🪷 Mahābhārata · Śānti-Parva · Chapter 322

The Book of Peace · the great dharma-śāstra · Parva 12 · 52 unique Sanskrit addresses · pinned Critical Edition-derived witness

🪷 This verse is one maṇi on Krishna's non-dual thread (BG 7.7 · sūtre maṇi-gaṇā iva)
MBh Śānti-Parva 320-352 · the Nārāyaṇīyam: Vyāsa's second supreme declaration · Krishna, Nārāyaṇa, Viṣṇu, Vāsudeva are ONE Paramātmā · the textual cousin of the Bhagavad-Gītā. The substrate carries the other 9 pramāṇa-maṇis from Vālmīki, Vyāsa, and Krishna's own mouth — each declaring the same Rāma-Krishna-Nārāyaṇa-Viṣṇu non-dual singularity. Krishna is the thread; every verse below is a maṇi on the same sūtra.
See also: /rama (the constitutional non-dual declaration) · /philosophy (the theological foundation) · /mahabharata · /valmiki-ramayana.

The Devanāgarī Yathārtha · 52 Shlokas

MBh 12.322.1
भीष्म उवाच स एवमुक्तो द्विपदां वरिष्ठो; नारायणेनोत्तमपूरुषेण जगाद वाक्यं द्विपदां वरिष्ठं; नारायणं लोकहिताधिवासम्
MBh 12.322.2
यदर्थमात्मप्रभवेह जन्म; तवोत्तमं धर्मगृहे चतुर्धा तत्साध्यतां लोकहितार्थमद्य; गच्छामि द्रष्टुं प्रकृतिं तवाद्याम्
MBh 12.322.3
वेदाः स्वधीता मम लोकनाथ; तप्तं तपो नानृतमुक्तपूर्वम् पूजां गुरूणां सततं करोमि; परस्य गुह्यं न च भिन्नपूर्वम्
MBh 12.322.4
गुप्तानि चत्वारि यथागमं मे; शत्रौ च मित्रे च समोऽस्मि नित्यम् तं चादिदेवं सततं प्रपन्न; एकान्तभावेन वृणोम्यजस्रम् एभिर्विशेषैः परिशुद्धसत्त्वः; कस्मान्न पश्येयमनन्तमीशम्
MBh 12.322.5
तत्पारमेष्ठ्यस्य वचो निशम्य; नारायणः सात्वतधर्मगोप्ता गच्छेति तं नारदमुक्तवान्स; संपूजयित्वात्मविधिक्रियाभिः
MBh 12.322.6
ततो विसृष्टः परमेष्ठिपुत्रः; सोऽभ्यर्चयित्वा तमृषिं पुराणम् खमुत्पपातोत्तमवेगयुक्त;स्ततोऽधिमेरौ सहसा निलिल्ये
MBh 12.322.7
तत्रावतस्थे च मुनिर्मुहूर्त;मेकान्तमासाद्य गिरेः स शृङ्गे आलोकयन्नुत्तरपश्चिमेन; ददर्श चात्यद्भुतरूपयुक्तम्
MBh 12.322.8
क्षीरोदधेरुत्तरतो हि द्वीपः; श्वेतः स नाम्ना प्रथितो विशालः मेरोः सहस्रैः स हि योजनानां; द्वात्रिंशतोर्ध्वं कविभिर्निरुक्तः
MBh 12.322.9
अतीन्द्रियाश्चानशनाश्च तत्र; निष्पन्दहीनाः सुसुगन्धिनश्च श्वेताः पुमांसो गतसर्वपापा;श्चक्षुर्मुषः पापकृतां नराणाम्
MBh 12.322.10
वज्रास्थिकायाः सममानोन्माना; दिव्यान्वयरूपाः शुभसारोपेताः छत्राकृतिशीर्षा मेघौघनिनादाः; सत्पुष्करचतुष्का राजीवशतपादाः
MBh 12.322.11
षष्ट्या दन्तैर्युक्ताः शुक्लै;रष्टाभिर्दंष्ट्राभिर्ये जिह्वाभिर्ये विष्वग्वक्त्रं; लेलिह्यन्ते सूर्यप्रख्यम्
MBh 12.322.12
भक्त्या देवं विश्वोत्पन्नं; यस्मात्सर्वे लोकाः सूताः वेदा धर्मा मुनयः शान्ता; देवाः सर्वे तस्य विसर्गाः
MBh 12.322.13
युधिष्ठिर उवाच अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः कथं ते पुरुषा जाताः का तेषां गतिरुत्तमा
MBh 12.322.14
ये विमुक्ता भवन्तीह नरा भरतसत्तम तेषां लक्षणमेतद्धि यच्छ्वेतद्वीपवासिनाम्
MBh 12.322.15
तस्मान्मे संशयं छिन्धि परं कौतूहलं हि मे त्वं हि सर्वकथारामस्त्वां चैवोपाश्रिता वयम्
MBh 12.322.16
भीष्म उवाच विस्तीर्णैषा कथा राजञ्श्रुता मे पितृसंनिधौ सैषा तव हि वक्तव्या कथासारो हि स स्मृतः
MBh 12.322.17
राजोपरिचरो नाम बभूवाधिपतिर्भुवः आखण्डलसखः ख्यातो भक्तो नारायणं हरिम्
MBh 12.322.18
धार्मिको नित्यभक्तश्च पितॄन्नित्यमतन्द्रितः साम्राज्यं तेन संप्राप्तं नारायणवरात्पुरा
MBh 12.322.19
सात्वतं विधिमास्थाय प्राक्सूर्यमुखनिःसृतम् पूजयामास देवेशं तच्छेषेण पितामहान्
MBh 12.322.20
पितृशेषेण विप्रांश्च संविभज्याश्रितांश्च सः शेषान्नभुक्सत्यपरः सर्वभूतेष्वहिंसकः सर्वभावेन भक्तः स देवदेवं जनार्दनम्
MBh 12.322.21
तस्य नारायणे भक्तिं वहतोऽमित्रकर्शन एकशय्यासनं शक्रो दत्तवान्देवराट्स्वयम्
MBh 12.322.22
आत्मा राज्यं धनं चैव कलत्रं वाहनानि च एतद्भगवते सर्वमिति तत्प्रेक्षितं सदा
MBh 12.322.23
काम्यनैमित्तिकाजस्रं यज्ञियाः परमक्रियाः सर्वाः सात्वतमास्थाय विधिं चक्रे समाहितः
MBh 12.322.24
पञ्चरात्रविदो मुख्यास्तस्य गेहे महात्मनः प्रायणं भगवत्प्रोक्तं भुञ्जते चाग्रभोजनम्
MBh 12.322.25
तस्य प्रशासतो राज्यं धर्मेणामित्रघातिनः नानृता वाक्समभवन्मनो दुष्टं न चाभवत् न च कायेन कृतवान्स पापं परमण्वपि
MBh 12.322.26
ये हि ते मुनयः ख्याताः सप्त चित्रशिखण्डिनः तैरेकमतिभिर्भूत्वा यत्प्रोक्तं शास्त्रमुत्तमम्
MBh 12.322.27
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः वसिष्ठश्च महातेजा एते चित्रशिखण्डिनः
MBh 12.322.28
सप्त प्रकृतयो ह्येतास्तथा स्वायंभुवोऽष्टमः एताभिर्धार्यते लोकस्ताभ्यः शास्त्रं विनिःसृतम्
MBh 12.322.29
एकाग्रमनसो दान्ता मुनयः संयमे रताः इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् लोकान्संचिन्त्य मनसा ततः शास्त्रं प्रचक्रिरे
MBh 12.322.30
तत्र धर्मार्थकामा हि मोक्षः पश्चाच्च कीर्तितः मर्यादा विविधाश्चैव दिवि भूमौ च संस्थिताः
MBh 12.322.31
आराध्य तपसा देवं हरिं नारायणं प्रभुम् दिव्यं वर्षसहस्रं वै सर्वे ते ऋषिभिः सह
MBh 12.322.32
नारायणानुशास्ता हि तदा देवी सरस्वती विवेश तानृषीन्सर्वाँल्लोकानां हितकाम्यया
MBh 12.322.33
ततः प्रवर्तिता सम्यक्तपोविद्भिर्द्विजातिभिः शब्दे चार्थे च हेतौ च एषा प्रथमसर्गजा
MBh 12.322.34
आदावेव हि तच्छास्त्रमोंकारस्वरभूषितम् ऋषिभिर्भावितं तत्र यत्र कारुणिको ह्यसौ
MBh 12.322.35
ततः प्रसन्नो भगवाननिर्दिष्टशरीरगः ऋषीनुवाच तान्सर्वानदृश्यः पुरुषोत्तमः
MBh 12.322.36
कृतं शतसहस्रं हि श्लोकानामिदमुत्तमम् लोकतन्त्रस्य कृत्स्नस्य यस्माद्धर्मः प्रवर्तते
MBh 12.322.37
प्रवृत्तौ च निवृत्तौ च योनिरेतद्भविष्यति ऋग्यजुःसामभिर्जुष्टमथर्वाङ्गिरसैस्तथा
MBh 12.322.38
तथा प्रमाणं हि मया कृतो ब्रह्मा प्रसादजः रुद्रश्च क्रोधजो विप्रा यूयं प्रकृतयस्तथा
MBh 12.322.39
सूर्याचन्द्रमसौ वायुर्भूमिरापोऽग्निरेव च सर्वे च नक्षत्रगणा यच्च भूताभिशब्दितम्
MBh 12.322.40
अधिकारेषु वर्तन्ते यथास्वं ब्रह्मवादिनः सर्वे प्रमाणं हि यथा तथैतच्छास्त्रमुत्तमम्
MBh 12.322.41
भविष्यति प्रमाणं वै एतन्मदनुशासनम् अस्मात्प्रवक्ष्यते धर्मान्मनुः स्वायंभुवः स्वयम्
MBh 12.322.42
उशना बृहस्पतिश्चैव यदोत्पन्नौ भविष्यतः तदा प्रवक्ष्यतः शास्त्रं युष्मन्मतिभिरुद्धृतम्
MBh 12.322.43
स्वायंभुवेषु धर्मेषु शास्त्रे चोशनसा कृते बृहस्पतिमते चैव लोकेषु प्रविचारिते
MBh 12.322.44
युष्मत्कृतमिदं शास्त्रं प्रजापालो वसुस्ततः बृहस्पतिसकाशाद्वै प्राप्स्यते द्विजसत्तमाः
MBh 12.322.45
स हि मद्भावितो राजा मद्भक्तश्च भविष्यति तेन शास्त्रेण लोकेषु क्रियाः सर्वाः करिष्यति
MBh 12.322.46
एतद्धि सर्वशास्त्राणां शास्त्रमुत्तमसंज्ञितम् एतदर्थ्यं च धर्म्यं च यशस्यं चैतदुत्तमम्
MBh 12.322.47
अस्य प्रवर्तनाच्चैव प्रजावन्तो भविष्यथ स च राजा श्रिया युक्तो भविष्यति महान्वसुः
MBh 12.322.48
संस्थिते तु नृपे तस्मिञ्शास्त्रमेतत्सनातनम् अन्तर्धास्यति तत्सत्यमेतद्वः कथितं मया
MBh 12.322.49
एतावदुक्त्वा वचनमदृश्यः पुरुषोत्तमः विसृज्य तानृषीन्सर्वान्कामपि प्रस्थितो दिशम्
MBh 12.322.50
ततस्ते लोकपितरः सर्वलोकार्थचिन्तकाः प्रावर्तयन्त तच्छास्त्रं धर्मयोनिं सनातनम्
MBh 12.322.51
उत्पन्नेऽऽङ्गिरसे चैव युगे प्रथमकल्पिते साङ्गोपनिषदं शास्त्रं स्थापयित्वा बृहस्पतौ
MBh 12.322.52
जग्मुर्यथेप्सितं देशं तपसे कृतनिश्चयाः धारणात्सर्वलोकानां सर्वधर्मप्रवर्तकाः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 52 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.322local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷