🪷 Mahābhārata · Śānti-Parva · Chapter 288
The Book of Peace · the great dharma-śāstra · Parva 12 · 45 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 45 Shlokas
MBh 12.288.1
युधिष्ठिर उवाच
सत्यं क्षमां दमं प्रज्ञां प्रशंसन्ति पितामह
विद्वांसो मनुजा लोके कथमेतन्मतं तव
MBh 12.288.2
भीष्म उवाच
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम्
साध्यानामिह संवादं हंसस्य च युधिष्ठिर
MBh 12.288.3
हंसो भूत्वाथ सौवर्णस्त्वजो नित्यः प्रजापतिः
स वै पर्येति लोकांस्त्रीनथ साध्यानुपागमत्
MBh 12.288.4
साध्या ऊचुः
शकुने वयं स्म देवा वै साध्यास्त्वामनुयुज्महे
पृच्छामस्त्वां मोक्षधर्मं भवांश्च किल मोक्षवित्
MBh 12.288.5
श्रुतोऽसि नः पण्डितो धीरवादी; साधुशब्दः पतते ते पतत्रिन्
किं मन्यसे श्रेष्ठतमं द्विज त्वं; कस्मिन्मनस्ते रमते महात्मन्
MBh 12.288.6
तन्नः कार्यं पक्षिवर प्रशाधि; यत्कार्याणां मन्यसे श्रेष्ठमेकम्
यत्कृत्वा वै पुरुषः सर्वबन्धै;र्विमुच्यते विहगेन्द्रेह शीघ्रम्
MBh 12.288.7
हंस उवाच
इदं कार्यममृताशाः शृणोमि; तपो दमः सत्यमात्माभिगुप्तिः
ग्रन्थीन्विमुच्य हृदयस्य सर्वा;न्प्रियाप्रिये स्वं वशमानयीत
MBh 12.288.8
नारुंतुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत
ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम्
MBh 12.288.9
वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि
परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु
MBh 12.288.10
परश्चेदेनमतिवादबाणै;र्भृशं विध्येच्छम एवेह कार्यः
संरोष्यमाणः प्रतिमृष्यते यः; स आदत्ते सुकृतं वै परस्य
MBh 12.288.11
क्षेपाभिमानादभिषङ्गव्यलीकं; निगृह्णाति ज्वलितं यश्च मन्युम्
अदुष्टचेता मुदितोऽनसूयुः; स आदत्ते सुकृतं वै परेषाम्
MBh 12.288.12
आक्रुश्यमानो न वदामि किंचि;त्क्षमाम्यहं ताड्यमानश्च नित्यम्
श्रेष्ठं ह्येतत्क्षममप्याहुरार्याः; सत्यं तथैवार्जवमानृशंस्यम्
MBh 12.288.13
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः
दमस्योपनिषन्मोक्ष एतत्सर्वानुशासनम्
MBh 12.288.14
वाचो वेगं मनसः क्रोधवेगं; विवित्सावेगमुदरोपस्थवेगम्
एतान्वेगान्यो विषहत्युदीर्णां;स्तं मन्येऽहं ब्राह्मणं वै मुनिं च
MBh 12.288.15
अक्रोधनः क्रुध्यतां वै विशिष्ट;स्तथा तितिक्षुरतितिक्षोर्विशिष्टः
अमानुषान्मानुषो वै विशिष्ट;स्तथाज्ञानाज्ज्ञानवान्वै प्रधानः
MBh 12.288.16
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति
MBh 12.288.17
यो नात्युक्तः प्राह रूक्षं प्रियं वा; यो वा हतो न प्रतिहन्ति धैर्यात्
पापं च यो नेच्छति तस्य हन्तु;स्तस्मै देवाः स्पृहयन्ते सदैव
MBh 12.288.18
पापीयसः क्षमेतैव श्रेयसः सदृशस्य च
विमानितो हतोऽऽक्रुष्ट एवं सिद्धिं गमिष्यति
MBh 12.288.19
सदाहमार्यान्निभृतोऽप्युपासे; न मे विवित्सा न च मेऽस्ति रोषः
न चाप्यहं लिप्समानः परैमि; न चैव किंचिद्विषमेण यामि
MBh 12.288.20
नाहं शप्तः प्रतिशपामि किंचि;द्दमं द्वारं ह्यमृतस्येह वेद्मि
गुह्यं ब्रह्म तदिदं वो ब्रवीमि; न मानुषाच्छ्रेष्ठतरं हि किंचित्
MBh 12.288.21
विमुच्यमानः पापेभ्यो घनेभ्य इव चन्द्रमाः
विरजाः कालमाकाङ्क्षन्धीरो धैर्येण सिध्यति
MBh 12.288.22
यः सर्वेषां भवति ह्यर्चनीय; उत्सेचने स्तम्भ इवाभिजातः
यस्मै वाचं सुप्रशस्तां वदन्ति; स वै देवान्गच्छति संयतात्मा
MBh 12.288.23
न तथा वक्तुमिच्छन्ति कल्याणान्पुरुषे गुणान्
यथैषां वक्तुमिच्छन्ति नैर्गुण्यमनुयुञ्जकाः
MBh 12.288.24
यस्य वाङ्मनसी गुप्ते सम्यक्प्रणिहिते सदा
वेदास्तपश्च त्यागश्च स इदं सर्वमाप्नुयात्
MBh 12.288.25
आक्रोशनावमानाभ्यामबुधाद्वर्धते बुधः
तस्मान्न वर्धयेदन्यं न चात्मानं विहिंसयेत्
MBh 12.288.26
अमृतस्येव संतृप्येदवमानस्य वै द्विजः
सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति
MBh 12.288.27
यत्क्रोधनो यजते यद्ददाति; यद्वा तपस्तप्यति यज्जुहोति
वैवस्वतस्तद्धरतेऽस्य सर्वं; मोघः श्रमो भवति क्रोधनस्य
MBh 12.288.28
चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमाः
उपस्थमुदरं हस्तौ वाक्चतुर्थी स धर्मवित्
MBh 12.288.29
सत्यं दमं ह्यार्जवमानृशंस्यं; धृतिं तितिक्षामभिसेवमानः
स्वाध्यायनित्योऽस्पृहयन्परेषा;मेकान्तशील्यूर्ध्वगतिर्भवेत्सः
MBh 12.288.30
सर्वानेताननुचरन्वत्सवच्चतुरः स्तनान्
न पावनतमं किंचित्सत्यादध्यगमं क्वचित्
MBh 12.288.31
आचक्षेऽहं मनुष्येभ्यो देवेभ्यः प्रतिसंचरन्
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव
MBh 12.288.32
यादृशैः संनिवसति यादृशांश्चोपसेवते
यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः
MBh 12.288.33
यदि सन्तं सेवते यद्यसन्तं; तपस्विनं यदि वा स्तेनमेव
वासो यथा रङ्गवशं प्रयाति; तथा स तेषां वशमभ्युपैति
MBh 12.288.34
सदा देवाः साधुभिः संवदन्ते; न मानुषं विषयं यान्ति द्रष्टुम्
नेन्दुः समः स्यादसमो हि वायु;रुच्चावचं विषयं यः स वेद
MBh 12.288.35
अदुष्टं वर्तमाने तु हृदयान्तरपूरुषे
तेनैव देवाः प्रीयन्ते सतां मार्गस्थितेन वै
MBh 12.288.36
शिश्नोदरे येऽभिरताः सदैव; स्तेना नरा वाक्परुषाश्च नित्यम्
अपेतदोषानिति तान्विदित्वा; दूराद्देवाः संपरिवर्जयन्ति
MBh 12.288.37
न वै देवा हीनसत्त्वेन तोष्याः; सर्वाशिना दुष्कृतकर्मणा वा
सत्यव्रता ये तु नराः कृतज्ञा; धर्मे रतास्तैः सह संभजन्ते
MBh 12.288.38
अव्याहृतं व्याहृताच्छ्रेय आहुः; सत्यं वदेद्व्याहृतं तद्द्वितीयम्
धर्मं वदेद्व्याहृतं तत्तृतीयं; प्रियं वदेद्व्याहृतं तच्चतुर्थम्
MBh 12.288.39
साध्या ऊचुः
केनायमावृतो लोकः केन वा न प्रकाशते
केन त्यजति मित्राणि केन स्वर्गं न गच्छति
MBh 12.288.40
हंस उवाच
अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते
लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति
MBh 12.288.41
साध्या ऊचुः
कः स्विदेको रमते ब्राह्मणानां; कः स्विदेको बहुभिर्जोषमास्ते
कः स्विदेको बलवान्दुर्बलोऽपि; कः स्विदेषां कलहं नान्ववैति
MBh 12.288.42
हंस उवाच
प्राज्ञ एको रमते ब्राह्मणानां; प्राज्ञ एको बहुभिर्जोषमास्ते
प्राज्ञ एको बलवान्दुर्बलोऽपि; प्राज्ञ एषां कलहं नान्ववैति
MBh 12.288.43
साध्या ऊचुः
किं ब्राह्मणानां देवत्वं किं च साधुत्वमुच्यते
असाधुत्वं च किं तेषां किमेषां मानुषं मतम्
MBh 12.288.44
हंस उवाच
स्वाध्याय एषां देवत्वं व्रतं साधुत्वमुच्यते
असाधुत्वं परीवादो मृत्युर्मानुषमुच्यते
MBh 12.288.45
भीष्म उवाच
संवाद इत्ययं श्रेष्ठः साध्यानां परिकीर्तितः
क्षेत्रं वै कर्मणां योनिः सद्भावः सत्यमुच्यते
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 287
- Next chapter · Śānti-Parva Ch 289 →
Sources and Connected Readings
Continue from these 45 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.288local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷