🪷 Mahābhārata · Śānti-Parva · Chapter 78

The Book of Peace · the great dharma-śāstra · Parva 12 · 34 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 34 Shlokas

MBh 12.78.1
युधिष्ठिर उवाच केषां राजा प्रभवति वित्तस्य भरतर्षभ कया च वृत्त्या वर्तेत तन्मे ब्रूहि पितामह
MBh 12.78.2
भीष्म उवाच अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम् ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत
MBh 12.78.3
विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथंचन इति राज्ञां पुरावृत्तमभिजल्पन्ति साधवः
MBh 12.78.4
यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः राज्ञ एवापराधं तं मन्यन्ते किल्बिषं नृप
MBh 12.78.5
अभिशस्तमिवात्मानं मन्यन्ते तेन कर्मणा तस्माद्राजर्षयः सर्वे ब्राह्मणानन्वपालयन्
MBh 12.78.6
अत्राप्युदाहरन्तीममितिहासं पुरातनम् गीतं केकयराजेन ह्रियमाणेन रक्षसा
MBh 12.78.7
केकयानामधिपतिं रक्षो जग्राह दारुणम् स्वाध्यायेनान्वितं राजन्नरण्ये संशितव्रतम्
MBh 12.78.8
राजोवाच न मे स्तेनो जनपदे न कदर्यो न मद्यपः नानाहिताग्निर्नायज्वा मामकान्तरमाविशः
MBh 12.78.9
न च मे ब्राह्मणोऽविद्वान्नाव्रती नाप्यसोमपः नानाहिताग्निर्विषये मामकान्तरमाविशः
MBh 12.78.10
नानाप्तदक्षिणैर्यज्ञैर्यजन्ते विषये मम अधीते नाव्रती कश्चिन्मामकान्तरमाविशः
MBh 12.78.11
अधीयतेऽध्यापयन्ति यजन्ते याजयन्ति च ददति प्रतिगृह्णन्ति षट्सु कर्मस्ववस्थिताः
MBh 12.78.12
पूजिताः संविभक्ताश्च मृदवः सत्यवादिनः ब्राह्मणा मे स्वकर्मस्था मामकान्तरमाविशः
MBh 12.78.13
न याचन्ते प्रयच्छन्ति सत्यधर्मविशारदाः नाध्यापयन्त्यधीयन्ते यजन्ते न च याजकाः
MBh 12.78.14
ब्राह्मणान्परिरक्षन्ति संग्रामेष्वपलायिनः क्षत्रिया मे स्वकर्मस्था मामकान्तरमाविशः
MBh 12.78.15
कृषिगोरक्षवाणिज्यमुपजीवन्त्यमायया अप्रमत्ताः क्रियावन्तः सुव्रताः सत्यवादिनः
MBh 12.78.16
संविभागं दमं शौचं सौहृदं च व्यपाश्रिताः मम वैश्याः स्वकर्मस्था मामकान्तरमाविशः
MBh 12.78.17
त्रीन्वर्णाननुतिष्ठन्ति यथावदनसूयकाः मम शूद्राः स्वकर्मस्था मामकान्तरमाविशः
MBh 12.78.18
कृपणानाथवृद्धानां दुर्बलातुरयोषिताम् संविभक्तास्मि सर्वेषां मामकान्तरमाविशः
MBh 12.78.19
कुलदेशादिधर्माणां प्रथितानां यथाविधि अव्युच्छेत्तास्मि सर्वेषां मामकान्तरमाविशः
MBh 12.78.20
तपस्विनो मे विषये पूजिताः परिपालिताः संविभक्ताश्च सत्कृत्य मामकान्तरमाविशः
MBh 12.78.21
नासंविभज्य भोक्तास्मि न विशामि परस्त्रियम् स्वतन्त्रो जातु न क्रीडे मामकान्तरमाविशः
MBh 12.78.22
नाब्रह्मचारी भिक्षावान्भिक्षुर्वाब्रह्मचारिकः अनृत्विजं हुतं नास्ति मामकान्तरमाविशः
MBh 12.78.23
नावजानाम्यहं वृद्धान्न वैद्यान्न तपस्विनः राष्ट्रे स्वपति जागर्मि मामकान्तरमाविशः
MBh 12.78.24
वेदाध्ययनसंपन्नस्तपस्वी सर्वधर्मवित् स्वामी सर्वस्य राज्यस्य श्रीमान्मम पुरोहितः
MBh 12.78.25
दानेन दिव्यानभिवाञ्छामि लोका;न्सत्येनाथो ब्राह्मणानां च गुप्त्या शुश्रूषया चापि गुरूनुपैमि; न मे भयं विद्यते राक्षसेभ्यः
MBh 12.78.26
न मे राष्ट्रे विधवा ब्रह्मबन्धु;र्न ब्राह्मणः कृपणो नोत चोरः न पारजायी न च पापकर्मा; न मे भयं विद्यते राक्षसेभ्यः
MBh 12.78.27
न मे शस्त्रैरनिर्भिन्नमङ्गे द्व्यङ्गुलमन्तरम् धर्मार्थं युध्यमानस्य मामकान्तरमाविशः
MBh 12.78.28
गोब्राह्मणे च यज्ञे च नित्यं स्वस्त्ययनं मम आशासते जना राष्ट्रे मामकान्तरमाविशः
MBh 12.78.29
राक्षस उवाच यस्मात्सर्वास्ववस्थासु धर्ममेवान्ववेक्षसे तस्मात्प्राप्नुहि कैकेय गृहान्स्वस्ति व्रजाम्यहम्
MBh 12.78.30
येषां गोब्राह्मणा रक्ष्याः प्रजा रक्ष्याश्च केकय न रक्षोभ्यो भयं तेषां कुत एव तु मानुषात्
MBh 12.78.31
येषां पुरोगमा विप्रा येषां ब्रह्मबलं बलम् प्रियातिथ्यास्तथा दारास्ते वै स्वर्गजितो नराः
MBh 12.78.32
भीष्म उवाच तस्माद्द्विजातीन्रक्षेत ते हि रक्षन्ति रक्षिताः आशीरेषां भवेद्राज्ञां राष्ट्रं सम्यक्प्रवर्धते
MBh 12.78.33
तस्माद्राज्ञा विशेषेण विकर्मस्था द्विजातयः नियम्याः संविभज्याश्च प्रजानुग्रहकारणात्
MBh 12.78.34
य एवं वर्तते राजा पौरजानपदेष्विह अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 34 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.78local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷