🪷 Mahābhārata · Śānti-Parva · Chapter 324

The Book of Peace · the great dharma-śāstra · Parva 12 · 39 unique Sanskrit addresses · pinned Critical Edition-derived witness

🪷 This verse is one maṇi on Krishna's non-dual thread (BG 7.7 · sūtre maṇi-gaṇā iva)
MBh Śānti-Parva 320-352 · the Nārāyaṇīyam: Vyāsa's second supreme declaration · Krishna, Nārāyaṇa, Viṣṇu, Vāsudeva are ONE Paramātmā · the textual cousin of the Bhagavad-Gītā. The substrate carries the other 9 pramāṇa-maṇis from Vālmīki, Vyāsa, and Krishna's own mouth — each declaring the same Rāma-Krishna-Nārāyaṇa-Viṣṇu non-dual singularity. Krishna is the thread; every verse below is a maṇi on the same sūtra.
See also: /rama (the constitutional non-dual declaration) · /philosophy (the theological foundation) · /mahabharata · /valmiki-ramayana.

The Devanāgarī Yathārtha · 39 Shlokas

MBh 12.324.1
युधिष्ठिर उवाच यदा भक्तो भगवत आसीद्राजा महावसुः किमर्थं स परिभ्रष्टो विवेश विवरं भुवः
MBh 12.324.2
भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् ऋषीणां चैव संवादं त्रिदशानां च भारत
MBh 12.324.3
अजेन यष्टव्यमिति देवाः प्राहुर्द्विजोत्तमान् स च छागो ह्यजो ज्ञेयो नान्यः पशुरिति स्थितिः
MBh 12.324.4
ऋषय ऊचुः बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः अजसंज्ञानि बीजानि छागं न घ्नन्तुमर्हथ
MBh 12.324.5
नैष धर्मः सतां देवा यत्र वध्येत वै पशुः इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः
MBh 12.324.6
भीष्म उवाच तेषां संवदतामेवमृषीणां विबुधैः सह मार्गागतो नृपश्रेष्ठस्तं देशं प्राप्तवान्वसुः अन्तरिक्षचरः श्रीमान्समग्रबलवाहनः
MBh 12.324.7
तं दृष्ट्वा सहसायान्तं वसुं ते त्वन्तरिक्षगम् ऊचुर्द्विजातयो देवानेष छेत्स्यति संशयम्
MBh 12.324.8
यज्वा दानपतिः श्रेष्ठः सर्वभूतहितप्रियः कथं स्विदन्यथा ब्रूयाद्वाक्यमेष महान्वसुः
MBh 12.324.9
एवं ते संविदं कृत्वा विबुधा ऋषयस्तथा अपृच्छन्सहसाभ्येत्य वसुं राजानमन्तिकात्
MBh 12.324.10
भो राजन्केन यष्टव्यमजेनाहोस्विदौषधैः एतन्नः संशयं छिन्धि प्रमाणं नो भवान्मतः
MBh 12.324.11
स तान्कृताञ्जलिर्भूत्वा परिपप्रच्छ वै वसुः कस्य वः को मतः पक्षो ब्रूत सत्यं समागताः
MBh 12.324.12
ऋषय ऊचुः धान्यैर्यष्टव्यमित्येष पक्षोऽस्माकं नराधिप देवानां तु पशुः पक्षो मतो राजन्वदस्व नः
MBh 12.324.13
भीष्म उवाच देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात् छागेनाजेन यष्टव्यमेवमुक्तं वचस्तदा
MBh 12.324.14
कुपितास्ते ततः सर्वे मुनयः सूर्यवर्चसः ऊचुर्वसुं विमानस्थं देवपक्षार्थवादिनम्
MBh 12.324.15
सुरपक्षो गृहीतस्ते यस्मात्तस्माद्दिवः पत अद्य प्रभृति ते राजन्नाकाशे विहता गतिः अस्मच्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि
MBh 12.324.16
ततस्तस्मिन्मुहूर्तेऽथ राजोपरिचरस्तदा अधो वै संबभूवाशु भूमेर्विवरगो नृपः स्मृतिस्त्वेनं न प्रजहौ तदा नारायणाज्ञया
MBh 12.324.17
देवास्तु सहिताः सर्वे वसोः शापविमोक्षणम् चिन्तयामासुरव्यग्राः सुकृतं हि नृपस्य तत्
MBh 12.324.18
अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना अस्य प्रतिप्रियं कार्यं सहितैर्नो दिवौकसः
MBh 12.324.19
इति बुद्ध्या व्यवस्याशु गत्वा निश्चयमीश्वराः ऊचुस्तं हृष्टमनसो राजोपरिचरं तदा
MBh 12.324.20
ब्रह्मण्यदेवं त्वं भक्तः सुरासुरगुरुं हरिम् कामं स तव तुष्टात्मा कुर्याच्छापविमोक्षणम्
MBh 12.324.21
मानना तु द्विजातीनां कर्तव्या वै महात्मनाम् अवश्यं तपसा तेषां फलितव्यं नृपोत्तम
MBh 12.324.22
यतस्त्वं सहसा भ्रष्ट आकाशान्मेदिनीतलम् एकं त्वनुग्रहं तुभ्यं दद्मो वै नृपसत्तम
MBh 12.324.23
यावत्त्वं शापदोषेण कालमासिष्यसेऽनघ भूमेर्विवरगो भूत्वा तावन्तं कालमाप्स्यसि यज्ञेषु सुहुतां विप्रैर्वसोर्धारां महात्मभिः
MBh 12.324.24
प्राप्स्यसेऽस्मदनुध्यानान्मा च त्वां ग्लानिरास्पृशेत् न क्षुत्पिपासे राजेन्द्र भूमेश्छिद्रे भविष्यतः
MBh 12.324.25
वसोर्धारानुपीतत्वात्तेजसाप्यायितेन च स देवोऽस्मद्वरात्प्रीतो ब्रह्मलोकं हि नेष्यति
MBh 12.324.26
एवं दत्त्वा वरं राज्ञे सर्वे तत्र दिवौकसः गताः स्वभवनं देवा ऋषयश्च तपोधनाः
MBh 12.324.27
चक्रे च सततं पूजां विष्वक्सेनाय भारत जप्यं जगौ च सततं नारायणमुखोद्गतम्
MBh 12.324.28
तत्रापि पञ्चभिर्यज्ञैः पञ्चकालानरिंदम अयजद्धरिं सुरपतिं भूमेर्विवरगोऽपि सन्
MBh 12.324.29
ततोऽस्य तुष्टो भगवान्भक्त्या नारायणो हरिः अनन्यभक्तस्य सतस्तत्परस्य जितात्मनः
MBh 12.324.30
वरदो भगवान्विष्णुः समीपस्थं द्विजोत्तमम् गरुत्मन्तं महावेगमाबभाषे स्मयन्निव
MBh 12.324.31
द्विजोत्तम महाभाग गम्यतां वचनान्मम सम्राड्राजा वसुर्नाम धर्मात्मा मां समाश्रितः
MBh 12.324.32
ब्राह्मणानां प्रकोपेन प्रविष्टो वसुधातलम् मानितास्ते तु विप्रेन्द्रास्त्वं तु गच्छ द्विजोत्तम
MBh 12.324.33
भूमेर्विवरसंगुप्तं गरुडेह ममाज्ञया अधश्चरं नृपश्रेष्ठं खेचरं कुरु माचिरम्
MBh 12.324.34
गरुत्मानथ विक्षिप्य पक्षौ मारुतवेगवान् विवेश विवरं भूमेर्यत्रास्ते वाग्यतो वसुः
MBh 12.324.35
तत एनं समुत्क्षिप्य सहसा विनतासुतः उत्पपात नभस्तूर्णं तत्र चैनममुञ्चत
MBh 12.324.36
तस्मिन्मुहूर्ते संजज्ञे राजोपरिचरः पुनः सशरीरो गतश्चैव ब्रह्मलोकं नृपोत्तमः
MBh 12.324.37
एवं तेनापि कौन्तेय वाग्दोषाद्देवताज्ञया प्राप्ता गतिरयज्वार्हा द्विजशापान्महात्मना
MBh 12.324.38
केवलं पुरुषस्तेन सेवितो हरिरीश्वरः ततः शीघ्रं जहौ शापं ब्रह्मलोकमवाप च
MBh 12.324.39
एतत्ते सर्वमाख्यातं ते भूता मानवा यथा नारदोऽपि यथा श्वेतं द्वीपं स गतवानृषिः तत्ते सर्वं प्रवक्ष्यामि शृणुष्वैकमना नृप

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 39 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.324local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷