🪷 Mahābhārata · Śānti-Parva · Chapter 83

The Book of Peace · the great dharma-śāstra · Parva 12 · 67 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 67 Shlokas

MBh 12.83.1
भीष्म उवाच एषा प्रथमतो वृत्तिर्द्वितीयां शृणु भारत यः कश्चिज्जनयेदर्थं राज्ञा रक्ष्यः स मानवः
MBh 12.83.2
ह्रियमाणममात्येन भृतो वा यदि वाभृतः यो राजकोशं नश्यन्तमाचक्षीत युधिष्ठिर
MBh 12.83.3
श्रोतव्यं तस्य च रहो रक्ष्यश्चामात्यतो भवेत् अमात्या ह्युपहन्तारं भूयिष्ठं घ्नन्ति भारत
MBh 12.83.4
राजकोशस्य गोप्तारं राजकोशविलोपकाः समेत्य सर्वे बाधन्ते स विनश्यत्यरक्षितः
MBh 12.83.5
अत्राप्युदाहरन्तीममितिहासं पुरातनम् मुनिः कालकवृक्षीयः कौसल्यं यदुवाच ह
MBh 12.83.6
कोसलानामाधिपत्यं संप्राप्ते क्षेमदर्शिनि मुनिः कालकवृक्षीय आजगामेति नः श्रुतम्
MBh 12.83.7
स काकं पञ्जरे बद्ध्वा विषयं क्षेमदर्शिनः पूर्वं पर्यचरद्युक्तः प्रवृत्त्यर्थी पुनः पुनः
MBh 12.83.8
अधीये वायसीं विद्यां शंसन्ति मम वायसाः अनागतमतीतं च यच्च संप्रति वर्तते
MBh 12.83.9
इति राष्ट्रे परिपतन्बहुशः पुरुषैः सह सर्वेषां राजयुक्तानां दुष्कृतं परिपृष्टवान्
MBh 12.83.10
स बुद्ध्वा तस्य राष्ट्रस्य व्यवसायं हि सर्वशः राजयुक्तापचारांश्च सर्वान्बुद्ध्वा ततस्ततः
MBh 12.83.11
तमेव काकमादाय राजानं द्रष्टुमागमत् सर्वज्ञोऽस्मीति वचनं ब्रुवाणः संशितव्रतः
MBh 12.83.12
स स्म कौसल्यमागम्य राजामात्यमलंकृतम् प्राह काकस्य वचनादमुत्रेदं त्वया कृतम्
MBh 12.83.13
असौ चासौ च जानीते राजकोशस्त्वया हृतः एवमाख्याति काकोऽयं तच्छीघ्रमनुगम्यताम्
MBh 12.83.14
तथान्यानपि स प्राह राजकोशहरान्सदा न चास्य वचनं किंचिदकृतं श्रूयते क्वचित्
MBh 12.83.15
तेन विप्रकृताः सर्वे राजयुक्ताः कुरूद्वह तमतिक्रम्य सुप्तस्य निशि काकमपोथयन्
MBh 12.83.16
वायसं तु विनिर्भिन्नं दृष्ट्वा बाणेन पञ्जरे पूर्वाह्णे ब्राह्मणो वाक्यं क्षेमदर्शिनमब्रवीत्
MBh 12.83.17
राजंस्त्वामभयं याचे प्रभुं प्राणधनेश्वरम् अनुज्ञातस्त्वया ब्रूयां वचनं त्वत्पुरो हितम्
MBh 12.83.18
मित्रार्थमभिसंतप्तो भक्त्या सर्वात्मना गतः अयं तवार्थं हरते यो ब्रूयादक्षमान्वितः
MBh 12.83.19
संबुबोधयिषुर्मित्रं सदश्वमिव सारथिः अतिमन्युप्रसक्तो हि प्रसज्य हितकारणम्
MBh 12.83.20
तथाविधस्य सुहृदः क्षन्तव्यं संविजानता ऐश्वर्यमिच्छता नित्यं पुरुषेण बुभूषता
MBh 12.83.21
तं राजा प्रत्युवाचेदं यन्मा किंचिद्भवान्वदेत् कस्मादहं न क्षमेयमाकाङ्क्षन्नात्मनो हितम्
MBh 12.83.22
ब्राह्मण प्रतिजानीहि प्रब्रूहि यदि चेच्छसि करिष्यामि हि ते वाक्यं यद्यन्मां विप्र वक्ष्यसि
MBh 12.83.23
मुनिरुवाच ज्ञात्वा नयानपायांश्च भृत्यतस्ते भयानि च भक्त्या वृत्तिं समाख्यातुं भवतोऽन्तिकमागमम्
MBh 12.83.24
प्रागेवोक्तश्च दोषोऽयमाचार्यैर्नृपसेविनाम् अगतीकगतिर्ह्येषा या राज्ञा सह जीविका
MBh 12.83.25
आशीविषैश्च तस्याहुः संगतं यस्य राजभिः बहुमित्राश्च राजानो बह्वमित्रास्तथैव च
MBh 12.83.26
तेभ्यः सर्वेभ्य एवाहुर्भयं राजोपसेविनाम् अथैषामेकतो राजन्मुहूर्तादेव भीर्भवेत्
MBh 12.83.27
नैकान्तेनाप्रमादो हि कर्तुं शक्यो महीपतौ न तु प्रमादः कर्तव्यः कथंचिद्भूतिमिच्छता
MBh 12.83.28
प्रमादाद्धि स्खलेद्राजा स्खलिते नास्ति जीवितम् अग्निं दीप्तमिवासीदेद्राजानमुपशिक्षितः
MBh 12.83.29
आशीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरम् यत्नेनोपचरेन्नित्यं नाहमस्मीति मानवः
MBh 12.83.30
दुर्व्याहृताच्छङ्कमानो दुष्कृताद्दुरधिष्ठितात् दुरासिताद्दुर्व्रजितादिङ्गितादङ्गचेष्टितात्
MBh 12.83.31
देवतेव हि सर्वार्थान्कुर्याद्राजा प्रसादितः वैश्वानर इव क्रुद्धः समूलमपि निर्दहेत् इति राजन्मयः प्राह वर्तते च तथैव तत्
MBh 12.83.32
अथ भूयांसमेवार्थं करिष्यामि पुनः पुनः ददात्यस्मद्विधोऽमात्यो बुद्धिसाहाय्यमापदि
MBh 12.83.33
वायसश्चैव मे राजन्नन्तकायाभिसंहितः न च मेऽत्र भवान्गर्ह्यो न च येषां भवान्प्रियः हिताहितांस्तु बुध्येथा मा परोक्षमतिर्भव
MBh 12.83.34
ये त्वादानपरा एव वसन्ति भवतो गृहे अभूतिकामा भूतानां तादृशैर्मेऽभिसंहितम्
MBh 12.83.35
ये वा भवद्विनाशेन राज्यमिच्छन्त्यनन्तरम् अन्तरैरभिसंधाय राजन्सिध्यन्ति नान्यथा
MBh 12.83.36
तेषामहं भयाद्राजन्गमिष्याम्यन्यमाश्रमम् तैर्हि मे संधितो बाणः काके निपतितः प्रभो
MBh 12.83.37
छद्मना मम काकश्च गमितो यमसादनम् दृष्टं ह्येतन्मया राजंस्तपोदीर्घेण चक्षुषा
MBh 12.83.38
बहुनक्रझषग्राहां तिमिंगिलगणायुताम् काकेन बडिशेनेमामतार्षं त्वामहं नदीम्
MBh 12.83.39
स्थाण्वश्मकण्टकवतीं व्याघ्रसिंहगजाकुलाम् दुरासदां दुष्प्रवेशां गुहां हैमवतीमिव
MBh 12.83.40
अग्निना तामसं दुर्गं नौभिराप्यं च गम्यते राजदुर्गावतरणे नोपायं पण्डिता विदुः
MBh 12.83.41
गहनं भवतो राज्यमन्धकारतमोवृतम् नेह विश्वसितुं शक्यं भवतापि कुतो मया
MBh 12.83.42
अतो नायं शुभो वासस्तुल्ये सदसती इह वधो ह्येवात्र सुकृते दुष्कृते न च संशयः
MBh 12.83.43
न्यायतो दुष्कृते घातः सुकृते स्यात्कथं वधः नेह युक्तं चिरं स्थातुं जवेनातो व्रजेद्बुधः
MBh 12.83.44
सीता नाम नदी राजन्प्लवो यस्यां निमज्जति तथोपमामिमां मन्ये वागुरां सर्वघातिनीम्
MBh 12.83.45
मधुप्रपातो हि भवान्भोजनं विषसंयुतम् असतामिव ते भावो वर्तते न सतामिव आशीविषैः परिवृतः कूपस्त्वमिव पार्थिव
MBh 12.83.46
दुर्गतीर्था बृहत्कूला करीरीवेत्रसंयुता नदी मधुरपानीया यथा राजंस्तथा भवान् श्वगृध्रगोमायुयुतो राजहंससमो ह्यसि
MBh 12.83.47
यथाश्रित्य महावृक्षं कक्षः संवर्धते महान् ततस्तं संवृणोत्येव तमतीत्य च वर्धते
MBh 12.83.48
तेनैवोपेन्धनो नूनं दावो दहति दारुणः तथोपमा ह्यमात्यास्ते राजंस्तान्परिशोधय
MBh 12.83.49
भवतैव कृता राजन्भवता परिपालिताः भवन्तं पर्यवज्ञाय जिघांसन्ति भवत्प्रियम्
MBh 12.83.50
उषितं शङ्कमानेन प्रमादं परिरक्षता अन्तःसर्प इवागारे वीरपत्न्या इवालये शीलं जिज्ञासमानेन राज्ञश्च सहजीविना
MBh 12.83.51
कच्चिज्जितेन्द्रियो राजा कच्चिदभ्यन्तरा जिताः कच्चिदेषां प्रियो राजा कच्चिद्राज्ञः प्रियाः प्रजाः
MBh 12.83.52
जिज्ञासुरिह संप्राप्तस्तवाहं राजसत्तम तस्य मे रोचसे राजन्क्षुधितस्येव भोजनम्
MBh 12.83.53
अमात्या मे न रोचन्ते वितृष्णस्य यथोदकम् भवतोऽर्थकृदित्येव मयि दोषो हि तैः कृतः विद्यते कारणं नान्यदिति मे नात्र संशयः
MBh 12.83.54
न हि तेषामहं द्रुग्धस्तत्तेषां दोषवद्गतम् अरेर्हि दुर्हताद्भेयं भग्नपृष्ठादिवोरगात्
MBh 12.83.55
राजोवाच भूयसा परिबर्हेण सत्कारेण च भूयसा पूजितो ब्राह्मणश्रेष्ठ भूयो वस गृहे मम
MBh 12.83.56
ये त्वां ब्राह्मण नेच्छन्ति न ते वत्स्यन्ति मे गृहे भवतैव हि तज्ज्ञेयं यदिदानीमनन्तरम्
MBh 12.83.57
यथा स्याद्दुष्कृतो दण्डो यथा च सुकृतं कृतम् तथा समीक्ष्य भगवञ्श्रेयसे विनियुङ्क्ष्व माम्
MBh 12.83.58
मुनिरुवाच अदर्शयन्निमं दोषमेकैकं दुर्बलं कुरु ततः कारणमाज्ञाय पुरुषं पुरुषं जहि
MBh 12.83.59
एकदोषा हि बहवो मृद्नीयुरपि कण्टकान् मन्त्रभेदभयाद्राजंस्तस्मादेतद्ब्रवीमि ते
MBh 12.83.60
वयं तु ब्राह्मणा नाम मृदुदण्डाः कृपालवः स्वस्ति चेच्छामि भवतः परेषां च यथात्मनः
MBh 12.83.61
राजन्नात्मानमाचक्षे संबन्धी भवतो ह्यहम् मुनिः कालकवृक्षीय इत्येवमभिसंज्ञितः
MBh 12.83.62
पितुः सखा च भवतः संमतः सत्यसंगरः व्यापन्ने भवतो राज्ये राजन्पितरि संस्थिते
MBh 12.83.63
सर्वकामान्परित्यज्य तपस्तप्तं तदा मया स्नेहात्त्वां प्रब्रवीम्येतन्मा भूयो विभ्रमेदिति
MBh 12.83.64
उभे दृष्ट्वा दुःखसुखे राज्यं प्राप्य यदृच्छया राज्येनामात्यसंस्थेन कथं राजन्प्रमाद्यसि
MBh 12.83.65
भीष्म उवाच ततो राजकुले नान्दी संजज्ञे भूयसी पुनः पुरोहितकुले चैव संप्राप्ते ब्राह्मणर्षभे
MBh 12.83.66
एकच्छत्रां महीं कृत्वा कौसल्याय यशस्विने मुनिः कालकवृक्षीय ईजे क्रतुभिरुत्तमैः
MBh 12.83.67
हितं तद्वचनं श्रुत्वा कौसल्योऽन्वशिषन्महीम् तथा च कृतवान्राजा यथोक्तं तेन भारत

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 67 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.83local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷