🪷 Mahābhārata · Śānti-Parva · Chapter 50
The Book of Peace · the great dharma-śāstra · Parva 12 · 36 shlokas in canonical Devanāgarī Sanskrit
Mahābhārata Detail Source-Anchor Spine
This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.
MBh 12.50local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
The Devanāgarī Yathārtha · 36 Shlokas
MBh 12.50.1
[वैषम्पायन]
ततॊ रामस्य तत कर्म शरुत्वा राजा युधिष्ठिरः
विस्मयं परमं गत्वा परत्युवाच जनार्दनम
MBh 12.50.2
अहॊ रामस्य वार्ष्णेय शक्रस्येव महात्मनः
विक्रमॊ येन वसुधा करॊधान निःक्षत्रिया कृता
MBh 12.50.3
गॊभिः समुद्रेण तथा गॊलाङ्गूलर्क्ष वानरैः
गुप्ता राम भयॊद्विग्नाः कषत्रियाणां कुलॊद्वहाः
MBh 12.50.4
अहॊ धन्यॊ हि लॊकॊ ऽयं स भाग्याश च नरा भुवि
यत्र कर्मेदृशं धर्म्यं दविजेन कृतम अच्युत
MBh 12.50.5
तथा यान्तौ तदा तात ताव अच्युतयुधिष्ठिरौ
जग्मतुर यत्र गाङ्गेयः शरतल्पगतः परभुः
MBh 12.50.6
ततस ते ददृशुर भीष्मं शरप्रस्तर शायिनम
सवरश्मि जालसंवीतं सायं सूर्यम इवानलम
MBh 12.50.7
उपास्यमानं मुनिभिर देवैर इव शतक्रतुम
देशे परमधर्मिष्ठे नदी मॊघवतीम अनु
MBh 12.50.8
दूराद एव तम आलॊक्य कृष्णॊ राजा च धर्मराट
चत्वारः पाण्डवाश चैव ते च शारद्वतादयः
MBh 12.50.9
अवस्कन्द्याथ वाहेभ्यः संयम्य परचलं मनः
एकीकृत्येन्द्रिय गरामम उपतस्थुर महामुनीन
MBh 12.50.10
अभिवाद्य च गॊविन्दः सात्यकिस ते च कौरवाः
वयासादींस तान ऋषीन पश्चाद गाङ्गेयम उपतस्थिरे
MBh 12.50.11
तपॊवृद्धिं ततः पृष्ट्वा गाङ्गेयं यदुकौरवाः
परिवार्य ततः सर्वे निषेदुः पुरुषर्षभाः
MBh 12.50.12
ततॊ निशम्य गाङ्गेयं शाम्यमानम इवानलम
किं चिद दीनमना भीष्मम इति हॊवाच केशवः
MBh 12.50.13
कच चिज जञानानि ते राजन परसन्नानि यथा पुरा
कच चिद अव्या कुला चैव बुद्धिस ते वदतां वर
MBh 12.50.14
शराभिघातदुः खात ते कच चिद गात्रं न दूयते
मानसाद अपि दुःखाद धि शारीरं बलवत तरम
MBh 12.50.15
वरदानात पितुः कामं छन्द मृत्युर असि परभॊ
शंतनॊर धर्मशीलस्य न तव एतच छम कारणम
MBh 12.50.16
सुसूक्ष्मॊ ऽपीह देहे वै शल्यॊ जनयते रुजम
किं पुनः शरसंघातैश चितस्य तव भारत
MBh 12.50.17
कामं नैतत तवाख्येयं पराणिनां परभवाप्ययौ
भवान हय उपदिशेच छरेयॊ देवानाम अपि भारत
MBh 12.50.18
यद धि भूतं भविष्यच च भवच च पुरुषर्षभ
सर्वं तज जञानवृद्धस्य तव पाणाव इवाहितम
MBh 12.50.19
संसारश चैव भूतानां धर्मस्य च फलॊदयः
विदितस ते महाप्राज्ञ तवं हि बरह्म मयॊ निधिः
MBh 12.50.20
तवां हि राज्ये सथितं सफीते समग्राङ्गम अरॊगिणम
सत्रीसहस्रैः परिवृतं पश्यामीहॊर्ध्व रेतसम
MBh 12.50.21
ऋते शांतनवाद भीष्मात तरिषु लॊकेषु पार्थिव
सत्यसंधान महावीर्याच छूराद धर्मैक तत्परात
MBh 12.50.22
मृत्युम आवार्य तरसा शरप्रस्तर शायिनः
निसर्ग परभवं किं चिन न च तातानुशुश्रुम
MBh 12.50.23
सत्ये तपसि दाने च यज्ञाधिकरणे तथा
धनुर्वेदे च वेदे च नित्यं चैवान्ववेक्षणे
MBh 12.50.24
अनृशंसं शुचिं दान्तं सर्वभूतहिते रतम
महारथं तवत सदृशं न कं चिद अनुशुश्रुम
MBh 12.50.25
तवं हि देवान स गन्धर्वान स सुरासुरराक्षसान
शक्त एकरथेनैव विजेतुं नात्र संशयः
MBh 12.50.26
तवं हि भीष्म महाबाहॊ वसूनां वासवॊपमः
नित्यं विप्रैः समाख्यातॊ नवमॊ ऽनवमॊ गुणैः
MBh 12.50.27
अहं हि तवाभिजानामि यस तवं पुरुषसत्तम
तरिदशेष्व अपि विख्यातः सवशक्त्या सुमहाबलः
MBh 12.50.28
मनुष्येषु मनुष्येन्द्र न दृष्टॊ न च मे शरुतः
भवतॊ यॊ गुणैस तुल्यः पृथिव्यां पुरुषः कव चित
MBh 12.50.29
तवं हि सर्वैर गुणै राजन देवान अप्य अतिरिच्यसे
तपसा हि भवाञ शक्तः सरष्टुं लॊकांश चराचरान
MBh 12.50.30
तद अस्य तप्यमानस्य जञातीनां संक्षयेण वै
जयेष्ठस्य पाण्डुपुत्रस्य शॊकं भीष्म वयपानुद
MBh 12.50.31
ये हि धर्माः समाख्याताश चातुर्वर्ण्यस्य भारत
चातुर आश्रम्य संसृष्टास ते सर्वे विदितास तव
MBh 12.50.32
चातुर वेद्ये च ये परॊक्ताश चातुर हॊत्रे च भारत
सांख्ये यॊगे च नियता ये च धर्माः सनातनाः
MBh 12.50.33
चातुर्वर्ण्येन यश चैकॊ धर्मॊ न सम विरुध्यते
सेव्यमानः स चैवाद्यॊ गाङ्गेय विदितस तव
MBh 12.50.34
इतिहास पुराणं च कार्त्स्न्येन विदितं तव
धर्मशास्त्रं च सकलं नित्यं मनसि ते सथितम
MBh 12.50.35
ये च के चन लॊके ऽसमिन्न अर्थाः संशय कारकाः
तेषां छेत्ता नास्ति लॊके तवदन्यः पुरुषर्षभ
MBh 12.50.36
स पाण्डवेयस्य मनः समुत्थितं; नरेन्द्र शॊकं वयपकर्ष मेधया
भवद्विधा हय उत्तमबुद्धिविस्तरा; विमुह्यमानस्य जनस्य शान्तये
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 49
- Next chapter · Śānti-Parva Ch 51 →
🪷 जय व्यास भगवान् 🪷