🪷 Mahābhārata · Śānti-Parva · Chapter 258

The Book of Peace · the great dharma-śāstra · Parva 12 · 75 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 75 Shlokas

MBh 12.258.1
युधिष्ठिर उवाच कथं कार्यं परीक्षेत शीघ्रं वाथ चिरेण वा सर्वथा कार्यदुर्गेऽस्मिन्भवान्नः परमो गुरुः
MBh 12.258.2
भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् चिरकारेस्तु यत्पूर्वं वृत्तमाङ्गिरसे कुले
MBh 12.258.3
चिरकारिक भद्रं ते भद्रं ते चिरकारिक चिरकारी हि मेधावी नापराध्यति कर्मसु
MBh 12.258.4
चिरकारी महाप्राज्ञो गौतमस्याभवत्सुतः चिरं हि सर्वकार्याणि समेक्षावान्प्रपद्यते
MBh 12.258.5
चिरं संचिन्तयन्नर्थांश्चिरं जाग्रच्चिरं स्वपन् चिरकार्याभिसंपत्तेश्चिरकारी तथोच्यते
MBh 12.258.6
अलसग्रहणं प्राप्तो दुर्मेधावी तथोच्यते बुद्धिलाघवयुक्तेन जनेनादीर्घदर्शिना
MBh 12.258.7
व्यभिचारे तु कस्मिंश्चिद्व्यतिक्रम्यापरान्सुतान् पित्रोक्तः कुपितेनाथ जहीमां जननीमिति
MBh 12.258.8
स तथेति चिरेणोक्त्वा स्वभावाच्चिरकारिकः विमृश्य चिरकारित्वाच्चिन्तयामास वै चिरम्
MBh 12.258.9
पितुराज्ञां कथं कुर्यां न हन्यां मातरं कथम् कथं धर्मच्छले नास्मिन्निमज्जेयमसाधुवत्
MBh 12.258.10
पितुराज्ञा परो धर्मः स्वधर्मो मातृरक्षणम् अस्वतन्त्रं च पुत्रत्वं किं नु मां नात्र पीडयेत्
MBh 12.258.11
स्त्रियं हत्वा मातरं च को हि जातु सुखी भवेत् पितरं चाप्यवज्ञाय कः प्रतिष्ठामवाप्नुयात्
MBh 12.258.12
अनवज्ञा पितुर्युक्ता धारणं मातृरक्षणम् युक्तक्षमावुभावेतौ नातिवर्तेतमां कथम्
MBh 12.258.13
पिता ह्यात्मानमाधत्ते जायायां जज्ञियामिति शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च
MBh 12.258.14
सोऽहमात्मा स्वयं पित्रा पुत्रत्वे प्रकृतः पुनः विज्ञानं मे कथं न स्याद्बुबुधे चात्मसंभवम्
MBh 12.258.15
जातकर्मणि यत्प्राह पिता यच्चोपकर्मणि पर्याप्तः स दृढीकारः पितुर्गौरवनिश्चये
MBh 12.258.16
गुरुरग्र्यः परो धर्मः पोषणाध्ययनाद्धितः पिता यदाह धर्मः स वेदेष्वपि सुनिश्चितः
MBh 12.258.17
प्रीतिमात्रं पितुः पुत्रः सर्वं पुत्रस्य वै पिता शरीरादीनि देयानि पिता त्वेकः प्रयच्छति
MBh 12.258.18
तस्मात्पितुर्वचः कार्यं न विचार्यं कथंचन पातकान्यपि पूयन्ते पितुर्वचनकारिणः
MBh 12.258.19
भोगे भाग्ये प्रसवने सर्वलोकनिदर्शने भर्त्रा चैव समायोगे सीमन्तोन्नयने तथा
MBh 12.258.20
पिता स्वर्गः पिता धर्मः पिता परमकं तपः पितरि प्रीतिमापन्ने सर्वाः प्रीयन्ति देवताः
MBh 12.258.21
आशिषस्ता भजन्त्येनं पुरुषं प्राह याः पिता निष्कृतिः सर्वपापानां पिता यदभिनन्दति
MBh 12.258.22
मुच्यते बन्धनात्पुष्पं फलं वृन्तात्प्रमुच्यते क्लिश्यन्नपि सुतस्नेहैः पिता स्नेहं न मुञ्चति
MBh 12.258.23
एतद्विचिन्तितं तावत्पुत्रस्य पितृगौरवम् पिता ह्यल्पतरं स्थानं चिन्तयिष्यामि मातरम्
MBh 12.258.24
यो ह्ययं मयि संघातो मर्त्यत्वे पाञ्चभौतिकः अस्य मे जननी हेतुः पावकस्य यथारणिः माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृतिः
MBh 12.258.25
न च शोचति नाप्येनं स्थाविर्यमपकर्षति श्रिया हीनोऽपि यो गेहे अम्बेति प्रतिपद्यते
MBh 12.258.26
पुत्रपौत्रसमाकीर्णो जननीं यः समाश्रितः अपि वर्षशतस्यान्ते स द्विहायनवच्चरेत्
MBh 12.258.27
समर्थं वासमर्थं वा कृशं वाप्यकृशं तथा रक्षत्येव सुतं माता नान्यः पोष्टा विधानतः
MBh 12.258.28
तदा स वृद्धो भवति यदा भवति दुःखितः तदा शून्यं जगत्तस्य यदा मात्रा वियुज्यते
MBh 12.258.29
नास्ति मातृसमा छाया नास्ति मातृसमा गतिः नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रपा
MBh 12.258.30
कुक्षिसंधारणाद्धात्री जननाज्जननी स्मृता अङ्गानां वर्धनादम्बा वीरसूत्वेन वीरसूः
MBh 12.258.31
शिशोः शुश्रूषणाच्छुश्रूर्माता देहमनन्तरम् चेतनावान्नरो हन्याद्यस्य नासुषिरं शिरः
MBh 12.258.32
दम्पत्योः प्राणसंश्लेषे योऽभिसंधिः कृतः किल तं माता वा पिता वेद भूतार्थो मातरि स्थितः
MBh 12.258.33
माता जानाति यद्गोत्रं माता जानाति यस्य सः मातुर्भरणमात्रेण प्रीतिः स्नेहः पितुः प्रजाः
MBh 12.258.34
पाणिबन्धं स्वयं कृत्वा सहधर्ममुपेत्य च यदि याप्यन्ति पुरुषाः स्त्रियो नार्हन्ति याप्यताम्
MBh 12.258.35
भरणाद्धि स्त्रियो भर्ता पात्याच्चैव स्त्रियाः पतिः गुणस्यास्य निवृत्तौ तु न भर्ता न पतिः पतिः
MBh 12.258.36
एवं स्त्री नापराध्नोति नर एवापराध्यति व्युच्चरंश्च महादोषं नर एवापराध्यति
MBh 12.258.37
स्त्रिया हि परमो भर्ता दैवतं परमं स्मृतम् तस्यात्मना तु सदृशमात्मानं परमं ददौ सर्वकार्यापराध्यत्वान्नापराध्यन्ति चाङ्गनाः
MBh 12.258.38
यश्चनोक्तो हि निर्देशः स्त्रिया मैथुनतृप्तये तस्य स्मारयतो व्यक्तमधर्मो नात्र संशयः
MBh 12.258.39
यावन्नारीं मातरं च गौरवे चाधिके स्थिताम् अवध्यां तु विजानीयुः पशवोऽप्यविचक्षणाः
MBh 12.258.40
देवतानां समावायमेकस्थं पितरं विदुः मर्त्यानां देवतानां च स्नेहादभ्येति मातरम्
MBh 12.258.41
एवं विमृशतस्तस्य चिरकारितया बहु दीर्घः कालो व्यतिक्रान्तस्ततस्तस्यागमत्पिता
MBh 12.258.42
मेधातिथिर्महाप्राज्ञो गौतमस्तपसि स्थितः विमृश्य तेन कालेन पत्न्याः संस्थाव्यतिक्रमम्
MBh 12.258.43
सोऽब्रवीद्दुःखसंतप्तो भृशमश्रूणि वर्तयन् श्रुतधैर्यप्रसादेन पश्चात्तापमुपागतः
MBh 12.258.44
आश्रमं मम संप्राप्तस्त्रिलोकेशः पुरंदरः अतिथिव्रतमास्थाय ब्राह्मणं रूपमास्थितः
MBh 12.258.45
समया सान्त्वितो वाग्भिः स्वागतेनाभिपूजितः अर्घ्यं पाद्यं च न्यायेन तयाभिप्रतिपादितः
MBh 12.258.46
परवत्यस्मि चाप्युक्तः प्रणयिष्ये नयेन च अत्र चाकुशले जाते स्त्रियो नास्ति व्यतिक्रमः
MBh 12.258.47
एवं न स्त्री न चैवाहं नाध्वगस्त्रिदशेश्वरः अपराध्यति धर्मस्य प्रमादस्त्वपराध्यति
MBh 12.258.48
ईर्ष्याजं व्यसनं प्राहुस्तेन चैवोर्ध्वरेतसः ईर्ष्यया त्वहमाक्षिप्तो मग्नो दुष्कृतसागरे
MBh 12.258.49
हत्वा साध्वीं च नारीं च व्यसनित्वाच्च शासिताम् भर्तव्यत्वेन भार्यां च को नु मां तारयिष्यति
MBh 12.258.50
अन्तरेण मयाज्ञप्तश्चिरकारी ह्युदारधीः यद्यद्य चिरकारी स्यात्स मां त्रायेत पातकात्
MBh 12.258.51
चिरकारिक भद्रं ते भद्रं ते चिरकारिक यद्यद्य चिरकारी त्वं ततोऽसि चिरकारिकः
MBh 12.258.52
त्राहि मां मातरं चैव तपो यच्चार्जितं मया आत्मानं पातकेभ्यश्च भवाद्य चिरकारिकः
MBh 12.258.53
सहजं चिरकारित्वं चिरप्राज्ञतया तव सफलं तत्तवाद्यास्तु भवाद्य चिरकारिकः
MBh 12.258.54
चिरमाशंसितो मात्रा चिरं गर्भेण धारितः सफलं चिरकारित्वं कुरु त्वं चिरकारिक
MBh 12.258.55
चिरायते च संतापाच्चिरं स्वपिति वारितः आवयोश्चिरसंतापादवेक्ष्य चिरकारिक
MBh 12.258.56
एवं स दुःखितो राजन्महर्षिर्गौतमस्तदा चिरकारिं ददर्शाथ पुत्रं स्थितमथान्तिके
MBh 12.258.57
चिरकारी तु पितरं दृष्ट्वा परमदुःखितः शस्त्रं त्यक्त्वा ततो मूर्ध्ना प्रसादायोपचक्रमे
MBh 12.258.58
गौतमस्तु सुतं दृष्ट्वा शिरसा पतितं भुवि पत्नीं चैव निराकारां परामभ्यगमन्मुदम्
MBh 12.258.59
न हि सा तेन संभेदं पत्नी नीता महात्मना विजने चाश्रमस्थेन पुत्रश्चापि समाहितः
MBh 12.258.60
हन्यात्त्वनपवादेन शस्त्रपाणौ सुते स्थिते विनीतं प्रश्नयित्वा च व्यवस्येदात्मकर्मसु
MBh 12.258.61
बुद्धिश्चासीत्सुतं दृष्ट्वा पितुश्चरणयोर्नतम् शस्त्रग्रहणचापल्यं संवृणोति भयादिति
MBh 12.258.62
ततः पित्रा चिरं स्तुत्वा चिरं चाघ्राय मूर्धनि चिरं दोर्भ्यां परिष्वज्य चिरं जीवेत्युदाहृतः
MBh 12.258.63
एवं स गौतमः पुत्रं प्रीतिहर्षसमन्वितः अभिनन्द्य महाप्राज्ञ इदं वचनमब्रवीत्
MBh 12.258.64
चिरकारिक भद्रं ते चिरकारी चिरं भव चिरायमाणे त्वयि च चिरमस्मि सुदुःखितः
MBh 12.258.65
गाथाश्चाप्यब्रवीद्विद्वान्गौतमो मुनिसत्तमः चिरकारिषु धीरेषु गुणोद्देशसमाश्रयात्
MBh 12.258.66
चिरेण मित्रं बध्नीयाच्चिरेण च कृतं त्यजेत् चिरेण हि कृतं मित्रं चिरं धारणमर्हति
MBh 12.258.67
रागे दर्पे च माने च द्रोहे पापे च कर्मणि अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते
MBh 12.258.68
बन्धूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च अव्यक्तेष्वपराधेषु चिरकारी प्रशस्यते
MBh 12.258.69
एवं स गौतमस्तस्य प्रीतः पुत्रस्य भारत कर्मणा तेन कौरव्य चिरकारितया तया
MBh 12.258.70
एवं सर्वेषु कार्येषु विमृश्य पुरुषस्ततः चिरेण निश्चयं कृत्वा चिरं न परितप्यते
MBh 12.258.71
चिरं धारयते रोषं चिरं कर्म नियच्छति पश्चात्तापकरं कर्म न किंचिदुपपद्यते
MBh 12.258.72
चिरं वृद्धानुपासीत चिरमन्वास्य पूजयेत् चिरं धर्मान्निषेवेत कुर्याच्चान्वेषणं चिरम्
MBh 12.258.73
चिरमन्वास्य विदुषश्चिरं शिष्टान्निषेव्य च चिरं विनीय चात्मानं चिरं यात्यनवज्ञताम्
MBh 12.258.74
ब्रुवतश्च परस्यापि वाक्यं धर्मोपसंहितम् चिरं पृच्छेच्चिरं ब्रूयाच्चिरं न परिभूयते
MBh 12.258.75
उपास्य बहुलास्तस्मिन्नाश्रमे सुमहातपाः समाः स्वर्गं गतो विप्रः पुत्रेण सहितस्तदा

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 75 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.258local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷