🪷 Mahābhārata · Śānti-Parva · Chapter 189

The Book of Peace · the great dharma-śāstra · Parva 12 · 21 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 21 Shlokas

MBh 12.189.1
युधिष्ठिर उवाच चातुराश्रम्यमुक्तं ते राजधर्मास्तथैव च नानाश्रयाश्च बहव इतिहासाः पृथग्विधाः
MBh 12.189.2
श्रुतास्त्वत्तः कथाश्चैव धर्मयुक्ता महामते संदेहोऽस्ति तु कश्चिन्मे तद्भवान्वक्तुमर्हति
MBh 12.189.3
जापकानां फलावाप्तिं श्रोतुमिच्छामि भारत किं फलं जपतामुक्तं क्व वा तिष्ठन्ति जापकाः
MBh 12.189.4
जपस्य च विधिं कृत्स्नं वक्तुमर्हसि मेऽनघ जापका इति किं चैतत्सांख्ययोगक्रियाविधिः
MBh 12.189.5
किं यज्ञविधिरेवैष किमेतज्जप्यमुच्यते एतन्मे सर्वमाचक्ष्व सर्वज्ञो ह्यसि मे मतः
MBh 12.189.6
भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् यमस्य यत्पुरा वृत्तं कालस्य ब्राह्मणस्य च
MBh 12.189.7
संन्यास एव वेदान्ते वर्तते जपनं प्रति वेदवादाभिनिर्वृत्ता शान्तिर्ब्रह्मण्यवस्थितौ मार्गौ तावप्युभावेतौ संश्रितौ न च संश्रितौ
MBh 12.189.8
यथा संश्रूयते राजन्कारणं चात्र वक्ष्यते मनःसमाधिरत्रापि तथेन्द्रियजयः स्मृतः
MBh 12.189.9
सत्यमग्निपरीचारो विविक्तानां च सेवनम् ध्यानं तपो दमः क्षान्तिरनसूया मिताशनम्
MBh 12.189.10
विषयप्रतिसंहारो मितजल्पस्तथा शमः एष प्रवृत्तको धर्मो निवृत्तकमथो शृणु
MBh 12.189.11
यथा निवर्तते कर्म जपतो ब्रह्मचारिणः एतत्सर्वमशेषेण यथोक्तं परिवर्जयेत् त्रिविधं मार्गमासाद्य व्यक्ताव्यक्तमनाश्रयम्
MBh 12.189.12
कुशोच्चयनिषण्णः सन्कुशहस्तः कुशैः शिखी चीरैः परिवृतस्तस्मिन्मध्ये छन्नः कुशैस्तथा
MBh 12.189.13
विषयेभ्यो नमस्कुर्याद्विषयान्न च भावयेत् साम्यमुत्पाद्य मनसो मनस्येव मनो दधत्
MBh 12.189.14
तद्धिया ध्यायति ब्रह्म जपन्वै संहितां हिताम् संन्यस्यत्यथ वा तां वै समाधौ पर्यवस्थितः
MBh 12.189.15
ध्यानमुत्पादयत्यत्र संहिताबलसंश्रयात् शुद्धात्मा तपसा दान्तो निवृत्तद्वेषकामवान्
MBh 12.189.16
अरागमोहो निर्द्वंद्वो न शोचति न सज्जते न कर्ताकरणीयानां न कार्याणामिति स्थितिः
MBh 12.189.17
न चाहंकारयोगेन मनः प्रस्थापयेत्क्वचित् न चात्मग्रहणे युक्तो नावमानी न चाक्रियः
MBh 12.189.18
ध्यानक्रियापरो युक्तो ध्यानवान्ध्याननिश्चयः ध्याने समाधिमुत्पाद्य तदपि त्यजति क्रमात्
MBh 12.189.19
स वै तस्यामवस्थायां सर्वत्यागकृतः सुखी निरीहस्त्यजति प्राणान्ब्राह्मीं संश्रयते तनुम्
MBh 12.189.20
अथ वा नेच्छते तत्र ब्रह्मकायनिषेवणम् उत्क्रामति च मार्गस्थो नैव क्वचन जायते
MBh 12.189.21
आत्मबुद्धिं समास्थाय शान्तीभूतो निरामयः अमृतं विरजःशुद्धमात्मानं प्रतिपद्यते

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 21 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.189local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷