🪷 Mahābhārata · Śānti-Parva · Chapter 18
The Book of Peace · the great dharma-śāstra · Parva 12 · 38 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 38 Shlokas
MBh 12.18.1
वैशंपायन उवाच
तूष्णींभूतं तु राजानं पुनरेवार्जुनोऽब्रवीत्
संतप्तः शोकदुःखाभ्यां राज्ञो वाक्शल्यपीडितः
MBh 12.18.2
कथयन्ति पुरावृत्तमितिहासमिमं जनाः
विदेहराज्ञः संवादं भार्यया सह भारत
MBh 12.18.3
उत्सृज्य राज्यं भैक्षार्थं कृतबुद्धिं जनेश्वरम्
विदेहराजं महिषी दुःखिता प्रत्यभाषत
MBh 12.18.4
धनान्यपत्यं मित्राणि रत्नानि विविधानि च
पन्थानं पावनं हित्वा जनको मौण्ड्यमास्थितः
MBh 12.18.5
तं ददर्श प्रिया भार्या भैक्ष्यवृत्तिमकिंचनम्
धानामुष्टिमुपासीनं निरीहं गतमत्सरम्
MBh 12.18.6
तमुवाच समागम्य भर्तारमकुतोभयम्
क्रुद्धा मनस्विनी भार्या विविक्ते हेतुमद्वचः
MBh 12.18.7
कथमुत्सृज्य राज्यं स्वं धनधान्यसमाचितम्
कापालीं वृत्तिमास्थाय धानामुष्टिर्वनेऽचरः
MBh 12.18.8
प्रतिज्ञा तेऽन्यथा राजन्विचेष्टा चान्यथा तव
यद्राज्यं महदुत्सृज्य स्वल्पे तुष्यसि पार्थिव
MBh 12.18.9
नैतेनातिथयो राजन्देवर्षिपितरस्तथा
शक्यमद्य त्वया भर्तुं मोघस्तेऽयं परिश्रमः
MBh 12.18.10
देवतातिथिभिश्चैव पितृभिश्चैव पार्थिव
सर्वैरेतैः परित्यक्तः परिव्रजसि निष्क्रियः
MBh 12.18.11
यस्त्वं त्रैविद्यवृद्धानां ब्राह्मणानां सहस्रशः
भर्ता भूत्वा च लोकस्य सोऽद्यान्यैर्भृतिमिच्छसि
MBh 12.18.12
श्रियं हित्वा प्रदीप्तां त्वं श्ववत्संप्रति वीक्ष्यसे
अपुत्रा जननी तेऽद्य कौसल्या चापतिस्त्वया
MBh 12.18.13
अशीतिर्धर्मकामास्त्वां क्षत्रियाः पर्युपासते
त्वदाशामभिकाङ्क्षन्त्यः कृपणाः फलहेतुकाः
MBh 12.18.14
ताश्च त्वं विफलाः कुर्वन्काँल्लोकान्नु गमिष्यसि
राजन्संशयिते मोक्षे परतन्त्रेषु देहिषु
MBh 12.18.15
नैव तेऽस्ति परो लोको नापरः पापकर्मणः
धर्म्यान्दारान्परित्यज्य यस्त्वमिच्छसि जीवितुम्
MBh 12.18.16
स्रजो गन्धानलंकारान्वासांसि विविधानि च
किमर्थमभिसंत्यज्य परिव्रजसि निष्क्रियः
MBh 12.18.17
निपानं सर्वभूतानां भूत्वा त्वं पावनं महत्
आढ्यो वनस्पतिर्भूत्वा सोऽद्यान्यान्पर्युपाससे
MBh 12.18.18
खादन्ति हस्तिनं न्यासे क्रव्यादा बहवोऽप्युत
बहवः कृमयश्चैव किं पुनस्त्वामनर्थकम्
MBh 12.18.19
य इमां कुण्डिकां भिन्द्यात्त्रिविष्टब्धं च ते हरेत्
वासश्चापहरेत्तस्मिन्कथं ते मानसं भवेत्
MBh 12.18.20
यस्त्वयं सर्वमुत्सृज्य धानामुष्टिपरिग्रहः
यदानेन समं सर्वं किमिदं मम दीयते
धानामुष्टिरिहार्थश्चेत्प्रतिज्ञा ते विनश्यति
MBh 12.18.21
का वाहं तव को मे त्वं कोऽद्य ते मय्यनुग्रहः
प्रशाधि पृथिवीं राजन्यत्र तेऽनुग्रहो भवेत्
प्रासादं शयनं यानं वासांस्याभरणानि च
MBh 12.18.22
श्रिया निराशैरधनैस्त्यक्तमित्रैरकिंचनैः
सौखिकैः संभृतानर्थान्यः संत्यजसि किं नु तत्
MBh 12.18.23
योऽत्यन्तं प्रतिगृह्णीयाद्यश्च दद्यात्सदैव हि
तयोस्त्वमन्तरं विद्धि श्रेयांस्ताभ्यां क उच्यते
MBh 12.18.24
सदैव याचमानेषु सत्सु दम्भविवर्जिषु
एतेषु दक्षिणा दत्ता दावाग्नाविव दुर्हुतम्
MBh 12.18.25
जातवेदा यथा राजन्नादग्ध्वैवोपशाम्यति
सदैव याचमानो वै तथा शाम्यति न द्विजः
MBh 12.18.26
सतां च वेदा अन्नं च लोकेऽस्मिन्प्रकृतिर्ध्रुवा
न चेद्दाता भवेद्दाता कुतः स्युर्मोक्षकाङ्क्षिणः
MBh 12.18.27
अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च
अन्नात्प्राणः प्रभवति अन्नदः प्राणदो भवेत्
MBh 12.18.28
गृहस्थेभ्योऽभिनिर्वृत्ता गृहस्थानेव संश्रिताः
प्रभवं च प्रतिष्ठां च दान्ता निन्दन्त आसते
MBh 12.18.29
त्यागान्न भिक्षुकं विद्यान्न मौण्ड्यान्न च याचनात्
ऋजुस्तु योऽर्थं त्यजति तं सुखं विद्धि भिक्षुकम्
MBh 12.18.30
असक्तः सक्तवद्गच्छन्निःसङ्गो मुक्तबन्धनः
समः शत्रौ च मित्रे च स वै मुक्तो महीपते
MBh 12.18.31
परिव्रजन्ति दानार्थं मुण्डाः काषायवाससः
सिता बहुविधैः पाशैः संचिन्वन्तो वृथामिषम्
MBh 12.18.32
त्रयीं च नाम वार्तां च त्यक्त्वा पुत्रांस्त्यजन्ति ये
त्रिविष्टब्धं च वासश्च प्रतिगृह्णन्त्यबुद्धयः
MBh 12.18.33
अनिष्कषाये काषायमीहार्थमिति विद्धि तत्
धर्मध्वजानां मुण्डानां वृत्त्यर्थमिति मे मतिः
MBh 12.18.34
काषायैरजिनैश्चीरैर्नग्नान्मुण्डाञ्जटाधरान्
बिभ्रत्साधून्महाराज जय लोकाञ्जितेन्द्रियः
MBh 12.18.35
अग्न्याधेयानि गुर्वर्थान्क्रतून्सपशुदक्षिणान्
ददात्यहरहः पूर्वं को नु धर्मतरस्ततः
MBh 12.18.36
तत्त्वज्ञो जनको राजा लोकेऽस्मिन्निति गीयते
सोऽप्यासीन्मोहसंपन्नो मा मोहवशमन्वगाः
MBh 12.18.37
एवं धर्ममनुक्रान्तं सदा दानपरैर्नरैः
आनृशंस्यगुणोपेतैः कामक्रोधविवर्जिताः
MBh 12.18.38
पालयन्तः प्रजाश्चैव दानमुत्तममास्थिताः
इष्टाँल्लोकानवाप्स्यामो ब्रह्मण्याः सत्यवादिनः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 17
- Next chapter · Śānti-Parva Ch 19 →
Sources and Connected Readings
Continue from these 38 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.18local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷