🪷 Mahābhārata · Śānti-Parva · Chapter 255
The Book of Peace · the great dharma-śāstra · Parva 12 · 41 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 41 Shlokas
MBh 12.255.1
जाजलिरुवाच
यथा प्रवर्तितो धर्मस्तुलां धारयता त्वया
स्वर्गद्वारं च वृत्तिं च भूतानामवरोत्स्यते
MBh 12.255.2
कृष्या ह्यन्नं प्रभवति ततस्त्वमपि जीवसि
पशुभिश्चौषधीभिश्च मर्त्या जीवन्ति वाणिज
MBh 12.255.3
यतो यज्ञः प्रभवति नास्तिक्यमपि जल्पसि
न हि वर्तेदयं लोको वार्तामुत्सृज्य केवलम्
MBh 12.255.4
तुलाधार उवाच
वक्ष्यामि जाजले वृत्तिं नास्मि ब्राह्मण नास्तिकः
न च यज्ञं विनिन्दामि यज्ञवित्तु सुदुर्लभः
MBh 12.255.5
नमो ब्राह्मणयज्ञाय ये च यज्ञविदो जनाः
स्वयज्ञं ब्राह्मणा हित्वा क्षात्रं यज्ञमिहास्थिताः
MBh 12.255.6
लुब्धैर्वित्तपरैर्ब्रह्मन्नास्तिकैः संप्रवर्तितम्
वेदवादानविज्ञाय सत्याभासमिवानृतम्
MBh 12.255.7
इदं देयमिदं देयमिति नान्तं चिकीर्षति
अतः स्तैन्यं प्रभवति विकर्माणि च जाजले
तदेव सुकृतं हव्यं येन तुष्यन्ति देवताः
MBh 12.255.8
नमस्कारेण हविषा स्वाध्यायैरौषधैस्तथा
पूजा स्याद्देवतानां हि यथा शास्त्रनिदर्शनम्
MBh 12.255.9
इष्टापूर्तादसाधूनां विषमा जायते प्रजा
लुब्धेभ्यो जायते लुब्धः समेभ्यो जायते समः
MBh 12.255.10
यजमानो यथात्मानमृत्विजश्च तथा प्रजाः
यज्ञात्प्रजा प्रभवति नभसोऽम्भ इवामलम्
MBh 12.255.11
अग्नौ प्रास्ताहुतिर्ब्रह्मन्नादित्यमुपतिष्ठति
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः
MBh 12.255.12
तस्मात्स्वनुष्ठितात्पूर्वे सर्वान्कामांश्च लेभिरे
अकृष्टपच्या पृथिवी आशीर्भिर्वीरुधोऽभवन्
न ते यज्ञेष्वात्मसु वा फलं पश्यन्ति किंचन
MBh 12.255.13
शङ्कमानाः फलं यज्ञे ये यजेरन्कथंचन
जायन्तेऽसाधवो धूर्ता लुब्धा वित्तप्रयोजनाः
MBh 12.255.14
स स्म पापकृतां लोकान्गच्छेदशुभकर्मणा
प्रमाणमप्रमाणेन यः कुर्यादशुभं नरः
पापात्मा सोऽकृतप्रज्ञः सदैवेह द्विजोत्तम
MBh 12.255.15
कर्तव्यमिति कर्तव्यं वेत्ति यो ब्राह्मणोभयम्
ब्रह्मैव वर्तते लोके नैति कर्तव्यतां पुनः
MBh 12.255.16
विगुणं च पुनः कर्म ज्याय इत्यनुशुश्रुम
सर्वभूतोपघातश्च फलभावे च संयमः
MBh 12.255.17
सत्ययज्ञा दमयज्ञा अलुब्धाश्चात्मतृप्तयः
उत्पन्नत्यागिनः सर्वे जना आसन्नमत्सराः
MBh 12.255.18
क्षेत्रक्षेत्रज्ञतत्त्वज्ञाः स्वयज्ञपरिनिष्ठिताः
ब्राह्मं वेदमधीयन्तस्तोषयन्त्यमरानपि
MBh 12.255.19
अखिलं दैवतं सर्वं ब्रह्म ब्राह्मणसंश्रितम्
तृप्यन्ति तृप्यतो देवास्तृप्तास्तृप्तस्य जाजले
MBh 12.255.20
यथा सर्वरसैस्तृप्तो नाभिनन्दति किंचन
तथा प्रज्ञानतृप्तस्य नित्यं तृप्तिः सुखोदया
MBh 12.255.21
धर्मारामा धर्मसुखाः कृत्स्नव्यवसितास्तथा
अस्ति नस्तत्त्वतो भूय इति प्रज्ञागवेषिणः
MBh 12.255.22
ज्ञानविज्ञानिनः केचित्परं पारं तितीर्षवः
अतीव तत्सदा पुण्यं पुण्याभिजनसंहितम्
MBh 12.255.23
यत्र गत्वा न शोचन्ति न च्यवन्ति व्यथन्ति च
ते तु तद्ब्रह्मणः स्थानं प्राप्नुवन्तीह सात्त्विकाः
MBh 12.255.24
नैव ते स्वर्गमिच्छन्ति न यजन्ति यशोधनैः
सतां वर्त्मानुवर्तन्ते यथाबलमहिंसया
MBh 12.255.25
वनस्पतीनोषधीश्च फलमूलं च ते विदुः
न चैतानृत्विजो लुब्धा याजयन्ति धनार्थिनः
MBh 12.255.26
स्वमेव चार्थं कुर्वाणा यज्ञं चक्रुः पुनर्द्विजाः
परिनिष्ठितकर्माणः प्रजानुग्रहकाम्यया
MBh 12.255.27
प्रापयेयुः प्रजाः स्वर्गं स्वधर्मचरणेन वै
इति मे वर्तते बुद्धिः समा सर्वत्र जाजले
MBh 12.255.28
प्रयुञ्जते यानि यज्ञे सदा प्राज्ञा द्विजर्षभ
तेन ते देवयानेन पथा यान्ति महामुने
MBh 12.255.29
आवृत्तिस्तत्र चैकस्य नास्त्यावृत्तिर्मनीषिणाम्
उभौ तौ देवयानेन गच्छतो जाजले पथा
MBh 12.255.30
स्वयं चैषामनडुहो युज्यन्ति च वहन्ति च
स्वयमुस्राश्च दुह्यन्ते मनःसंकल्पसिद्धिभिः
MBh 12.255.31
स्वयं यूपानुपादाय यजन्ते स्वाप्तदक्षिणैः
यस्तथाभावितात्मा स्यात्स गामालब्धुमर्हति
MBh 12.255.32
ओषधीभिस्तथा ब्रह्मन्यजेरंस्ते नतादृशाः
बुद्धित्यागं पुरस्कृत्य तादृशं प्रब्रवीमि ते
MBh 12.255.33
निराशिषमनारम्भं निर्नमस्कारमस्तुतिम्
अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः
MBh 12.255.34
नाश्रावयन्न च यजन्न ददद्ब्राह्मणेषु च
ग्राम्यां वृत्तिं लिप्समानः कां गतिं याति जाजले
इदं तु दैवतं कृत्वा यथा यज्ञमवाप्नुयात्
MBh 12.255.35
जाजलिरुवाच
न वै मुनीनां शृणुमः स्म तत्त्वं; पृच्छामि त्वा वाणिज कष्टमेतत्
पूर्वे पूर्वे चास्य नावेक्षमाणा; नातः परं तमृषयः स्थापयन्ति
MBh 12.255.36
अस्मिन्नेवात्मतीर्थे न पशवः प्राप्नुयुः सुखम्
अथ स्वकर्मणा केन वाणिज प्राप्नुयात्सुखम्
शंस मे तन्महाप्राज्ञ भृशं वै श्रद्दधामि ते
MBh 12.255.37
तुलाधार उवाच
उत यज्ञा उतायज्ञा मखं नार्हन्ति ते क्वचित्
आज्येन पयसा दध्ना पूर्णाहुत्या विशेषतः
वालैः शृङ्गेण पादेन संभवत्येव गौर्मखम्
MBh 12.255.38
पत्नीं चानेन विधिना प्रकरोति नियोजयन्
पुरोडाशो हि सर्वेषां पशूनां मेध्य उच्यते
MBh 12.255.39
सर्वा नद्यः सरस्वत्यः सर्वे पुण्याः शिलोच्चयाः
जाजले तीर्थमात्मैव मा स्म देशातिथिर्भव
MBh 12.255.40
एतानीदृशकान्धर्मानाचरन्निह जाजले
कारणैर्धर्ममन्विच्छन्न लोकानाप्नुते शुभान्
MBh 12.255.41
भीष्म उवाच
एतानीदृशकान्धर्मांस्तुलाधारः प्रशंसति
उपपत्त्या हि संपन्नान्नित्यं सद्भिर्निषेवितान्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 254
- Next chapter · Śānti-Parva Ch 256 →
Sources and Connected Readings
Continue from these 41 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.255local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷