🪷 Mahābhārata · Śānti-Parva · Chapter 256

The Book of Peace · the great dharma-śāstra · Parva 12 · 22 shlokas in canonical Devanāgarī Sanskrit

Mahābhārata Detail Source-Anchor Spine

This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.

MBh 12.256local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

The Devanāgarī Yathārtha · 22 Shlokas

MBh 12.256.1
[तुलाधार] सद्भिर वा यदि वासद्भिर अयं पन्थाः समाश्रितः परत्यक्षं करियतां साधु ततॊ जञास्यसि तद यथा
MBh 12.256.2
एते शकुन्ता बहवः समन्ताद विचरन्ति हि तवॊत्तमाङ्गे संभूताः शयेनाश चान्याश च जातयः
MBh 12.256.3
आह्वयैनान महाब्रह्मन विशमानांस ततस ततः पश्येमान हस्तपादेषु शलिष्टान देहे च सर्वशः
MBh 12.256.4
संभावयन्ति पितरं तवया संभाविताः खगाः असंशयं पिता च तवं पुत्रान आह्वय जाजले
MBh 12.256.5
[भी] ततॊ जाजलिना तेन समाहूता पतत्रिणः वाचम उच्चारयन दिव्यां धर्मस्य वचनात किल
MBh 12.256.6
अहिंसादि कृतं कर्म इह चैव परत्र च सपर्धा निहन्ति वै बरह्मन सा हता हन्ति तं नरम
MBh 12.256.7
शरद्धा वृद्धं वाङ्मनसी न यज्ञस तरातुम अर्हति अत्र गाथा बरह्म गीताः कीर्तयन्ति पुरा विदः
MBh 12.256.8
शुचेर अश्रद्दधानस्य शरद्दधानस्य चाशुचेः देवाश चित्तम अमन्यन्त सशृशं यज्ञकर्मणि
MBh 12.256.9
शरॊत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः मीमांसित्वॊभयं देवाः समम अन्नम अकल्पयन
MBh 12.256.10
परजापतिस तान उवाच विषमं कृतम इत्य उत शरद्धा पूतं वदान्यस्य हतम अश्रद्धयेतरत भॊज्यम अन्नं वदान्यस्य कदर्यस्य न वार्धुषेः
MBh 12.256.11
अश्रद्दधान एवैकॊ देवानां नार्हते हविः तस्यैवान्नं न भॊक्तव्यम इति धर्मविदॊ विदुः
MBh 12.256.12
अश्रद्धा परमं पापं शरद्धा पापप्रमॊचिनी जहाति पापं शरद्धावान सर्पॊ जीर्णाम इव तवचम
MBh 12.256.13
जयायसी यापवित्राणां निवृत्तिः शरद्धया सह निवृत्तशीलदॊषॊ यः शरद्धावान पूत एव सः
MBh 12.256.14
किं तस्य तपसा कार्यं किं वृत्तेन किम आत्मना शरद्धामयॊ ऽयं पुरुषॊ यॊ यच्छ्रद्धः स एव सः
MBh 12.256.15
इति धर्मः समाख्यातः सद्भिर धर्मार्थदर्शिभिः वयं जिज्ञासमानास तवा संप्राप्ता धर्मदर्शनात
MBh 12.256.16
सपर्धां जहि महाप्राज्ञ ततः पराप्स्यसि यत परम शरद्धावाञ शरद्दधानश च धर्मांश चैवेह वानिजः सववर्त्मनि सथितश चैव गरीयान एष जाजले
MBh 12.256.17
एवं बहुमतार्थं च तुलाधारेण भासितम सम्यक चैवम उपालब्धॊ धर्मश चॊक्तः सनातनः
MBh 12.256.18
तस्य विख्यातवीर्यस्य शरुत्वा वाक्यानि स दविजः तुलाधारस्य कौन्तेय शान्तिम एवान्वपद्यत
MBh 12.256.19
ततॊ ऽचिरेण कालेन तुलाधारः स एव च दिवं गत्वा महाप्राज्ञौ विहरेतां यथासुखम सवं सवं सथानम उपागम्य सवकर्मफलनिर्जितम
MBh 12.256.20
समानां शरद्दधानानां संयतानां सुचेतसाम कुर्वतां यज्ञ इत्य एव न यज्ञॊ जातु नेष्यते
MBh 12.256.21
शरद्धा वै सात्त्विकी देवी सूर्यस्य दुहिता नृप सावित्री परसवित्री च जीव विश्वासिनी तथा
MBh 12.256.22
वाग वृद्धं तरायते शरद्धा मनॊ वृद्धं च भारत यथौपम्यॊपदेशेन किं भूयः शरॊतुम इच्छसि

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷