः
राज्ञः प्रज्ञानयुक्तोऽपि न मन्त्रं श्रोतुमर्हति
MBh 12.84.34
योऽमित्रैः सह संबद्धो न पौरान्बहु मन्यते
स सुहृत्तादृशो राज्ञो न मन्त्रं श्रोतुमर्हति
MBh 12.84.35
अविद्वानशुचिः स्तब्धः शत्रुसेवी विकत्थनः
स सुहृत्क्रोधनो लुब्धो न मन्त्रं श्रोतुमर्हति
MBh 12.84.36
आगन्तुश्चानुरक्तोऽपि काममस्तु बहुश्रुतः
सत्कृतः संविभक्तो वा न मन्त्रं श्रोतुमर्हति
MBh 12.84.37
यस्त्वल्पेनापि कार्येण सकृदाक्षारितो भवेत्
पुनरन्यैर्गुणैर्युक्तो न मन्त्रं श्रोतुमर्हति
MBh 12.84.38
कृतप्रज्ञश्च मेधावी बुधो जानपदः शुचिः
सर्वकर्मसु यः शुद्धः स मन्त्रं श्रोतुमर्हति
MBh 12.84.39
ज्ञानविज्ञानसंपन्नः प्रकृतिज्ञः परात्मनोः
सुहृदात्मसमो राज्ञः स मन्त्रं श्रोतुमर्हति
MBh 12.84.40
सत्यवाक्शीलसंपन्नो गम्भीरः सत्रपो मृदुः
पितृपैतामहो यः स्यात्स मन्त्रं श्रोतुमर्हति
MBh 12.84.41
संतुष्टः संमतः सत्यः शौटीरो द्वेष्यपापकः
मन्त्रवित्कालविच्छूरः स मन्त्रं श्रोतुमर्हति
MBh 12.84.42
सर्वलोकं समं शक्तः सान्त्वेन कुरुते वशे
तस्मै मन्त्रः प्रयोक्तव्यो दण्डमाधित्सता नृप
MBh 12.84.43
पौरजानपदा यस्मिन्विश्वासं धर्मतो गताः
योद्धा नयविपश्चिच्च स मन्त्रं श्रोतुमर्हति
MBh 12.84.44
तस्मात्सर्वैर्गुणैरेतैरुपपन्नाः सुपूजिताः
मन्त्रिणः प्रकृतिज्ञाः स्युस्त्र्यवरा महदीप्सवः
MBh 12.84.45
स्वासु प्रकृतिषु छिद्रं लक्षयेरन्परस्य च
मन्त्रिणो मन्त्रमूलं हि राज्ञो राष्ट्रं विवर्धते
MBh 12.84.46
नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात्
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः
MBh 12.84.47
मन्त्रग्राहा हि राज्यस्य मन्त्रिणो ये मनीषिणः
मन्त्रसंहननो राजा मन्त्राङ्गानीतरो जनः
MBh 12.84.48
राज्यं प्रणिधिमूलं हि मन्त्रसारं प्रचक्षते
स्वामिनं त्वनुवर्तन्ति वृत्त्यर्थमिह मन्त्रिणः
MBh 12.84.49
स विनीय मदक्रोधौ मानमीर्ष्यां च निर्वृतः
नित्यं पञ्चोपधातीतैर्मन्त्रयेत्सह मन्त्रिभिः
MBh 12.84.50
तेषां त्रयाणां विविधं विमर्शं; बुध्येत चित्तं विनिवेश्य तत्र
स्वनिश्चयं तं परनिश्चयं च; निवेदयेदुत्तरमन्त्रकाले
MBh 12.84.51
धर्मार्थकामज्ञमुपेत्य पृच्छे;द्युक्तो गुरुं ब्राह्मणमुत्तमार्थम्
निष्ठा कृता तेन यदा सह स्या;त्तं तत्र मार्गं प्रणयेदसक्तम्
MBh 12.84.52
एवं सदा मन्त्रयितव्यमाहु;र्ये मन्त्रतत्त्वार्थविनिश्चयज्ञाः
तस्मात्त्वमेवं प्रणयेः सदैव; मन्त्रं प्रजासंग्रहणे समर्थम्
MBh 12.84.53
न वामनाः कुब्जकृशा न खञ्जा; नान्धा जडाः स्त्री न नपुंसकं च
न चात्र तिर्यङ्न पुरो न पश्चा;न्नोर्ध्वं न चाधः प्रचरेत कश्चित्
MBh 12.84.54
आरुह्य वातायनमेव शून्यं; स्थलं प्रकाशं कुशकाशहीनम्
वागङ्गदोषान्परिहृत्य मन्त्रं; संमन्त्रयेत्कार्यमहीनकालम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 83
- Next chapter · Śānti-Parva Ch 85 →
Sources and Connected Readings
Continue from these 54 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.84local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷