🪷 Mahābhārata · Śānti-Parva · Chapter 242

The Book of Peace · the great dharma-śāstra · Parva 12 · 25 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 25 Shlokas

MBh 12.242.1
शुक उवाच यस्माद्धर्मात्परो धर्मो विद्यते नेह कश्चन यो विशिष्टश्च धर्मेभ्यस्तं भवान्प्रब्रवीतु मे
MBh 12.242.2
व्यास उवाच धर्मं ते संप्रवक्ष्यामि पुराणमृषिसंस्तुतम् विशिष्टं सर्वधर्मेभ्यस्तमिहैकमनाः शृणु
MBh 12.242.3
इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य यत्नतः सर्वतो निष्पतिष्णूनि पिता बालानिवात्मजान्
MBh 12.242.4
मनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं तपः तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते
MBh 12.242.5
तानि सर्वाणि संधाय मनःषष्ठानि मेधया आत्मतृप्त इवासीत बहु चिन्त्यमचिन्तयन्
MBh 12.242.6
गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि तदा त्वमात्मनात्मानं परं द्रक्ष्यसि शाश्वतम्
MBh 12.242.7
सर्वात्मानं महात्मानं विधूममिव पावकम् तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः
MBh 12.242.8
यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम्
MBh 12.242.9
एवमात्मा न जानीते क्व गमिष्ये कुतो न्वहम् अन्यो ह्यत्रान्तरात्मास्ति यः सर्वमनुपश्यति
MBh 12.242.10
ज्ञानदीपेन दीप्तेन पश्यत्यात्मानमात्मना दृष्ट्वा त्वमात्मनात्मानं निरात्मा भव सर्ववित्
MBh 12.242.11
विमुक्तः सर्वपापेभ्यो मुक्तत्वच इवोरगः परां बुद्धिमवाप्येह विपाप्मा विगतज्वरः
MBh 12.242.12
सर्वतःस्रोतसं घोरां नदीं लोकप्रवाहिनीम् पञ्चेन्द्रियग्राहवतीं मनःसंकल्परोधसम्
MBh 12.242.13
लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम् सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम्
MBh 12.242.14
अव्यक्तप्रभवां शीघ्रां दुस्तरामकृतात्मभिः प्रतरस्व नदीं बुद्ध्या कामग्राहसमाकुलाम्
MBh 12.242.15
संसारसागरगमां योनिपातालदुस्तराम् आत्मजन्मोद्भवां तात जिह्वावर्तां दुरासदाम्
MBh 12.242.16
यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः तां तीर्णः सर्वतोमुक्तो विपूतात्मात्मविच्छुचिः
MBh 12.242.17
उत्तमां बुद्धिमास्थाय ब्रह्मभूयं गमिष्यसि संतीर्णः सर्वसंक्लेशान्प्रसन्नात्मा विकल्मषः
MBh 12.242.18
भूमिष्ठानीव भूतानि पर्वतस्थो निशामय अक्रुध्यन्नप्रहृष्यंश्च ननृशंसमतिस्तथा ततो द्रक्ष्यसि भूतानां सर्वेषां प्रभवाप्ययौ
MBh 12.242.19
एवं वै सर्वधर्मेभ्यो विशिष्टं मेनिरे बुधाः धर्मं धर्मभृतां श्रेष्ठ मुनयस्तत्त्वदर्शिनः
MBh 12.242.20
आत्मनोऽव्ययिनो ज्ञात्वा इदं पुत्रानुशासनम् प्रयताय प्रवक्तव्यं हितायानुगताय च
MBh 12.242.21
आत्मज्ञानमिदं गुह्यं सर्वगुह्यतमं महत् अब्रुवं यदहं तात आत्मसाक्षिकमञ्जसा
MBh 12.242.22
नैव स्त्री न पुमानेतन्नैव चेदं नपुंसकम् अदुःखमसुखं ब्रह्म भूतभव्यभवात्मकम्
MBh 12.242.23
नैतज्ज्ञात्वा पुमान्स्त्री वा पुनर्भवमवाप्नुयात् अभवप्रतिपत्त्यर्थमेतद्वर्त्म विधीयते
MBh 12.242.24
यथा मतानि सर्वाणि न चैतानि यथा तथा कथितानि मया पुत्र भवन्ति न भवन्ति च
MBh 12.242.25
तत्प्रीतियुक्तेन गुणान्वितेन; पुत्रेण सत्पुत्रगुणान्वितेन पृष्टो हीदं प्रीतिमता हितार्थं; ब्रूयात्सुतस्येह यदुक्तमेतत्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 25 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.242local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷