🪷 Mahābhārata · Śānti-Parva · Chapter 309

The Book of Peace · the great dharma-śāstra · Parva 12 · 92 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 92 Shlokas

MBh 12.309.1
युधिष्ठिर उवाच कथं निर्वेदमापन्नः शुको वैयासकिः पुरा एतदिच्छामि कौरव्य श्रोतुं कौतूहलं हि मे
MBh 12.309.2
भीष्म उवाच प्राकृतेन सुवृत्तेन चरन्तमकुतोभयम् अध्याप्य कृत्स्नं स्वाध्यायमन्वशाद्वै पिता सुतम्
MBh 12.309.3
धर्मं पुत्र निषेवस्व सुतीक्ष्णौ हि हिमातपौ क्षुत्पिपासे च वायुं च जय नित्यं जितेन्द्रियः
MBh 12.309.4
सत्यमार्जवमक्रोधमनसूयां दमं तपः अहिंसां चानृशंस्यं च विधिवत्परिपालय
MBh 12.309.5
सत्ये तिष्ठ रतो धर्मे हित्वा सर्वमनार्जवम् देवतातिथिशेषेण यात्रां प्राणस्य संश्रय
MBh 12.309.6
फेनपात्रोपमे देहे जीवे शकुनिवत्स्थिते अनित्ये प्रियसंवासे कथं स्वपिषि पुत्रक
MBh 12.309.7
अप्रमत्तेषु जाग्रत्सु नित्ययुक्तेषु शत्रुषु अन्तरं लिप्समानेषु बालस्त्वं नावबुध्यसे
MBh 12.309.8
गण्यमानेषु वर्षेषु क्षीयमाणे तथायुषि जीविते शिष्यमाणे च किमुत्थाय न धावसि
MBh 12.309.9
ऐहलौकिकमीहन्ते मांसशोणितवर्धनम् पारलौकिककार्येषु प्रसुप्ता भृशनास्तिकाः
MBh 12.309.10
धर्माय येऽभ्यसूयन्ति बुद्धिमोहान्विता नराः अपथा गच्छतां तेषामनुयातापि पीड्यते
MBh 12.309.11
ये तु तुष्टाः सुनियताः सत्यागमपरायणाः धर्म्यं पन्थानमारूढास्तानुपास्स्व च पृच्छ च
MBh 12.309.12
उपधार्य मतं तेषां वृद्धानां धर्मदर्शिनाम् नियच्छ परया बुद्ध्या चित्तमुत्पथगामि वै
MBh 12.309.13
अद्यकालिकया बुद्ध्या दूरे श्व इति निर्भयाः सर्वभक्षा न पश्यन्ति कर्मभूमिं विचेतसः
MBh 12.309.14
धर्मनिःश्रेणिमास्थाय किंचित्किंचित्समारुह कोशकारवदात्मानं वेष्टयन्नावबुध्यसे
MBh 12.309.15
नास्तिकं भिन्नमर्यादं कूलपातमिवास्थिरम् वामतः कुरु विस्रब्धो नरं वेणुमिवोद्धतम्
MBh 12.309.16
कामं क्रोधं च मृत्युं च पञ्चेन्द्रियजलां नदीम् नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर
MBh 12.309.17
मृत्युनाभ्याहते लोके जरया परिपीडिते अमोघासु पतन्तीषु धर्मयानेन संतर
MBh 12.309.18
तिष्ठन्तं च शयानं च मृत्युरन्वेषते यदा निर्वृतिं लभसे कस्मादकस्मान्मृत्युनाशितः
MBh 12.309.19
संचिन्वानकमेवैनं कामानामवितृप्तकम् वृकीवोरणमासाद्य मृत्युरादाय गच्छति
MBh 12.309.20
क्रमशः संचितशिखो धर्मबुद्धिमयो महान् अन्धकारे प्रवेष्टव्ये दीपो यत्नेन धार्यताम्
MBh 12.309.21
संपतन्देहजालानि कदाचिदिह मानुषे ब्राह्मण्यं लभते जन्तुस्तत्पुत्र परिपालय
MBh 12.309.22
ब्राह्मणस्य हि देहोऽयं न कामार्थाय जायते इह क्लेशाय तपसे प्रेत्य त्वनुपमं सुखम्
MBh 12.309.23
ब्राह्मण्यं बहुभिरवाप्यते तपोभि;स्तल्लब्ध्वा न परिपणेन हेडितव्यम् स्वाध्याये तपसि दमे च नित्ययुक्तः; क्षेमार्थी कुशलपरः सदा यतस्व
MBh 12.309.24
अव्यक्तप्रकृतिरयं कलाशरीरः; सूक्ष्मात्मा क्षणत्रुटिशो निमेषरोमा ऋत्वास्यः समबलशुक्लकृष्णनेत्रो; मासाङ्गो द्रवति वयोहयो नराणाम्
MBh 12.309.25
तं दृष्ट्वा प्रसृतमजस्रमुग्रवेगं; गच्छन्तं सततमिहाव्यपेक्षमाणम् चक्षुस्ते यदि न परप्रणेतृनेयं; धर्मे ते भवतु मनः परं निशम्य
MBh 12.309.26
येऽमी तु प्रचलितधर्मकामवृत्ताः; क्रोशन्तः सततमनिष्टसंप्रयोगाः क्लिश्यन्ते परिगतवेदनाशरीरा; बह्वीभिः सुभृशमधर्मवासनाभिः
MBh 12.309.27
राजा धर्मपरः सदा शुभगोप्ता; समीक्ष्य सुकृतिनां दधाति लोकान् बहुविधमपि चरतः प्रदिशति; सुखमनुपगतं निरवद्यम्
MBh 12.309.28
श्वानो भीषणायोमुखानि वयांसि; वडगृध्रकुलपक्षिणां च संघाः नरां कदने रुधिरपा गुरुवचन;नुदमुपरतं विशसन्ति
MBh 12.309.29
मर्यादा नियताः स्वयंभुवा य इहेमाः; प्रभिनत्ति दशगुणा मनोनुगत्वात् निवसति भृशमसुखं पितृविषय;विपिनमवगाह्य स पापः
MBh 12.309.30
यो लुब्धः सुभृशं प्रियानृतश्च मनुष्यः; सततनिकृतिवञ्चनारतिः स्यात् उपनिधिभिरसुखकृत्स परमनिरयगो; भृशमसुखमनुभवति दुष्कृतकर्मा
MBh 12.309.31
उष्णां वैतरणीं महानदी;मवगाढोऽसिपत्रवनभिन्नगात्रः परशुवनशयो निपतितो; वसति च महानिरये भृशार्तः
MBh 12.309.32
महापदानि कत्थसे न चाप्यवेक्षसे परम् चिरस्य मृत्युकारिकामनागतां न बुध्यसे
MBh 12.309.33
प्रयास्यतां किमास्यते समुत्थितं महद्भयम् अतिप्रमाथि दारुणं सुखस्य संविधीयताम्
MBh 12.309.34
पुरा मृतः प्रणीयसे यमस्य मृत्युशासनात् तदन्तिकाय दारुणैः प्रयत्नमार्जवे कुरु
MBh 12.309.35
पुरा समूलबान्धवं प्रभुर्हरत्यदुःखवित् तवेह जीवितं यमो न चास्ति तस्य वारकः
MBh 12.309.36
पुरा विवाति मारुतो यमस्य यः पुरःसरः पुरैक एव नीयसे कुरुष्व सांपरायिकम्
MBh 12.309.37
पुरा सहिक्क एव ते प्रवाति मारुतोऽन्तकः पुरा च विभ्रमन्ति ते दिशो महाभयागमे
MBh 12.309.38
स्मृतिश्च संनिरुध्यते पुरा तवेह पुत्रक समाकुलस्य गच्छतः समाधिमुत्तमं कुरु
MBh 12.309.39
कृताकृते शुभाशुभे प्रमादकर्मविप्लुते स्मरन्पुरा न तप्यसे निधत्स्व केवलं निधिम्
MBh 12.309.40
पुरा जरा कलेवरं विजर्जरीकरोति ते बलाङ्गरूपहारिणी निधत्स्व केवलं निधिम्
MBh 12.309.41
पुरा शरीरमन्तको भिनत्ति रोगसायकैः प्रसह्य जीवितक्षये तपो महत्समाचर
MBh 12.309.42
पुरा वृका भयंकरा मनुष्यदेहगोचराः अभिद्रवन्ति सर्वतो यतस्व पुण्यशीलने
MBh 12.309.43
पुरान्धकारमेककोऽनुपश्यसि त्वरस्व वै पुरा हिरण्मयान्नगान्निरीक्षसेऽद्रिमूर्धनि
MBh 12.309.44
पुरा कुसंगतानि ते सुहृन्मुखाश्च शत्रवः विचालयन्ति दर्शनाद्घटस्व पुत्र यत्परम्
MBh 12.309.45
धनस्य यस्य राजतो भयं न चास्ति चौरतः मृतं च यन्न मुञ्चति समर्जयस्व तद्धनम्
MBh 12.309.46
न तत्र संविभज्यते स्वकर्मभिः परस्परम् यदेव यस्य यौतकं तदेव तत्र सोऽश्नुते
MBh 12.309.47
परत्र येन जीव्यते तदेव पुत्र दीयताम् धनं यदक्षयं ध्रुवं समर्जयस्व तत्स्वयम्
MBh 12.309.48
न यावदेव पच्यते महाजनस्य यावकम् अपक्व एव यावके पुरा प्रणीयसे त्वर
MBh 12.309.49
न मातृपितृबान्धवा न संस्तुतः प्रियो जनः अनुव्रजन्ति संकटे व्रजन्तमेकपातिनम्
MBh 12.309.50
यदेव कर्म केवलं स्वयं कृतं शुभाशुभम् तदेव तस्य यौतकं भवत्यमुत्र गच्छतः
MBh 12.309.51
हिरण्यरत्नसंचयाः शुभाशुभेन संचिताः न तस्य देहसंक्षये भवन्ति कार्यसाधकाः
MBh 12.309.52
परत्रगामिकस्य ते कृताकृतस्य कर्मणः न साक्षिरात्मना समो नृणामिहास्ति कश्चन
MBh 12.309.53
मनुष्यदेहशून्यकं भवत्यमुत्र गच्छतः प्रपश्य बुद्धिचक्षुषा प्रदृश्यते हि सर्वतः
MBh 12.309.54
इहाग्निसूर्यवायवः शरीरमाश्रितास्त्रयः त एव तस्य साक्षिणो भवन्ति धर्मदर्शिनः
MBh 12.309.55
यथानिशेषु सर्वतःस्पृशत्सु सर्वदारिषु प्रकाशगूढवृत्तिषु स्वधर्ममेव पालय
MBh 12.309.56
अनेकपारिपन्थिके विरूपरौद्ररक्षिते स्वमेव कर्म रक्ष्यतां स्वकर्म तत्र गच्छति
MBh 12.309.57
न तत्र संविभज्यते स्वकर्मणा परस्परम् यथाकृतं स्वकर्मजं तदेव भुज्यते फलम्
MBh 12.309.58
यथाप्सरोगणाः फलं सुखं महर्षिभिः सह तथाप्नुवन्ति कर्मतो विमानकामगामिनः
MBh 12.309.59
यथेह यत्कृतं शुभं विपाप्मभिः कृतात्मभिः तदाप्नुवन्ति मानवास्तथा विशुद्धयोनयः
MBh 12.309.60
प्रजापतेः सलोकतां बृहस्पतेः शतक्रतोः व्रजन्ति ते परां गतिं गृहस्थधर्मसेतुभिः
MBh 12.309.61
सहस्रशोऽप्यनेकशः प्रवक्तुमुत्सहामहे अबुद्धिमोहनं पुनः प्रभुर्विना न यावकम्
MBh 12.309.62
गता द्विरष्टवर्षता ध्रुवोऽसि पञ्चविंशकः कुरुष्व धर्मसंचयं वयो हि तेऽतिवर्तते
MBh 12.309.63
पुरा करोति सोऽन्तकः प्रमादगोमुखं दमम् यथागृहीतमुत्थितं त्वरस्व धर्मपालने
MBh 12.309.64
यदा त्वमेव पृष्ठतस्त्वमग्रतो गमिष्यसि तथा गतिं गमिष्यतः किमात्मना परेण वा
MBh 12.309.65
यदेकपातिनां सतां भवत्यमुत्र गच्छताम् भयेषु सांपरायिकं निधत्स्व तं महानिधिम्
MBh 12.309.66
सकूलमूलबान्धवं प्रभुर्हरत्यसङ्गवान् न सन्ति यस्य वारकाः कुरुष्व धर्मसंनिधिम्
MBh 12.309.67
इदं निदर्शनं मया तवेह पुत्र संमतम् स्वदर्शनानुमानतः प्रवर्णितं कुरुष्व तत्
MBh 12.309.68
दधाति यः स्वकर्मणा धनानि यस्य कस्यचित् अबुद्धिमोहजैर्गुणैः शतैक एव युज्यते
MBh 12.309.69
श्रुतं समर्थमस्तु ते प्रकुर्वतः शुभाः क्रियाः तदेव तत्र दर्शनं कृतज्ञमर्थसंहितम्
MBh 12.309.70
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः
MBh 12.309.71
किं ते धनेन किं बन्धुभिस्ते; किं ते पुत्रैः पुत्रक यो मरिष्यसि आत्मानमन्विच्छ गुहां प्रविष्टं; पितामहास्ते क्व गताश्च सर्वे
MBh 12.309.72
श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् को हि तद्वेद कस्याद्य मृत्युसेना निवेक्ष्यते
MBh 12.309.73
अनुगम्य श्मशानान्तं निवर्तन्तीह बान्धवाः अग्नौ प्रक्षिप्य पुरुषं ज्ञातयः सुहृदस्तथा
MBh 12.309.74
नास्तिकान्निरनुक्रोशान्नरान्पापमतौ स्थितान् वामतः कुरु विश्रब्धं परं प्रेप्सुरतन्द्रितः
MBh 12.309.75
एवमभ्याहते लोके कालेनोपनिपीडिते सुमहद्धैर्यमालम्ब्य धर्मं सर्वात्मना कुरु
MBh 12.309.76
अथेमं दर्शनोपायं सम्यग्यो वेत्ति मानवः सम्यक्स धर्मं कृत्वेह परत्र सुखमेधते
MBh 12.309.77
न देहभेदे मरणं विजानतां; न च प्रणाशः स्वनुपालिते पथि धर्मं हि यो वर्धयते स पण्डितो; य एव धर्माच्च्यवते स मुह्यति
MBh 12.309.78
प्रयुक्तयोः कर्मपथि स्वकर्मणोः; फलं प्रयोक्ता लभते यथाविधि निहीनकर्मा निरयं प्रपद्यते; त्रिविष्टपं गच्छति धर्मपारगः
MBh 12.309.79
सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम् तथात्मानं समादध्याद्भ्रश्येत न पुनर्यथा
MBh 12.309.80
यस्य नोत्क्रामति मतिः स्वर्गमार्गानुसारिणी तमाहुः पुण्यकर्माणमशोच्यं मित्रबान्धवैः
MBh 12.309.81
यस्य नोपहता बुद्धिर्निश्चयेष्ववलम्बते स्वर्गे कृतावकाशस्य तस्य नास्ति महद्भयम्
MBh 12.309.82
तपोवनेषु ये जातास्तत्रैव निधनं गताः तेषामल्पतरो धर्मः कामभोगमजानताम्
MBh 12.309.83
यस्तु भोगान्परित्यज्य शरीरेण तपश्चरेत् न तेन किंचिन्न प्राप्तं तन्मे बहुमतं फलम्
MBh 12.309.84
मातापितृसहस्राणि पुत्रदारशतानि च अनागतान्यतीतानि कस्य ते कस्य वा वयम्
MBh 12.309.85
न तेषां भवता कार्यं न कार्यं तव तैरपि स्वकृतैस्तानि यातानि भवांश्चैव गमिष्यति
MBh 12.309.86
इह लोके हि धनिनः परोऽपि स्वजनायते स्वजनस्तु दरिद्राणां जीवतामेव नश्यति
MBh 12.309.87
संचिनोत्यशुभं कर्म कलत्रापेक्षया नरः ततः क्लेशमवाप्नोति परत्रेह तथैव च
MBh 12.309.88
पश्य त्वं छिद्रभूतं हि जीवलोकं स्वकर्मणा तत्कुरुष्व तथा पुत्र कृत्स्नं यत्समुदाहृतम्
MBh 12.309.89
तदेतत्संप्रदृश्यैव कर्मभूमिं प्रविश्य ताम् शुभान्याचरितव्यानि परलोकमभीप्सता
MBh 12.309.90
मासर्तुसंज्ञापरिवर्तकेन; सूर्याग्निना रात्रिदिवेन्धनेन स्वकर्मनिष्ठाफलसाक्षिकेण; भूतानि कालः पचति प्रसह्य
MBh 12.309.91
धनेन किं यन्न ददाति नाश्नुते; बलेन किं येन रिपून्न बाधते श्रुतेन किं येन न धर्ममाचरे;त्किमात्मना यो न जितेन्द्रियो वशी
MBh 12.309.92
इदं द्वैपायनवचो हितमुक्तं निशम्य तु शुको गतः परित्यज्य पितरं मोक्षदेशिकम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 92 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.309local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷