🪷 Mahābhārata · Śānti-Parva · Chapter 38

The Book of Peace · the great dharma-śāstra · Parva 12 · 49 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 49 Shlokas

MBh 12.38.1
युधिष्ठिर उवाच श्रोतुमिच्छामि भगवन्विस्तरेण महामुने राजधर्मान्द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान्
MBh 12.38.2
आपत्सु च यथा नीतिर्विधातव्या महीक्षिता धर्म्यमालम्ब्य पन्थानं विजयेयं कथं महीम्
MBh 12.38.3
प्रायश्चित्तकथा ह्येषा भक्ष्याभक्ष्यविवर्धिता कौतूहलानुप्रवणा हर्षं जनयतीव मे
MBh 12.38.4
धर्मचर्या च राज्यं च नित्यमेव विरुध्यते येन मुह्यति मे चेतश्चिन्तयानस्य नित्यशः
MBh 12.38.5
वैशंपायन उवाच तमुवाच महातेजा व्यासो वेदविदां वरः नारदं समभिप्रेक्ष्य सर्वं जानन्पुरातनम्
MBh 12.38.6
श्रोतुमिच्छसि चेद्धर्मानखिलेन युधिष्ठिर प्रैहि भीष्मं महाबाहो वृद्धं कुरुपितामहम्
MBh 12.38.7
स ते सर्वरहस्येषु संशयान्मनसि स्थितान् छेत्ता भागीरथीपुत्रः सर्वज्ञः सर्वधर्मवित्
MBh 12.38.8
जनयामास यं देवी दिव्या त्रिपथगा नदी साक्षाद्ददर्श यो देवान्सर्वाञ्शक्रपुरोगमान्
MBh 12.38.9
बृहस्पतिपुरोगांश्च देवर्षीनसकृत्प्रभुः तोषयित्वोपचारेण राजनीतिमधीतवान्
MBh 12.38.10
उशना वेद यच्छास्त्रं देवासुरगुरुर्द्विजः तच्च सर्वं सवैयाख्यं प्राप्तवान्कुरुसत्तमः
MBh 12.38.11
भार्गवाच्च्यवनाच्चापि वेदानङ्गोपबृंहितान् प्रतिपेदे महाबुद्धिर्वसिष्ठाच्च यतव्रतात्
MBh 12.38.12
पितामहसुतं ज्येष्ठं कुमारं दीप्ततेजसम् अध्यात्मगतितत्त्वज्ञमुपाशिक्षत यः पुरा
MBh 12.38.13
मार्कण्डेयमुखात्कृत्स्नं यतिधर्ममवाप्तवान् रामादस्त्राणि शक्राच्च प्राप्तवान्भरतर्षभ
MBh 12.38.14
मृत्युरात्मेच्छया यस्य जातस्य मनुजेष्वपि तथानपत्यस्य सतः पुण्यलोका दिवि श्रुताः
MBh 12.38.15
यस्य ब्रह्मर्षयः पुण्या नित्यमासन्सभासदः यस्य नाविदितं किंचिज्ज्ञानज्ञेयेषु विद्यते
MBh 12.38.16
स ते वक्ष्यति धर्मज्ञः सूक्ष्मधर्मार्थतत्त्ववित् तमभ्येहि पुरा प्राणान्स विमुञ्चति धर्मवित्
MBh 12.38.17
एवमुक्तस्तु कौन्तेयो दीर्घप्रज्ञो महाद्युतिः उवाच वदतां श्रेष्ठं व्यासं सत्यवतीसुतम्
MBh 12.38.18
वैशसं सुमहत्कृत्वा ज्ञातीनां लोमहर्षणम् आगस्कृत्सर्वलोकस्य पृथिवीनाशकारकः
MBh 12.38.19
घातयित्वा तमेवाजौ छलेनाजिह्मयोधिनम् उपसंप्रष्टुमर्हामि तमहं केन हेतुना
MBh 12.38.20
ततस्तं नृपतिश्रेष्ठं चातुर्वर्ण्यहितेप्सया पुनराह महाबाहुर्यदुश्रेष्ठो महाद्युतिः
MBh 12.38.21
नेदानीमतिनिर्बन्धं शोके कर्तुमिहार्हसि यदाह भगवान्व्यासस्तत्कुरुष्व नृपोत्तम
MBh 12.38.22
ब्राह्मणास्त्वां महाबाहो भ्रातरश्च महौजसः पर्जन्यमिव घर्मार्ता आशंसाना उपासते
MBh 12.38.23
हतशिष्टाश्च राजानः कृत्स्नं चैव समागतम् चातुर्वर्ण्यं महाराज राष्ट्रं ते कुरुजाङ्गलम्
MBh 12.38.24
प्रियार्थमपि चैतेषां ब्राह्मणानां महात्मनाम् नियोगादस्य च गुरोर्व्यासस्यामिततेजसः
MBh 12.38.25
सुहृदां चास्मदादीनां द्रौपद्याश्च परंतप कुरु प्रियममित्रघ्न लोकस्य च हितं कुरु
MBh 12.38.26
एवमुक्तस्तु कृष्णेन राजा राजीवलोचनः हितार्थं सर्वलोकस्य समुत्तस्थौ महातपाः
MBh 12.38.27
सोऽनुनीतो नरव्याघ्रो विष्टरश्रवसा स्वयम् द्वैपायनेन च तथा देवस्थानेन जिष्णुना
MBh 12.38.28
एतैश्चान्यैश्च बहुभिरनुनीतो युधिष्ठिरः व्यजहान्मानसं दुःखं संतापं च महामनाः
MBh 12.38.29
श्रुतवाक्यः श्रुतनिधिः श्रुतश्रव्यविशारदः व्यवस्य मनसः शान्तिमगच्छत्पाण्डुनन्दनः
MBh 12.38.30
स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः धृतराष्ट्रं पुरस्कृत्य स्वपुरं प्रविवेश ह
MBh 12.38.31
प्रविविक्षुः स धर्मज्ञः कुन्तीपुत्रो युधिष्ठिरः अर्चयामास देवांश्च ब्राह्मणांश्च सहस्रशः
MBh 12.38.32
ततो रथं नवं शुभ्रं कम्बलाजिनसंवृतम् युक्तं षोडशभिर्गोभिः पाण्डुरैः शुभलक्षणैः
MBh 12.38.33
मन्त्रैरभ्यर्चितः पुण्यैः स्तूयमानो महर्षिभिः आरुरोह यथा देवः सोमोऽमृतमयं रथम्
MBh 12.38.34
जग्राह रश्मीन्कौन्तेयो भीमो भीमपराक्रमः अर्जुनः पाण्डुरं छत्रं धारयामास भानुमत्
MBh 12.38.35
ध्रियमाणं तु तच्छत्रं पाण्डुरं तस्य मूर्धनि शुशुभे तारकाराजसितमभ्रमिवाम्बरे
MBh 12.38.36
चामरव्यजने चास्य वीरौ जगृहतुस्तदा चन्द्ररश्मिप्रभे शुभ्रे माद्रीपुत्रावलंकृते
MBh 12.38.37
ते पञ्च रथमास्थाय भ्रातरः समलंकृताः भूतानीव समस्तानि राजन्ददृशिरे तदा
MBh 12.38.38
आस्थाय तु रथं शुभ्रं युक्तमश्वैर्महाजवैः अन्वयात्पृष्ठतो राजन्युयुत्सुः पाण्डवाग्रजम्
MBh 12.38.39
रथं हेममयं शुभ्रं सैन्यसुग्रीवयोजितम् सह सात्यकिना कृष्णः समास्थायान्वयात्कुरून्
MBh 12.38.40
नरयानेन तु ज्येष्ठः पिता पार्थस्य भारत अग्रतो धर्मराजस्य गान्धारीसहितो ययौ
MBh 12.38.41
कुरुस्त्रियश्च ताः सर्वाः कुन्ती कृष्णा च द्रौपदी यानैरुच्चावचैर्जग्मुर्विदुरेण पुरस्कृताः
MBh 12.38.42
ततो रथाश्च बहुला नागाश्च समलंकृताः पादाताश्च हयाश्चैव पृष्ठतः समनुव्रजन्
MBh 12.38.43
ततो वैतालिकैः सूतैर्मागधैश्च सुभाषितैः स्तूयमानो ययौ राजा नगरं नागसाह्वयम्
MBh 12.38.44
तत्प्रयाणं महाबाहोर्बभूवाप्रतिमं भुवि आकुलाकुलमुत्सृष्टं हृष्टपुष्टजनान्वितम्
MBh 12.38.45
अभियाने तु पार्थस्य नरैर्नगरवासिभिः नगरं राजमार्गश्च यथावत्समलंकृतम्
MBh 12.38.46
पाण्डुरेण च माल्येन पताकाभिश्च वेदिभिः संवृतो राजमार्गश्च धूपनैश्च सुधूपितः
MBh 12.38.47
अथ चूर्णैश्च गन्धानां नानापुष्पैः प्रियङ्गुभिः माल्यदामभिरासक्तै राजवेश्माभिसंवृतम्
MBh 12.38.48
कुम्भाश्च नगरद्वारि वारिपूर्णा दृढा नवाः कन्याः सुमनसश्छागाः स्थापितास्तत्र तत्र ह
MBh 12.38.49
तथा स्वलंकृतद्वारं नगरं पाण्डुनन्दनः स्तूयमानः शुभैर्वाक्यैः प्रविवेश सुहृद्वृतः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 49 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.38local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷