🪷 Mahābhārata · Śānti-Parva · Chapter 215

The Book of Peace · the great dharma-śāstra · Parva 12 · 37 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 37 Shlokas

MBh 12.215.1
युधिष्ठिर उवाच यदिदं कर्म लोकेऽस्मिञ्शुभं वा यदि वाशुभम् पुरुषं योजयत्येव फलयोगेन भारत
MBh 12.215.2
कर्ता स्वित्तस्य पुरुष उताहो नेति संशयः एतदिच्छामि तत्त्वेन त्वत्तः श्रोतुं पितामह
MBh 12.215.3
भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् प्रह्रादस्य च संवादमिन्द्रस्य च युधिष्ठिर
MBh 12.215.4
असक्तं धूतपाप्मानं कुले जातं बहुश्रुतम् अस्तम्भमनहंकारं सत्त्वस्थं समये रतम्
MBh 12.215.5
तुल्यनिन्दास्तुतिं दान्तं शून्यागारनिवेशनम् चराचराणां भूतानां विदितप्रभवाप्ययम्
MBh 12.215.6
अक्रुध्यन्तमहृष्यन्तमप्रियेषु प्रियेषु च काञ्चने वाथ लोष्टे वा उभयोः समदर्शनम्
MBh 12.215.7
आत्मनिःश्रेयसज्ञाने धीरं निश्चितनिश्चयम् परावरज्ञं भूतानां सर्वज्ञं समदर्शनम्
MBh 12.215.8
शक्रः प्रह्रादमासीनमेकान्ते संयतेन्द्रियम् बुभुत्समानस्तत्प्रज्ञामभिगम्येदमब्रवीत्
MBh 12.215.9
यैः कैश्चित्संमतो लोके गुणैः स्यात्पुरुषो नृषु भवत्यनपगान्सर्वांस्तान्गुणाँल्लक्षयामहे
MBh 12.215.10
अथ ते लक्ष्यते बुद्धिः समा बालजनैरिह आत्मानं मन्यमानः सञ्श्रेयः किमिह मन्यसे
MBh 12.215.11
बद्धः पाशैश्च्युतः स्थानाद्द्विषतां वशमागतः श्रिया विहीनः प्रह्राद शोचितव्ये न शोचसि
MBh 12.215.12
प्रज्ञालाभात्तु दैतेय उताहो धृतिमत्तया प्रह्राद स्वस्थरूपोऽसि पश्यन्व्यसनमात्मनः
MBh 12.215.13
इति संचोदितस्तेन धीरो निश्चितनिश्चयः उवाच श्लक्ष्णया वाचा स्वां प्रज्ञामनुवर्णयन्
MBh 12.215.14
प्रवृत्तिं च निवृत्तिं च भूतानां यो न बुध्यते तस्य स्तम्भो भवेद्बाल्यान्नास्ति स्तम्भोऽनुपश्यतः
MBh 12.215.15
स्वभावात्संप्रवर्तन्ते निवर्तन्ते तथैव च सर्वे भावास्तथाभावाः पुरुषार्थो न विद्यते
MBh 12.215.16
पुरुषार्थस्य चाभावे नास्ति कश्चित्स्वकारकः स्वयं तु कुर्वतस्तस्य जातु मानो भवेदिह
MBh 12.215.17
यस्तु कर्तारमात्मानं मन्यते साध्वसाधुनोः तस्य दोषवती प्रज्ञा स्वमूर्त्यज्ञेति मे मतिः
MBh 12.215.18
यदि स्यात्पुरुषः कर्ता शक्रात्मश्रेयसे ध्रुवम् आरम्भास्तस्य सिध्येरन्न च जातु पराभवेत्
MBh 12.215.19
अनिष्टस्य हि निर्वृत्तिरनिवृत्तिः प्रियस्य च लक्ष्यते यतमानानां पुरुषार्थस्ततः कुतः
MBh 12.215.20
अनिष्टस्याभिनिर्वृत्तिमिष्टसंवृत्तिमेव च अप्रयत्नेन पश्यामः केषांचित्तत्स्वभावतः
MBh 12.215.21
प्रतिरूपधराः केचिद्दृश्यन्ते बुद्धिसत्तमाः विरूपेभ्योऽल्पबुद्धिभ्यो लिप्समाना धनागमम्
MBh 12.215.22
स्वभावप्रेरिताः सर्वे निविशन्ते गुणा यदा शुभाशुभास्तदा तत्र तस्य किं मानकारणम्
MBh 12.215.23
स्वभावादेव तत्सर्वमिति मे निश्चिता मतिः आत्मप्रतिष्ठिता प्रज्ञा मम नास्ति ततोऽन्यथा
MBh 12.215.24
कर्मजं त्विह मन्येऽहं फलयोगं शुभाशुभम् कर्मणां विषयं कृत्स्नमहं वक्ष्यामि तच्छृणु
MBh 12.215.25
यथा वेदयते कश्चिदोदनं वायसो वदन् एवं सर्वाणि कर्माणि स्वभावस्यैव लक्षणम्
MBh 12.215.26
विकारानेव यो वेद न वेद प्रकृतिं पराम् तस्य स्तम्भो भवेद्बाल्यान्नास्ति स्तम्भोऽनुपश्यतः
MBh 12.215.27
स्वभावभाविनो भावान्सर्वानेवेह निश्चये बुध्यमानस्य दर्पो वा मानो वा किं करिष्यति
MBh 12.215.28
वेद धर्मविधिं कृत्स्नं भूतानां चाप्यनित्यताम् तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत्
MBh 12.215.29
निर्ममो निरहंकारो निरीहो मुक्तबन्धनः स्वस्थोऽव्यपेतः पश्यामि भूतानां प्रभवाप्ययौ
MBh 12.215.30
कृतप्रज्ञस्य दान्तस्य वितृष्णस्य निराशिषः नायासो विद्यते शक्र पश्यतो लोकविद्यया
MBh 12.215.31
प्रकृतौ च विकारे च न मे प्रीतिर्न च द्विषे द्वेष्टारं न च पश्यामि यो ममाद्य ममायते
MBh 12.215.32
नोर्ध्वं नावाङ्न तिर्यक्च न क्वचिच्छक्र कामये न विज्ञाने न विज्ञेये नाज्ञाने शर्म विद्यते
MBh 12.215.33
शक्र उवाच येनैषा लभ्यते प्रज्ञा येन शान्तिरवाप्यते प्रब्रूहि तमुपायं मे सम्यक्प्रह्राद पृच्छते
MBh 12.215.34
प्रह्राद उवाच आर्जवेनाप्रमादेन प्रसादेनात्मवत्तया वृद्धशुश्रूषया शक्र पुरुषो लभते महत्
MBh 12.215.35
स्वभावाल्लभते प्रज्ञां शान्तिमेति स्वभावतः स्वभावादेव तत्सर्वं यत्किंचिदनुपश्यसि
MBh 12.215.36
भीष्म उवाच इत्युक्तो दैत्यपतिना शक्रो विस्मयमागमत् प्रीतिमांश्च तदा राजंस्तद्वाक्यं प्रत्यपूजयत्
MBh 12.215.37
स तदाभ्यर्च्य दैत्येन्द्रं त्रैलोक्यपतिरीश्वरः असुरेन्द्रमुपामन्त्र्य जगाम स्वं निवेशनम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 37 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.215local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷