🪷 Mahābhārata · Śānti-Parva · Chapter 308

The Book of Peace · the great dharma-śāstra · Parva 12 · 191 shlokas in canonical Devanāgarī Sanskrit

Mahābhārata Detail Source-Anchor Spine

This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.

MBh 12.308local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

The Devanāgarī Yathārtha · 191 Shlokas

MBh 12.308.1
[य] अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम कः पराप्तॊ विनयं बुद्ध्या मॊक्षतत्त्वं वदस्व मे
MBh 12.308.2
संन्यस्यते यथात्मायं संन्यस्तात्मा यथा च यः परं मॊक्षस्य यच चापि तन मे बरूहि पितामह
MBh 12.308.3
[भी] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम जनकस्य च संवादं सुलभायाश च भारत
MBh 12.308.4
संन्यासफलिकः कश चिद बभूव नृपतिः पुरा मैथिलॊ जनकॊ नाम धर्मध्वज इति शरुतः
MBh 12.308.5
स वेदे मॊक्षशास्त्रे च सवे च शास्त्रे कृतागमः इन्द्रियाणि समाधाय शशास वसुधाम इमाम
MBh 12.308.6
तस्य वेदविदः पराज्ञाः शरुत्वा तां सादु वृत्तताम लॊकेषु सपृहयन्त्य अन्ये पुरुषाः पुरुषेश्वर
MBh 12.308.7
अथ धर्मयुगे तस्मिन यॊगधर्मम अनुष्ठिता महीम अनुचचारैका सुलभा नाम भिक्षुकी
MBh 12.308.8
तया जगद इदं संवम अतन्त्या मिथिलेश्वरः तत्र तत्र शरुतॊ मॊक्षे कथ्यमानस तरिदन्दिभिः
MBh 12.308.9
सा सुसूक्ष्मां कथां शरुत्वा तथ्यं नेति ससंशया दर्शने जातसंकल्पा जनकस्य बभूव ह
MBh 12.308.10
ततः सा विप्रहायाथ पूर्वरूपं हि यॊगतः अबिभ्रद अनवद्याङ्गी रूपम अन्यद अनुत्तमम
MBh 12.308.11
चक्षुर निमेष मात्रेण लघ्व अस्त्रगतिगामिनी विदेहानां पुरीं सुभ्रूर जगाम कमलेक्षणा
MBh 12.308.12
सा पराप्य मिथिलां रम्यां समृद्धजनसंकुलाम भैक्षचर्यापदेशेन ददर्श मिथिलेश्वरम
MBh 12.308.13
राजा तस्याः परं दृष्ट्वा सौकुमार्यं वपुस तथा केयं कस्य कुतॊ वेति बभूवागत विस्मयः
MBh 12.308.14
ततॊ ऽसयाः सवागतं कृत्वा वयादिश्य च वरासनम पूजितां पादशौचेन वरान्नेनाप्य अतर्पयत
MBh 12.308.15
अथ भुक्तवती परीता राजानं मन्त्रिभिर वृतम सर्वभाष्यविदां मध्ये चॊदयाम आस भिक्षुकी
MBh 12.308.16
सुलभा तव अस्य धर्मेषु मुक्तॊ नेति ससंशया सत्त्वं सत्त्वेन यॊगज्ञा परविवेश महीपते
MBh 12.308.17
नेत्राभ्यां नेत्रयॊर अस्य रश्मीन संयॊज्य रश्मिभिः सा सम संचॊदयिष्यन्तम्यॊग बन्धैर बबन्ध ह
MBh 12.308.18
जनकॊ ऽपय उत्स्मयन राजा भावम अस्या विशेषयन परतिजग्राह भावेन भावम अस्या नृपॊत्तमः
MBh 12.308.19
तद एकस्मिन्न अधिष्ठाने संवादः शरूयताम अयम छत्त्रादिषु विमुक्तस्य मुक्तायाश च तरिदण्डके
MBh 12.308.20
भगवत्याः कव चर्येयं कृता कव च गमिष्यसि कस्य च तवं कुतॊ वेति पप्रच्छैनां महीपतिः
MBh 12.308.21
शरुते वयसि जातौ च सद्भावॊ नाधिगम्यते एष्व अर्थेषूत्तरं तस्मात परवेद्यं तः समागमे
MBh 12.308.22
छत्त्रादिषु विशेषेषु मुक्तं मां विद्धि सर्वशः स तवां संमन्तुम इच्छामि माहार्हासि मता हि मे
MBh 12.308.23
यस्माच चैतन मया पराप्तं जञानं वैशेषिकं पुरा यस्य नान्यः परवक्तास्ति मॊक्षे तम अपि मे शृणु
MBh 12.308.24
पाराशर्यस गॊत्रस्य वृद्धस्य सुमहात्मनः भिक्षॊः पञ्चशिखस्याहं शिष्यः परमसंमतः
MBh 12.308.25
सांख्यज्ञाने तथा यॊगे महीपाल विधौ तथा तरिविधे मॊक्षधर्मे ऽसमिन गताध्वा छिन्नसंशयः
MBh 12.308.26
स यथाशास्त्रदृष्टेन मार्गेणेह परिव्रजन वार्षिकांश चतुरॊ मासान पुरा मयि सुखॊषितः
MBh 12.308.27
तेनाहं सांक्य मुख्येन सुदृष्टार्थेन तत्त्वतः शरावितस तरिविधं मॊक्षं न च राज्याद विचालिथ
MBh 12.308.28
सॊ ऽहं ताम अखिलां वृत्तिं तरिविधां मॊक्षसंहिताम मुक्तरागश चराम्य एकः पदे परमके सथितः
MBh 12.308.29
वैराग्यं पुनर एतस्य मॊक्षस्य परमॊ विधिः जञानाद एव च वैराग्यं जायते येन मुच्यते
MBh 12.308.30
जञानेन कुरुते यत्नं यत्नेन पराप्यते महत महद दवन्द्वप्रमॊक्षाय सा सिद्धिर या वयॊ ऽतिगा
MBh 12.308.31
सेयं परमिका बुद्धिः पराप्ता निर्द्वन्द्वता मया इहैव गतमॊहेन चरता मुक्तसङ्गिना
MBh 12.308.32
यथा कषेत्रं मृदू भूतम अद्भिर आप्लावितं तथा जनयत्य अङ्कुरं कर्म नृणां तद्वत पुनर्भवम
MBh 12.308.33
यथा चॊत्तापितं बीजं कपाले यत्र यत्र वा पराप्याप्य अङ्कुर हेतुत्वम अबीजत्वान न जायते
MBh 12.308.34
तद्वद भगवता तेन शिखा परॊक्तेन भिक्षुणा जञानं कृतम अबीजं मे विषयेषु न जायते
MBh 12.308.35
नाभिषज्जति कस्मिंश चिन नानर्थे न परिग्रहे नाभिरज्यति चैतेषु वयर्थत्वाद रागदॊषयॊः
MBh 12.308.36
यश च मे दक्षिणं बाहुं चन्दनेन समुक्षयेत सव्यं वास्या च यस तक्षेत समाव एताव उभौ मम
MBh 12.308.37
सुखी सॊ ऽहम अवाप्तार्थः समलॊक्षाश्म काञ्चनः मुक्तसङ्गः सथितॊ राज्ये विशिष्टॊ ऽनयैस तरिदन्दिभिः
MBh 12.308.38
मॊक्षे हि तरिविधा निष्ठा दृष्टा पूर्वैर महर्षिभिः जञानं लॊकॊत्तरं यच च सर्वत्यागश च कर्मणाम
MBh 12.308.39
जञाननिष्ठां वदन्त्य एके मॊक्षशास्त्रविदॊ जनाः कर्म निष्ठां तथैवान्ये यतयः सूक्ष्मदर्शिनः
MBh 12.308.40
परहायॊभयम अप्य एतज जञानं कर्म च केवलम तृतीयेयं समाख्याता निष्ठा तेन महात्मना
MBh 12.308.41
यमे च नियमे चैव दवेषे कामे परिग्रहे माने दम्भे तथा सनेहे सदृशास ते कुटुम्बिभिः
MBh 12.308.42
तरिदण्डादिषु यद्य अस्ति मॊक्षॊ जञानेन केन चित छत्त्रादिषु कथं न सयात तुल्यहेतौ परिग्रहे
MBh 12.308.43
येन येन हि यस्यार्थः कारणेनेह कस्य चित तत तद आलम्बते दरव्यं सर्वः सवे सवे परिग्रहे
MBh 12.308.44
दॊषदर्शी तु गार्हस्थ्ये यॊ वरजत्य आश्रमान्तरम उत्सृजन परिगृह्नंश च सॊ ऽपि सङ्गान न मुच्यते
MBh 12.308.45
आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मनि राजर्षिभिक्षुकाचार्या मुच्यन्ते केन केतुना
MBh 12.308.46
अथ सत्याधिपत्ये ऽपि जञानेनैवेह केवलम मुच्यन्ते किं न मुच्यन्ते पदे परमके सथितः
MBh 12.308.47
कासाय धारणं मौन्द्यं तरिविष्टब्धः कमन्दलुः लिङ्गान्य अत्यर्थम एतानि न मॊक्षायेति मे मतिः
MBh 12.308.48
यदि सत्य अपि लिङ्गे ऽसमिञ जञानम एवात्र कारणम निर्मॊक्षायेह दुःखस्य लिङ्गमात्रं निरर्थकम
MBh 12.308.49
अथ वा दुःखशैथिल्यं वीक्ष्य लिङ्गे कृता मतिः किं तद एवार्थसामान्य छत्त्रादिषु न लक्ष्यते
MBh 12.308.50
आकिंचन्ये च मॊक्षॊ ऽसति कैंचन्ये नास्ति बन्धनम कैंचन्ये चेतरे चैव जन्तुर जञानेन मुच्यते
MBh 12.308.51
तस्माद धर्मार्थकामेषु तथा राज्यपरिग्रहे बन्धनायतनेष्व एषु विद्ध्य अबन्धे पदे सथितम
MBh 12.308.52
राज्यैश्वर्यमयः पाशः सनेहायतन बन्धनः मॊक्षाश्म निशितेनेह छिन्नस तयागासिना मया
MBh 12.308.53
सॊ ऽहम एवंगतॊ मुक्तॊ जातास्थस तवयि भिक्षुकि अयथार्थॊ हि ते वर्णॊ वक्ष्यामि शृणु तन मम
MBh 12.308.54
सौकुमार्यं तथारूपं वपुर अग्र्यं तथा वयः तवैतानि समस्तानि नियमश चेति संशयः
MBh 12.308.55
यच चाप्य अननुरूपं ते लिङ्गस्यास्य विचेष्टितम मुक्तॊ ऽयं सयान न वेत्य अस्माद धर्षितॊ मत्परिग्रहः
MBh 12.308.56
न च कामसमायुक्ते मुक्ते ऽपय अस्ति तरिदण्डकम न रक्ष्यते तवया चेदं न मुक्तस्यास्ति गॊपना
MBh 12.308.57
मत पक्षसंश्रयाच चायं शृणु यस ते वयतिक्रमः आश्रयन्त्याः सवभावेन मम पूर्वपरिग्रहम
MBh 12.308.58
परवेशस ते कृतः केन मम रास्त्रे पुरे तथा कस्य वा संनिसर्गात तवं परविष्टा हृदयं मम
MBh 12.308.59
वर्णप्रवर मुख्यासि बराह्मणी कषत्रियॊ हय अहम नावयॊर एकयॊगॊ ऽसति मा कृथा वर्णसंकरम
MBh 12.308.60
वर्तसे मॊक्षधर्मेषु गार्हस्थ्ये तव अहम आश्रमे अयं चापि सुकस्तस ते दवितीयॊ ऽऽशरमसंकरः
MBh 12.308.61
सगॊत्रां वासगॊत्रां वा न वेद तवां न वेत्थ माम सगॊत्रम आविशन्त्यास ते तृतीयॊ गॊत्र संकरः
MBh 12.308.62
अथ जीवति ते भर्ता परॊषितॊ ऽपय अथ वा कव चित अगम्या परभार्येति चतुर्थॊ धर्मसंकरः
MBh 12.308.63
सा तवम एतान्य अकार्याणि कार्यापेक्षा वयवस्यसि अविज्ञानेन वा युक्ता मिथ्या जञानेन वा पुनः
MBh 12.308.64
अथ वापि सवतन्त्रास्ति सवदॊषेणेह केन चित यदि किं चिच छरुतं ते ऽसि सर्वं कृतम अनर्थकम
MBh 12.308.65
इदम अन्यत तृतीयं ते भावस्पर्श विघातकम दुष्टाया लक्ष्यते लिङ्गं परवक्तव्यं परकाशितम
MBh 12.308.66
न मय्य एवाभिसंधिस ते जयैषिण्या जये कृतः येयं मत्परिषत कृत्स्ना जेतुम इच्छसि ताम अपि
MBh 12.308.67
तथा हय एवं पुनश च तवं दृष्टिं सवां परतिमुञ्चसि मत पक्षप्रतिघाताय सवपक्षॊद्भावनाय च
MBh 12.308.68
सा सवेनामर्षजेन तवम ऋद्धिमॊहेन मॊहिता भूयः सृजसि यॊगास्त्रं विषामृतम इवैकधा
MBh 12.308.69
इच्छतॊर हि दवयॊर लाभः सत्रीपुंसॊर अमृतॊपमः अलाभश चाप्य अरक्तस्य सॊ ऽतर दॊषॊ विषॊपमः
MBh 12.308.70
मा सप्रक्षीः सधु जानीस्व सवशास्त्रम अनुपालय कृतेयं हि विजिज्ञासा मुक्तॊ नेति तवया मम एतत सर्वं परतिच्छन्नं मयि नार्हसि गूहितुम
MBh 12.308.71
सा यदि तवं सवकार्येण यद्य अन्यस्य महीपतेः तत्त्वं सत्त्र परतिच्छन्ना मयि नार्हसि गूहितुम
MBh 12.308.72
न राजानं मृषा गच्छेन न दविजातिं कथंचनन न सत्रियं सत्री गुणॊपेतां हन्युर हय एते मृषा गताः
MBh 12.308.73
राज्ञां हि बलम ऐश्वर्यं बरह्म बरह्मविदां बलम रूपयौवन सौभाग्यं सत्रीणां बलम अनुत्तमम
MBh 12.308.74
अत एतैर बलैर एत बलिनः सवार्थम इच्छता आर्जवेनाभिगन्तव्या विनाशाय हय अनार्जवम
MBh 12.308.75
सा तवं जातिं शरुतं वृत्तं भावं परकृतिम आत्मनः कृत्यम आगमने चैव वक्तुम अर्हसि तत्त्वतः
MBh 12.308.76
इत्य एतैर असुखैर वाक्यैर अयुक्तैर असमञ्जसैः परत्यादिष्टा नरेन्द्रेण सुलभा न वयकम्पत
MBh 12.308.77
उक्तवाक्ये तु नृपतौ सुलभा चारुदर्शना ततश चारुतरं वाक्यं परचक्रामाथ भासितुम
MBh 12.308.78
नवभिर नवभिश चैव दॊषैर वाग्बुद्धिदूसनैः अपेतम उपपन्नार्थम अस्ता दशगुणान्वितम
MBh 12.308.79
सौक्ष्म्यं संख्या करमौ चॊभौ निर्नयः सप्रयॊजनः पञ्चैतान्य अर्थजातानि वाक्यम इत्य उच्यते नृप
MBh 12.308.80
एषाम एकैकशॊ ऽरथानां सौक्ष्म्यादीनां सुलक्षणम शृणु संसार्यमाणानां पदार्थैः पदवाक्यतः
MBh 12.308.81
जञानं जञेयेषु भिन्नेषु यथा भेदेन वर्तते तत्रातिशयिनी बुद्धिस तत सौक्ष्म्यम इति वर्तते
MBh 12.308.82
दॊषाणां च गुणानां च परमाणं परैविभागशः कं चिद अर्थम अभिप्रेत्य सा संख्येत्य उपधार्यताम
MBh 12.308.83
इदं पूर्वम इदं पश्चाद वक्तव्यं यद विवक्षितम करमयॊगं तम अप्य आहुर वाक्यं वाक्यविदॊ जनाः
MBh 12.308.84
धर्मार्थकाममॊक्षेषु परतिज्ञाय विशेषतः इदं तद इति वाक्यान्ते परॊच्यते स विनिर्नयः
MBh 12.308.85
इच्छा दवेषभवैर दुःखैः परकर्षॊ यत्र जायते तत्र या नृपते वृत्तिस तत परयॊजनम इष्यते
MBh 12.308.86
तान्य एतानि यथॊक्तानि सैक्ष्म्यादीनि जनाधिप एकार्थसमवेतानि वाक्यं मम निशामय
MBh 12.308.87
उपेतार्थम अभिन्नार्थं नापवृत्तं न चाधिकम नाश्लक्ष्णं न च संदिग्धं वक्ष्यामि परमं तव
MBh 12.308.88
न गुर्व अक्षरसंबद्धं पराङ्मुख मुखं न च नानृतं न तरिवर्गेण विरुद्धं नाप्य असंक्षृतम
MBh 12.308.89
न नयूनं कस्त शब्दं वा वयुत्क्रमाभिहितं न च न शेषं नानुकल्पेन निष्कारणम अहेतुकम
MBh 12.308.90
कामात करॊधाद भयाल लॊभाद दैन्याद आनार्यकात तथा हरीतॊ ऽनुक्रॊशतॊ मानान न वक्ष्यामि कथं चन
MBh 12.308.91
वक्ता शरॊता च वाक्यं च यदा तवाविकलं नृप समम एति विवक्षायां तदा सॊ ऽरथः परकाशते
MBh 12.308.92
वक्तव्ये तु यदा वक्ता शरॊतारम अवमन्यते सवार्थम आह परार्थं वा तदा वाक्यं न रॊहति
MBh 12.308.93
अथ यः सवार्थम उत्सृज्य परार्थं पराह मानवः विशङ्का जायते तस्मिन वाक्यं तद अपि दॊषवत
MBh 12.308.94
यस तु वक्ता दवयॊर अर्थम अविरुद्धं परभासते शरॊतुश चैवात्मनश चैव स वक्ता नेतरॊ नृप
MBh 12.308.95
तदर्थवद इदं वाक्यम उपेतं वाक्यसंपदा अविक्षिप्त मना राजन्न एकाग्रः शरॊतुम अर्हसि
MBh 12.308.96
कासि कस्य कुतॊ वेति तवयाहम अभिचॊदिता तत्रॊत्तरम इदं वाक्यं राजन्न एकमनाः शृणु
MBh 12.308.97
यथा जतु च काष्ठं च पांसवश चॊद बिन्दुभिः सुश्लिष्टानि तथा राजन परानिनाम इह संभवः
MBh 12.308.98
शब्दः सपर्शॊ रसॊ रूपं गन्धः पञ्चेन्द्रियाणि च पृथग आत्मा दशात्मानः संश्लिष्टा जतु काष्ठवत
MBh 12.308.99
न चैषां चॊदना का चिद अस्तीत्य एष विनिश्चयः एकैकस्येह विज्ञानं नास्त्य आत्मनि तथा परे
MBh 12.308.100
न वेद चक्षुश चक्षुस तवं शरॊत्रं नात्मनि वर्तते तथैव वयभिचारेण न वर्तन्ते परस्परम संश्लिष्टा नाभिजायन्ते यथाप इह पांसवः
MBh 12.308.101
बाह्यान अन्यान अपेक्षन्ते गुणांस तान अपि मे शृणु रूपं चक्षुः परकाशश च दर्शने हेतवस तरयः यथैवात्र तथान्येषु जञानज्ञेयेषु हेतवः
MBh 12.308.102
जञानज्ञेयान्तरे तस्मिन मनॊ नामापरॊ गुणः विचारयति येनायं निश्चये साध्वसाधुनी
MBh 12.308.103
दवादशस तव अपरस तत्र बुद्धिर नाम गुणः समृतः येन संशय पूर्वेषु बॊद्धव्येषु वयवस्यति
MBh 12.308.104
अथ दवादशके तस्मिन सत्त्वं नामापरॊ गुणः महासत्त्वॊ ऽलपसत्त्वॊ वा जन्तुर येनानुमीयते
MBh 12.308.105
कषेत्रज्ञ इति चाप्य अन्यॊ गुणस तत्र चतुर्दशः ममायम इति येनायं मन्यते न च मन्यते
MBh 12.308.106
अथ पञ्चदशॊ राजन गुणस तत्रापरः समृतः पृथक कला समूहस्य सामग्र्यं तद इहॊच्यते
MBh 12.308.107
गुणस तव एवापरस तत्र संघात इति सॊदशः आकृतिर वयक्तिर इत्य एतौ गुणौ यस्मिन समाश्रितौ
MBh 12.308.108
सुखदुःखे जरामृत्यू लाभालाभौ परियाप्रिये इति चैकॊनविंशॊ ऽयं दवन्द्वयॊग इति समृतः
MBh 12.308.109
ऊर्ध्वम एकॊनविंशत्याः कालॊ नामापरॊ गुणः इतीमं विद्धि विंशत्या भूतानां परभवाप्ययम
MBh 12.308.110
विश्मकश चैष संघातॊ महाभूतानि पञ्च च सदसद भावयॊगौ च गुणाव अन्यौ परकाशकौ
MBh 12.308.111
इत्य एवं विंशतिश चैव गुणाः सप्त च ये समृताः विधिः शुक्रं बलं चेति तरय एते गुणाः परे
MBh 12.308.112
एकविंशश च दश च कलाः संख्यानतः समृताः समग्रा यत्र वर्तन्ते तच छरीरम इति समृतम
MBh 12.308.113
अव्यक्तं परकृतिं तव आसां कलानां कश चिद इच्छति वयक्तं चासां तथैवान्यः सथूलदर्शी परपश्यति
MBh 12.308.114
अव्यक्तं यदि वा वयक्तं दवयीम अथ चतुष्टयीम परकृतिं सर्वभूतानां पश्यन्त्य अध्यात्मचिन्तकाः
MBh 12.308.115
सेयं परकृतिर अव्यक्ता कलाभिर वयक्ततां गता अहं च तवं च राजेन्द्र ये चाप्य अन्ये शरीरिणः
MBh 12.308.116
बिन्दुन्यासादयॊ ऽवस्थाः शुक्रशॊनित संभवाः यासाम एव निपातेन कललं नाम जायते
MBh 12.308.117
कललाद अर्बुदॊत्पत्तिः पेशी चाप्य अर्बुदॊद्भवा पेश्यास तव अङ्गाभिनिर्वृत्तिर नखरॊमाणि चाङ्गतः
MBh 12.308.118
संपूर्णे नवमे मासे जन्तॊर जातस्य मैथिल जायते नाम रूपत्वं सत्री पुमान वेति लिङ्गतः
MBh 12.308.119
जातमात्रं तु तद रूपं दृष्ट्वा ताम्रनखाङ्गुलि कौमार रूपम आपन्नं रूपतॊ न पलभ्यते
MBh 12.308.120
कौमाराद यौवनं चापि सथाविर्यं चापि यौवनात अनेन करमयॊगेन पूर्वं पूर्वं न लभ्यते
MBh 12.308.121
कलानां पृथग अर्थानां परतिभेदः कषणे कषणे वर्तते सर्वभूतेषु सौक्ष्म्यात तु न विभाव्यते
MBh 12.308.122
न चैषाम अप्ययॊ राजँल लक्ष्यते परभवॊ न च अवस्थायाम अवस्थायां दीपस्येवार्चिषॊ गतिः
MBh 12.308.123
तस्याप्य एवं परभावस्य सदश्वस्येव धावतः अजस्रं सर्वलॊकस्य कः कुतॊ वा न वा कुतः
MBh 12.308.124
कस्येदं कस्य वा नेदं कुतॊ वेदं न वा कुतः संबन्धः कॊ ऽसति भूतानां सवैर अप्य अवयवैर इह
MBh 12.308.125
यथादित्यान मणेश चैव वीरुद्भ्यश चैव पावकः भवेत्य एवं समुदयात कलानाम अपि जन्तवः
MBh 12.308.126
आत्मन्य एवात्मनात्मानं यथा तवम अनुपश्यसि एवम एवात्मनात्मानम अन्यस्मिन किं न पश्यसि यद्य आत्मनि परस्मिंश च समताम अध्यवस्यसि
MBh 12.308.127
अथ मां कासि कस्येति किमर्थम अनुपृच्छसि इदं मे सयाद इदं नेति दवन्द्वैर मुक्तस्य मैथिल कासि कस्य कुतॊ वेति वचने किं परयॊजनम
MBh 12.308.128
रिपौ मित्रे ऽथ मध्यस्थे विजये संधिविग्रहे कृतवान यॊ महीपाल किं तस्मिन मुक्तलक्षणम
MBh 12.308.129
तरिवर्गे सप्तधा वयक्तं यॊ न वेदेह कर्मसु सङ्गवान यस तरिवर्गे च किं तस्मिन मुक्तलक्षणम
MBh 12.308.130
परिये चैवाप्रिये चैव दुर्बले बलवत्य अपि यस्य नास्ति समं चक्षुः किं तस्मिन मुक्तलक्षणम
MBh 12.308.131
तद अमुक्तस्य ते मॊक्षे यॊ ऽभिमानॊ भवेन नृप सुहृद्भिः स निवार्यस ते विचित्तस्येव भेषजैः
MBh 12.308.132
तानि तान्य अनुसंदृश्य सङ्गस्थानान्य अरिंदम आत्मनात्मनि संपश्येत किं तस्मिन मुक्तलक्षणम
MBh 12.308.133
इमान्य अन्यानि सूक्ष्माणि मॊक्षम आश्रित्य कानि चित चतुरङ्ग परवृत्तानि सङ्गस्थानानि मे शृणु
MBh 12.308.134
य इमां पृथिवीं कृत्स्नाम एकछत्त्रां परशास्ति ह एकम एव स वै राजा पुरम अध्यावसत्य उत
MBh 12.308.135
तत पुरे चैकम एवास्य गृहं यद अधितिष्ठति गृहे शयनम अप्य एकं निशायां यत्र लीयते
MBh 12.308.136
शय्यार्धं तस्य चाप्य अत्र सत्रीपूर्वम अधितिष्ठति तद अनेन परसङ्गेन फलेनैवेह युज्यते
MBh 12.308.137
एवम एवॊपभॊगेषु भॊजनाच छादनेषु च गुणेषु परिमेयेषु निग्रहानुग्रहौ परति
MBh 12.308.138
परतन्त्रः सदा राजा सवल्पे सॊ ऽपि परसज्यते संधिविग्रहयॊगे च कुतॊ राज्ञः सवतन्त्रता
MBh 12.308.139
सत्रीषु करीदा विहारेषु नित्यम अस्यास्वतन्त्रता मन्त्रे चामात्य समितौ कुत एव सवतन्त्रता
MBh 12.308.140
यदा तव आज्ञापयत्य अन्यांस तदास्यॊक्ता सवतन्त्रता अवशः कार्यते तत्र तस्मिंस तस्मिन गुणे सथितः
MBh 12.308.141
सवप्तु कामॊ न लभते सवप्तुं कार्यार्थिभिर जनैः शयने चाप्य अनुज्ञातः सुप्त उत्थाप्यते ऽवशः
MBh 12.308.142
सनाह्य आलभ पिब पराश जुहुध्य अग्नीन यजेति च वदस्य शृणु चापीति विवशः कार्यते परैः
MBh 12.308.143
अभिगम्याभिगम्यैनं याचन्ते सततं नराः न चाप्य उत्सहते दातुं वित्तरक्षी महाजनात
MBh 12.308.144
दाने कॊशक्षयॊ हय अस्य वैरं चाप्य अरयच्छतः कषणेनास्यॊपवर्तन्ते दॊषा वैराग्य कारकाः
MBh 12.308.145
पराज्ञाञ शूरांस तथैवाध्यान एकस्थाने ऽपि शङ्कते भयम अप्य अभये राज्ञॊ यैश च नित्यम उपास्यते
MBh 12.308.146
यदा चैते परदुष्यन्ति राजन ये कीर्तिता मया तदैवास्य भयं तेभ्यॊ जायते पश्य यादृशम
MBh 12.308.147
सर्वः सवे सवे गृहे राजा सर्वः सवे सवे गृहे गृही निग्रहानुग्रहौ कुर्वंस तुल्यॊ जनकराजभिः
MBh 12.308.148
पुत्रा दारास तथैवात्मा कॊशॊ मित्राणि संचयः परैः साधारणा हय एते तैस तैर एवास्य हेतुभिः
MBh 12.308.149
हतॊ देशः पुरं दग्धं परधानः कुञ्जरॊ मृतः लॊकसाधारणेष्व एषु मिथ्या जञानेन तप्यते
MBh 12.308.150
अमुक्तॊ मानसैर दुःखैर इछा दवेषप्रियॊद्भवैः शिरॊ रॊगादिभी रॊगैस तथैव विनिपातिभिः
MBh 12.308.151
दवन्द्वैस तैस तैर उपहतः सर्वतः परिशङ्कितः बहु परत्यर्थिकं राज्यम उपास्ते गणयन निशाः
MBh 12.308.152
तद अल्पसुखम अत्यर्थं बहुदुःखम असारवत कॊ राज्यम अभिपद्येत पराप्य चॊपशमं लभेत
MBh 12.308.153
ममेदम इति यच चेदं पुरं रास्त्रं च मन्यसे बलं कॊशम अमात्यांश च कस्यैतानि न वा नृप
MBh 12.308.154
मित्रामात्यं पुरं रास्त्रं दन्दः कॊशॊ महीपतिः सप्ताङ्गश चक्रसंघातॊ राज्यम इत्य उच्यते नृप
MBh 12.308.155
सप्ताङ्गस्यास्य राज्यस्य तरिदण्डस्येव तिष्ठतः अन्यॊन्यगुणयुक्तस्य कः केन गुणतॊ ऽधिकः
MBh 12.308.156
तेषु तेषु हि कालेषु तत तद अङ्गं विशिष्यते येन यत सिध्यते कार्यं तत पराधान्याय कल्पते
MBh 12.308.157
सप्ताङ्गश चापि संघातस तरयश चान्ये नृपॊत्तम संभूय दशवर्गॊ ऽयं भुङ्क्ते राज्यं हि राजवत
MBh 12.308.158
यश च राजा महॊत्साहः कषत्रधर्मरतॊ भवेत स तुष्येद दश भागेन ततस तव अन्यॊ दशावरैः
MBh 12.308.159
नास्त्य असाधारणॊ राजा नास्ति राज्यम अराजकम राज्ये ऽसति कुतॊ धर्मॊ धर्मे ऽसति कुतः परम
MBh 12.308.160
यॊ ऽपय अत्र परमॊ धर्मः पवित्रं राजराज्ययॊः पृथिवी दक्षिणा यस्य सॊ ऽशवमेधॊ न विद्यते
MBh 12.308.161
साहम एतानि कर्माणि राज्यदुःखानि मैथिल समर्था शतशॊ वक्तुम अथ वापि सहस्रशः
MBh 12.308.162
सवदेहे नाभिषङ्गॊ मे कुतः परपरिग्रहे न माम एवंविधां मुक्ताम ईदृशं वक्तुम अर्हसि
MBh 12.308.163
ननु नाम तवया मॊक्षः कृत्स्नः पञ्च शिखाच छरुतः सॊपायः सॊपनिषदः सॊपासङ्गः सनिश्चयः
MBh 12.308.164
तस्य ते मुक्तसङ्गस्य पाशान आक्रम्य तिष्ठतः छत्त्रादिषु विशेषेषु कथं सङ्गः पुनर नृप
MBh 12.308.165
शरुतं ते न शरुतं मन्ये मिथ्या वापि शरुतं शरुतम अथ वा शरुतसंकाशं शरुतम अन्यच छरुतं तवया
MBh 12.308.166
अथापीमासु संज्ञासु लौकिकीषु परतिष्ठसि अभिषङ्गावरॊधाभ्यां बद्धस तवं पराकृतॊ मया
MBh 12.308.167
सत्त्वेनानुप्रवेशॊ हि यॊ ऽयं तवयि कृतॊ मया किं तवापकृतं तत्र यदि मुक्तॊ ऽसि सर्वतः
MBh 12.308.168
नियमॊ हय एष धर्मेषु यतीनां शून्यवासिता शून्यम आवासयन्त्या च मया किं कस्य दूसितम
MBh 12.308.169
न पानिभ्यां न बाहुभ्यां पादॊरुभ्यां न चानघ न गात्रावयवैर अन्यैः सपृशामि तवा नराधिप
MBh 12.308.170
कुले महति जातेन हरीमता दीर्घदर्शिना नैतत सदसि वक्तव्यं सद वासद वा मिथः कृतम
MBh 12.308.171
बराह्मणा गुरवश चेमे तथामात्या गुरूत्तमाः तवं चाथ गुरुर अप्य एषाम एवम अन्यॊन्यगौरवम
MBh 12.308.172
तद एवम अनुसंदृश्य वाच्यावाच्यं परीक्षता सत्रीपुंसॊ समवायॊ ऽयं तवया वाच्यॊ न संसदि
MBh 12.308.173
यथा पुष्कर पर्णस्थं जलं तत्पर्णसंस्थितम तिष्ठत्य अस्पृशती तद्वत्त्वयि वत्स्यामि मैथिल
MBh 12.308.174
यदि वाप्य अस्पृशन्त्या मे सपर्शं जानासि कं चन जञानं कृतम अबीजं ते कथं तेनेह भिक्षुणा
MBh 12.308.175
स गार्हस्थ्याच चयुतश च तवं मॊक्षं नावाप्य दुर्विदम उभयॊर अन्तराले च वर्तसे मॊक्षवातिकः
MBh 12.308.176
न हि मुक्तस्य मुक्तेन जञस्यैकत्व पृथक्त्वयॊः भावाभाव समायॊगे जायते वर्णसंकरः
MBh 12.308.177
वर्णाश्रमपृथक्त्वे च दृष्टार्थस्यापृथक्त्विनः नान्यद अन्यद इति जञात्वा नान्यद अन्यत परवर्तते
MBh 12.308.178
पानौ कुन्दं तथा कुन्दे पयः पयसि मक्षिकाः आश्रिताश्रय यॊगेन पृथक्त्वेनाश्रया वयम
MBh 12.308.179
न तु कुन्दे पयॊ भावः पयश चापि न मक्षिकाः सवयम एवाश्रयन्त्य एते भावा न तु पराश्रयम
MBh 12.308.180
पृथक्त्वाद आश्रमाणां च वर्णान्यत्वे तथैव च परस्परपृथक्त्वाच च कथं ते वर्णसंकरः
MBh 12.308.181
नास्मि वर्णॊत्तमा जात्या न वैश्या नावरा तथा तव राजन सवर्णास्मि शुद्धयॊनिर अविप्लुता
MBh 12.308.182
परधानॊ नाम राजर्षिर वयक्तं ते शरॊत्रम आगतः कुले तस्य समुत्पन्नां सुलभां नाम विद्धि माम
MBh 12.308.183
दरॊणश च शतशृङ्गश च वक्रद्वारश च पर्वतः मम सत्त्रेषु पूर्वेषां चिता मघवता सह
MBh 12.308.184
साहं तस्मिन कुले जाता भर्तर्य असति मद्विधे विनीता मॊक्षधर्मेषु चराम्य एका मुनिव्रतम
MBh 12.308.185
नास्मि सत्त्र परतिच्छन्ना न परस्वाभिमानिनी न धर्मसंकरकरी सवधर्मे ऽसमि धृतव्रता
MBh 12.308.186
नास्थिरा सवप्रतिज्ञायां नासमीक्ष्य परवादिनी नासमीक्ष्यागता चाहं तवत्सकाशं जनाधिप
MBh 12.308.187
मॊक्षे ते भवितां बुद्धिं शरुत्वाहं कुशलैषिणी तव मॊक्षस्य चाप्य अस्य जिज्ञासार्थम इहागता
MBh 12.308.188
न वर्गस्था बरवीम्य एतत सवपक्ष परपक्षयॊः मुक्तॊ न मुच्यते यश च शान्तॊ यश च न शाम्यति
MBh 12.308.189
यथा शून्ये पुरागारे भिक्षुर एकां निशां वसेत तथा हि तवच छरीरे ऽसमिन्न इमां वत्स्यामि शर्वतीम
MBh 12.308.190
साहम आसनदानेन वाग आतिथ्येन चार्चिता सुप्ता सुशरणा परीता शवॊ गमिष्यामिमैथिल
MBh 12.308.191
इत्य एतानि स वाक्यानि हेतुमन्त्य अर्थवन्ति च शरुत्वा नाधिजगौ राजा किं चिद अन्यद अतः परम

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷