🪷 Mahābhārata · Śānti-Parva · Chapter 79
The Book of Peace · the great dharma-śāstra · Parva 12 · 43 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 43 Shlokas
MBh 12.79.1
युधिष्ठिर उवाच
व्याख्याता क्षत्रधर्मेण वृत्तिरापत्सु भारत
कथंचिद्वैश्यधर्मेण जीवेद्वा ब्राह्मणो न वा
MBh 12.79.2
भीष्म उवाच
अशक्तः क्षत्रधर्मेण वैश्यधर्मेण वर्तयेत्
कृषिगोरक्षमास्थाय व्यसने वृत्तिसंक्षये
MBh 12.79.3
युधिष्ठिर उवाच
कानि पण्यानि विक्रीणन्स्वर्गलोकान्न हीयते
ब्राह्मणो वैश्यधर्मेण वर्तयन्भरतर्षभ
MBh 12.79.4
भीष्म उवाच
सुरा लवणमित्येव तिलान्केसरिणः पशून्
ऋषभान्मधु मांसं च कृतान्नं च युधिष्ठिर
MBh 12.79.5
सर्वास्ववस्थास्वेतानि ब्राह्मणः परिवर्जयेत्
एतेषां विक्रयात्तात ब्राह्मणो नरकं व्रजेत्
MBh 12.79.6
अजोऽग्निर्वरुणो मेषः सूर्योऽश्वः पृथिवी विराट्
धेनुर्यज्ञश्च सोमश्च न विक्रेयाः कथंचन
MBh 12.79.7
पक्वेनामस्य निमयं न प्रशंसन्ति साधवः
निमयेत्पक्वमामेन भोजनार्थाय भारत
MBh 12.79.8
वयं सिद्धमशिष्यामो भवान्साधयतामिदम्
एवं समीक्ष्य निमयन्नाधर्मोऽस्ति कदाचन
MBh 12.79.9
अत्र ते वर्तयिष्यामि यथा धर्मः पुरातनः
व्यवहारप्रवृत्तानां तन्निबोध युधिष्ठिर
MBh 12.79.10
भवतेऽहं ददानीदं भवानेतत्प्रयच्छतु
रुचिते वर्तते धर्मो न बलात्संप्रवर्तते
MBh 12.79.11
इत्येवं संप्रवर्तन्त व्यवहाराः पुरातनाः
ऋषीणामितरेषां च साधु चेदमसंशयम्
MBh 12.79.12
युधिष्ठिर उवाच
अथ तात यदा सर्वाः शस्त्रमाददते प्रजाः
व्युत्क्रामन्ति स्वधर्मेभ्यः क्षत्रस्य क्षीयते बलम्
MBh 12.79.13
राजा त्राता न लोके स्यात्किं तदा स्यात्परायणम्
एतन्मे संशयं ब्रूहि विस्तरेण पितामह
MBh 12.79.14
भीष्म उवाच
दानेन तपसा यज्ञैरद्रोहेण दमेन च
ब्राह्मणप्रमुखा वर्णाः क्षेममिच्छेयुरात्मनः
MBh 12.79.15
तेषां ये वेदबलिनस्त उत्थाय समन्ततः
राज्ञो बलं वर्धयेयुर्महेन्द्रस्येव देवताः
MBh 12.79.16
राज्ञो हि क्षीयमाणस्य ब्रह्मैवाहुः परायणम्
तस्माद्ब्रह्मबलेनैव समुत्थेयं विजानता
MBh 12.79.17
यदा तु विजयी राजा क्षेमं राष्ट्रेऽभिसंदधेत्
तदा वर्णा यथाधर्ममाविशेयुः स्वकर्मसु
MBh 12.79.18
उन्मर्यादे प्रवृत्ते तु दस्युभिः संकरे कृते
सर्वे वर्णा न दुष्येयुः शस्त्रवन्तो युधिष्ठिर
MBh 12.79.19
युधिष्ठिर उवाच
अथ चेत्सर्वतः क्षत्रं प्रदुष्येद्ब्राह्मणान्प्रति
कस्तस्य ब्राह्मणस्त्राता को धर्मः किं परायणम्
MBh 12.79.20
भीष्म उवाच
तपसा ब्रह्मचर्येण शस्त्रेण च बलेन च
अमायया मायया च नियन्तव्यं तदा भवेत्
MBh 12.79.21
क्षत्रस्याभिप्रवृद्धस्य ब्राह्मणेषु विशेषतः
ब्रह्मैव संनियन्तृ स्यात्क्षत्रं हि ब्रह्मसंभवम्
MBh 12.79.22
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति
MBh 12.79.23
यदा छिनत्त्ययोऽश्मानमग्निश्चापोऽभिपद्यते
क्षत्रं च ब्राह्मणं द्वेष्टि तदा शाम्यन्ति ते त्रयः
MBh 12.79.24
तस्माद्ब्रह्मणि शाम्यन्ति क्षत्रियाणां युधिष्ठिर
समुदीर्णान्यजेयानि तेजांसि च बलानि च
MBh 12.79.25
ब्रह्मवीर्ये मृदूभूते क्षत्रवीर्ये च दुर्बले
दुष्टेषु सर्ववर्णेषु ब्राह्मणान्प्रति सर्वशः
MBh 12.79.26
ये तत्र युद्धं कुर्वन्ति त्यक्त्वा जीवितमात्मनः
ब्राह्मणान्परिरक्षन्तो धर्ममात्मानमेव च
MBh 12.79.27
मनस्विनो मन्युमन्तः पुण्यलोका भवन्ति ते
ब्राह्मणार्थं हि सर्वेषां शस्त्रग्रहणमिष्यते
MBh 12.79.28
अति स्विष्टस्वधीतानां लोकानति तपस्विनाम्
अनाशकाग्न्योर्विशतां शूरा यान्ति परां गतिम्
एवमेवात्मनस्त्यागान्नान्यं धर्मं विदुर्जनाः
MBh 12.79.29
तेभ्यो नमश्च भद्रं च ये शरीराणि जुह्वति
ब्रह्मद्विषो नियच्छन्तस्तेषां नोऽस्तु सलोकता
ब्रह्मलोकजितः स्वर्ग्यान्वीरांस्तान्मनुरब्रवीत्
MBh 12.79.30
यथाश्वमेधावभृथे स्नाताः पूता भवन्त्युत
दुष्कृतः सुकृतश्चैव तथा शस्त्रहता रणे
MBh 12.79.31
भवत्यधर्मो धर्मो हि धर्माधर्मावुभावपि
कारणाद्देशकालस्य देशकालः स तादृशः
MBh 12.79.32
मैत्राः क्रूराणि कुर्वन्तो जयन्ति स्वर्गमुत्तमम्
धर्म्याः पापानि कुर्वन्तो गच्छन्ति परमां गतिम्
MBh 12.79.33
ब्राह्मणस्त्रिषु कालेषु शस्त्रं गृह्णन्न दुष्यति
आत्मत्राणे वर्णदोषे दुर्गस्य नियमेषु च
MBh 12.79.34
युधिष्ठिर उवाच
अभ्युत्थिते दस्युबले क्षत्रार्थे वर्णसंकरे
संप्रमूढेषु वर्णेषु यद्यन्योऽभिभवेद्बली
MBh 12.79.35
ब्राह्मणो यदि वा वैश्यः शूद्रो वा राजसत्तम
दस्युभ्योऽथ प्रजा रक्षेद्दण्डं धर्मेण धारयन्
MBh 12.79.36
कार्यं कुर्यान्न वा कुर्यात्संवार्यो वा भवेन्न वा
न स्म शस्त्रं ग्रहीतव्यमन्यत्र क्षत्रबन्धुतः
MBh 12.79.37
भीष्म उवाच
अपारे यो भवेत्पारमप्लवे यः प्लवो भवेत्
शूद्रो वा यदि वाप्यन्यः सर्वथा मानमर्हति
MBh 12.79.38
यमाश्रित्य नरा राजन्वर्तयेयुर्यथासुखम्
अनाथाः पाल्यमाना वै दस्युभिः परिपीडिताः
MBh 12.79.39
तमेव पूजयेरंस्ते प्रीत्या स्वमिव बान्धवम्
महद्ध्यभीक्ष्णं कौरव्य कर्ता सन्मानमर्हति
MBh 12.79.40
किमुक्ष्णावहता कृत्यं किं धेन्वा चाप्यदुग्धया
वन्ध्यया भार्यया कोऽर्थः कोऽर्थो राज्ञाप्यरक्षता
MBh 12.79.41
यथा दारुमयो हस्ती यथा चर्ममयो मृगः
यथा ह्यनेत्रः शकटः पथि क्षेत्रं यथोषरम्
MBh 12.79.42
एवं ब्रह्मानधीयानं राजा यश्च न रक्षिता
न वर्षति च यो मेघः सर्व एते निरर्थकाः
MBh 12.79.43
नित्यं यस्तु सतो रक्षेदसतश्च निबर्हयेत्
स एव राजा कर्तव्यस्तेन सर्वमिदं धृतम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 78
- Next chapter · Śānti-Parva Ch 80 →
Sources and Connected Readings
Continue from these 43 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.79local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷