🪷 Mahābhārata · Śānti-Parva · Chapter 299

The Book of Peace · the great dharma-śāstra · Parva 12 · 18 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 18 Shlokas

MBh 12.299.1
याज्ञवल्क्य उवाच अव्यक्तस्य नरश्रेष्ठ कालसंख्यां निबोध मे पञ्च कल्पसहस्राणि द्विगुणान्यहरुच्यते
MBh 12.299.2
रात्रिरेतावती चास्य प्रतिबुद्धो नराधिप सृजत्योषधिमेवाग्रे जीवनं सर्वदेहिनाम्
MBh 12.299.3
ततो ब्रह्माणमसृजद्धैरण्याण्डसमुद्भवम् सा मूर्तिः सर्वभूतानामित्येवमनुशुश्रुम
MBh 12.299.4
संवत्सरमुषित्वाण्डे निष्क्रम्य च महामुनिः संदधेऽर्धं महीं कृत्स्नां दिवमर्धं प्रजापतिः
MBh 12.299.5
द्यावापृथिव्योरित्येष राजन्वेदेषु पठ्यते तयोः शकलयोर्मध्यमाकाशमकरोत्प्रभुः
MBh 12.299.6
एतस्यापि च संख्यानं वेदवेदाङ्गपारगैः दश कल्पसहस्राणि पादोनान्यहरुच्यते रात्रिमेतावतीं चास्य प्राहुरध्यात्मचिन्तकाः
MBh 12.299.7
सृजत्यहंकारमृषिर्भूतं दिव्यात्मकं तथा चतुरश्चापरान्पुत्रान्देहात्पूर्वं महानृषिः ते वै पितृभ्यः पितरः श्रूयन्ते राजसत्तम
MBh 12.299.8
देवाः पितॄणां च सुता देवैर्लोकाः समावृताः चराचरा नरश्रेष्ठ इत्येवमनुशुश्रुम
MBh 12.299.9
परमेष्ठी त्वहंकारोऽसृजद्भूतानि पञ्चधा पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
MBh 12.299.10
एतस्यापि निशामाहुस्तृतीयमिह कुर्वतः पञ्च कल्पसहस्राणि तावदेवाहरुच्यते
MBh 12.299.11
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु यैराविष्टानि भूतानि अहन्यहनि पार्थिव
MBh 12.299.12
अन्योन्यं स्पृहयन्त्येते अन्योन्यस्य हिते रताः अन्योन्यमभिमन्यन्ते अन्योन्यस्पर्धिनस्तथा
MBh 12.299.13
ते वध्यमाना अन्योन्यं गुणैर्हारिभिरव्ययाः इहैव परिवर्तन्ते तिर्यग्योनिप्रवेशिनः
MBh 12.299.14
त्रीणि कल्पसहस्राणि एतेषामहरुच्यते रात्रिरेतावती चैव मनसश्च नराधिप
MBh 12.299.15
मनश्चरति राजेन्द्र चरितं सर्वमिन्द्रियैः न चेन्द्रियाणि पश्यन्ति मन एवात्र पश्यति
MBh 12.299.16
चक्षुः पश्यति रूपाणि मनसा तु न चक्षुषा मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति तथेन्द्रियाणि सर्वाणि पश्यन्तीत्यभिचक्षते
MBh 12.299.17
मनस्युपरते राजन्निन्द्रियोपरमो भवेत् न चेन्द्रियव्युपरमे मनस्युपरमो भवेत् एवं मनःप्रधानानि इन्द्रियाणि विभावयेत्
MBh 12.299.18
इन्द्रियाणां हि सर्वेषामीश्वरं मन उच्यते एतद्विशन्ति भूतानि सर्वाणीह महायशाः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 18 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.299local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷