🪷 Mahābhārata · Śānti-Parva · Chapter 195

The Book of Peace · the great dharma-śāstra · Parva 12 · 23 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 23 Shlokas

MBh 12.195.1
मनुरुवाच अक्षरात्खं ततो वायुर्वायोर्ज्योतिस्ततो जलम् जलात्प्रसूता जगती जगत्यां जायते जगत्
MBh 12.195.2
इमे शरीरैर्जलमेव गत्वा; जलाच्च तेजः पवनोऽन्तरिक्षम् खाद्वै निवर्तन्ति नभाविनस्ते; ये भाविनस्ते परमाप्नुवन्ति
MBh 12.195.3
नोष्णं न शीतं मृदु नापि तीक्ष्णं; नाम्लं कषायं मधुरं न तिक्तम् न शब्दवन्नापि च गन्धवत्त;न्न रूपवत्तत्परमस्वभावम्
MBh 12.195.4
स्पर्शं तनुर्वेद रसं तु जिह्वा; घ्राणं च गन्धाञ्श्रवणे च शब्दान् रूपाणि चक्षुर्न च तत्परं य;द्गृह्णन्त्यनध्यात्मविदो मनुष्याः
MBh 12.195.5
निवर्तयित्वा रसनं रसेभ्यो; घ्राणं च गन्धाच्छ्रवणे च शब्दात् स्पर्शात्तनुं रूपगुणात्तु चक्षु;स्ततः परं पश्यति स्वं स्वभावम्
MBh 12.195.6
यतो गृहीत्वा हि करोति यच्च; यस्मिंश्च तामारभते प्रवृत्तिम् यस्मिंश्च यद्येन च यश्च कर्ता; तत्कारणं तं समुपायमाहुः
MBh 12.195.7
यच्चाभिभूः साधकं व्यापकं च; यन्मन्त्रवच्छंस्यते चैव लोके यः सर्वहेतुः परमार्थकारी; तत्कारणं कार्यमतो यदन्यत्
MBh 12.195.8
यथा च कश्चित्सुकृतैर्मनुष्यः; शुभाशुभं प्राप्नुतेऽथाविरोधात् एवं शरीरेषु शुभाशुभेषु; स्वकर्मजैर्ज्ञानमिदं निबद्धम्
MBh 12.195.9
यथा प्रदीपः पुरतः प्रदीप्तः; प्रकाशमन्यस्य करोति दीप्यन् तथेह पञ्चेन्द्रियदीपवृक्षा; ज्ञानप्रदीप्ताः परवन्त एव
MBh 12.195.10
यथा हि राज्ञो बहवो ह्यमात्याः; पृथक्प्रमानं प्रवदन्ति युक्ताः तद्वच्छरीरेषु भवन्ति पञ्च; ज्ञानैकदेशः परमः स तेभ्यः
MBh 12.195.11
यथार्चिषोऽग्नेः पवनस्य वेगा; मरीचयोऽर्कस्य नदीषु चापः गच्छन्ति चायान्ति च तन्यमाना;स्तद्वच्छरीराणि शरीरिणां तु
MBh 12.195.12
यथा च कश्चित्परशुं गृहीत्वा; धूमं न पश्येज्ज्वलनं च काष्ठे तद्वच्छरीरोदरपाणिपादं; छित्त्वा न पश्यन्ति ततो यदन्यत्
MBh 12.195.13
तान्येव काष्ठानि यथा विमथ्य; धूमं च पश्येज्ज्वलनं च योगात् तद्वत्सुबुद्धिः सममिन्द्रियत्वा;द्बुधः परं पश्यति स्वं स्वभावम्
MBh 12.195.14
यथात्मनोऽङ्गं पतितं पृथिव्यां; स्वप्नान्तरे पश्यति चात्मनोऽन्यत् श्रोत्रादियुक्तः सुमनाः सुबुद्धि;र्लिङ्गात्तथा गच्छति लिङ्गमन्यत्
MBh 12.195.15
उत्पत्तिवृद्धिक्षयसंनिपातै;र्न युज्यतेऽसौ परमः शरीरी अनेन लिङ्गेन तु लिङ्गमन्य;द्गच्छत्यदृष्टः प्रतिसंधियोगात्
MBh 12.195.16
न चक्षुषा पश्यति रूपमात्मनो; न चापि संस्पर्शमुपैति किंचित् न चापि तैः साधयतेऽथ कार्यं; ते तं न पश्यन्ति स पश्यते तान्
MBh 12.195.17
यथा प्रदीपे ज्वलतोऽनलस्य; संतापजं रूपमुपैति किंचित् न चान्तरं रूपगुणं बिभर्ति; तथैव तद्दृश्यते रूपमस्य
MBh 12.195.18
यथा मनुष्यः परिमुच्य काय;मदृश्यमन्यद्विशते शरीरम् विसृज्य भूतेषु महत्सु देहं; तदाश्रयं चैव बिभर्ति रूपम्
MBh 12.195.19
खं वायुमग्निं सलिलं तथोर्वीं; समन्ततोऽभ्याविशते शरीरी नानाश्रयाः कर्मसु वर्तमानाः; श्रोत्रादयः पञ्च गुणाञ्श्रयन्ते
MBh 12.195.20
श्रोत्रं खतो घ्राणमथो पृथिव्या;स्तेजोमयं रूपमथो विपाकः जलाश्रयः स्वेद उक्तो रसश्च; वाय्वात्मकः स्पर्शकृतो गुणश्च
MBh 12.195.21
महत्सु भूतेषु वसन्ति पञ्च; पञ्चेन्द्रियार्थाश्च तथेन्द्रियेषु सर्वाणि चैतानि मनोनुगानि; बुद्धिं मनोऽन्वेति मनः स्वभावम्
MBh 12.195.22
शुभाशुभं कर्म कृतं यदस्य; तदेव प्रत्याददते स्वदेहे मनोऽनुवर्तन्ति परावराणि; जलौकसः स्रोत इवानुकूलम्
MBh 12.195.23
चलं यथा दृष्टिपथं परैति; सूक्ष्मं महद्रूपमिवाभिपाति स्वरूपमालोचयते च रूपं; परं तथा बुद्धिपथं परैति

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 23 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.195local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷