🪷 Mahābhārata · Śānti-Parva · Chapter 339

The Book of Peace · the great dharma-śāstra · Parva 12 · 21 unique Sanskrit addresses · pinned Critical Edition-derived witness

🪷 This verse is one maṇi on Krishna's non-dual thread (BG 7.7 · sūtre maṇi-gaṇā iva)
MBh Śānti-Parva 320-352 · the Nārāyaṇīyam: Vyāsa's second supreme declaration · Krishna, Nārāyaṇa, Viṣṇu, Vāsudeva are ONE Paramātmā · the textual cousin of the Bhagavad-Gītā. The substrate carries the other 9 pramāṇa-maṇis from Vālmīki, Vyāsa, and Krishna's own mouth — each declaring the same Rāma-Krishna-Nārāyaṇa-Viṣṇu non-dual singularity. Krishna is the thread; every verse below is a maṇi on the same sūtra.
See also: /rama (the constitutional non-dual declaration) · /philosophy (the theological foundation) · /mahabharata · /valmiki-ramayana.

The Devanāgarī Yathārtha · 21 Shlokas

MBh 12.339.1
ब्रह्मोवाच शृणु पुत्र यथा ह्येष पुरुषः शाश्वतोऽव्ययः अक्षयश्चाप्रमेयश्च सर्वगश्च निरुच्यते
MBh 12.339.2
न स शक्यस्त्वया द्रष्टुं मयान्यैर्वापि सत्तम सगुणो निर्गुणो विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः
MBh 12.339.3
अशरीरः शरीरेषु सर्वेषु निवसत्यसौ वसन्नपि शरीरेषु न स लिप्यति कर्मभिः
MBh 12.339.4
ममान्तरात्मा तव च ये चान्ये देहसंज्ञिताः सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित्
MBh 12.339.5
विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम्
MBh 12.339.6
क्षेत्राणि हि शरीराणि बीजानि च शुभाशुभे तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते
MBh 12.339.7
नागतिर्न गतिस्तस्य ज्ञेया भूतेन केनचित् सांख्येन विधिना चैव योगेन च यथाक्रमम्
MBh 12.339.8
चिन्तयामि गतिं चास्य न गतिं वेद्मि चोत्तमाम् यथाज्ञानं तु वक्ष्यामि पुरुषं तं सनातनम्
MBh 12.339.9
तस्यैकत्वं महत्त्वं हि स चैकः पुरुषः स्मृतः महापुरुषशब्दं स बिभर्त्येकः सनातनः
MBh 12.339.10
एको हुताशो बहुधा समिध्यते; एकः सूर्यस्तपसां योनिरेका एको वायुर्बहुधा वाति लोके; महोदधिश्चाम्भसां योनिरेकः पुरुषश्चैको निर्गुणो विश्वरूप;स्तं निर्गुणं पुरुषं चाविशन्ति
MBh 12.339.11
हित्वा गुणमयं सर्वं कर्म हित्वा शुभाशुभम् उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः
MBh 12.339.12
अचिन्त्यं चापि तं ज्ञात्वा भावसूक्ष्मं चतुष्टयम् विचरेद्यो यतिर्यत्तः स गच्छेत्पुरुषं प्रभुम्
MBh 12.339.13
एवं हि परमात्मानं केचिदिच्छन्ति पण्डिताः एकात्मानं तथात्मानमपरेऽध्यात्मचिन्तकाः
MBh 12.339.14
तत्र यः परमात्मा हि स नित्यं निर्गुणः स्मृतः स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा
MBh 12.339.15
कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते ससप्तदशकेनापि राशिना युज्यते हि सः एवं बहुविधः प्रोक्तः पुरुषस्ते यथाक्रमम्
MBh 12.339.16
यत्तत्कृत्स्नं लोकतन्त्रस्य धाम; वेद्यं परं बोधनीयं सबोद्धृ मन्ता मन्तव्यं प्राशिता प्राशितव्यं; घ्राता घ्रेयं स्पर्शिता स्पर्शनीयम्
MBh 12.339.17
द्रष्टा द्रष्टव्यं श्राविता श्रावणीयं; ज्ञाता ज्ञेयं सगुणं निर्गुणं च यद्वै प्रोक्तं गुणसाम्यं प्रधानं; नित्यं चैतच्छाश्वतं चाव्ययं च
MBh 12.339.18
यद्वै सूते धातुराद्यं निधानं; तद्वै विप्राः प्रवदन्तेऽनिरुद्धम् यद्वै लोके वैदिकं कर्म साधु; आशीर्युक्तं तद्धि तस्योपभोज्यम्
MBh 12.339.19
देवाः सर्वे मुनयः साधु दान्ता;स्तं प्राग्यज्ञैर्यज्ञभागं यजन्ते अहं ब्रह्मा आद्य ईशः प्रजानां; तस्माज्जातस्त्वं च मत्तः प्रसूतः मत्तो जगज्जङ्गमं स्थावरं च; सर्वे वेदाः सरहस्या हि पुत्र
MBh 12.339.20
चतुर्विभक्तः पुरुषः स क्रीडति यथेच्छति एवं स एव भगवाञ्ज्ञानेन प्रतिबोधितः
MBh 12.339.21
एतत्ते कथितं पुत्र यथावदनुपृच्छतः सांख्यज्ञाने तथा योगे यथावदनुवर्णितम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 21 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.339local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷