🪷 Mahābhārata · Śānti-Parva · Chapter 17

The Book of Peace · the great dharma-śāstra · Parva 12 · 23 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 23 Shlokas

MBh 12.17.1
युधिष्ठिर उवाच असंतोषः प्रमादश्च मदो रागोऽप्रशान्तता बलं मोहोऽभिमानश्च उद्वेगश्चापि सर्वशः
MBh 12.17.2
एभिः पाप्मभिराविष्टो राज्यं त्वमभिकाङ्क्षसि निरामिषो विनिर्मुक्तः प्रशान्तः सुसुखी भव
MBh 12.17.3
य इमामखिलां भूमिं शिष्यादेको महीपतिः तस्याप्युदरमेवैकं किमिदं त्वं प्रशंससि
MBh 12.17.4
नाह्ना पूरयितुं शक्या न मासेन नरर्षभ अपूर्यां पूरयन्निच्छामायुषापि न शक्नुयात्
MBh 12.17.5
यथेद्धः प्रज्वलत्यग्निरसमिद्धः प्रशाम्यति अल्पाहारतया त्वग्निं शमयौदर्यमुत्थितम् जयोदरं पृथिव्या ते श्रेयो निर्जितया जितम्
MBh 12.17.6
मानुषान्कामभोगांस्त्वमैश्वर्यं च प्रशंससि अभोगिनोऽबलाश्चैव यान्ति स्थानमनुत्तमम्
MBh 12.17.7
योगक्षेमौ च राष्ट्रस्य धर्माधर्मौ त्वयि स्थितौ मुच्यस्व महतो भारात्त्यागमेवाभिसंश्रय
MBh 12.17.8
एकोदरकृते व्याघ्रः करोति विघसं बहु तमन्येऽप्युपजीवन्ति मन्दवेगंचरा मृगाः
MBh 12.17.9
विषयान्प्रतिसंहृत्य संन्यासं कुरुते यतिः न च तुष्यन्ति राजानः पश्य बुद्ध्यन्तरं यथा
MBh 12.17.10
पत्राहारैरश्मकुट्टैर्दन्तोलूखलिकैस्तथा अब्भक्षैर्वायुभक्षैश्च तैरयं नरको जितः
MBh 12.17.11
यश्चेमां वसुधां कृत्स्नां प्रशासेदखिलां नृपः तुल्याश्मकाञ्चनो यश्च स कृतार्थो न पार्थिवः
MBh 12.17.12
संकल्पेषु निरारम्भो निराशो निर्ममो भव विशोकं स्थानमातिष्ठ इह चामुत्र चाव्ययम्
MBh 12.17.13
निरामिषा न शोचन्ति शोचसि त्वं किमामिषम् परित्यज्यामिषं सर्वं मृषावादात्प्रमोक्ष्यसे
MBh 12.17.14
पन्थानौ पितृयानश्च देवयानश्च विश्रुतौ ईजानाः पितृयानेन देवयानेन मोक्षिणः
MBh 12.17.15
तपसा ब्रह्मचर्येण स्वाध्यायेन च पाविताः विमुच्य देहान्वै भान्ति मृत्योरविषयं गताः
MBh 12.17.16
आमिषं बन्धनं लोके कर्मेहोक्तं तथामिषम् ताभ्यां विमुक्तः पाशाभ्यां पदमाप्नोति तत्परम्
MBh 12.17.17
अपि गाथामिमां गीतां जनकेन वदन्त्युत निर्द्वंद्वेन विमुक्तेन मोक्षं समनुपश्यता
MBh 12.17.18
अनन्तं बत मे वित्तं यस्य मे नास्ति किंचन मिथिलायां प्रदीप्तायां न मे दह्यति किंचन
MBh 12.17.19
प्रज्ञाप्रासादमारुह्य नशोच्याञ्शोचतो जनान् जगतीस्थानिवाद्रिस्थो मन्दबुद्धीनवेक्षते
MBh 12.17.20
दृश्यं पश्यति यः पश्यन्स चक्षुष्मान्स बुद्धिमान् अज्ञातानां च विज्ञानात्संबोधाद्बुद्धिरुच्यते
MBh 12.17.21
यस्तु वाचं विजानाति बहुमानमियात्स वै ब्रह्मभावप्रसूतानां वैद्यानां भावितात्मनाम्
MBh 12.17.22
यदा भूतपृथग्भावमेकस्थमनुपश्यति तत एव च विस्तारं ब्रह्म संपद्यते तदा
MBh 12.17.23
ते जनास्तां गतिं यान्ति नाविद्वांसोऽल्पचेतसः नाबुद्धयो नातपसः सर्वं बुद्धौ प्रतिष्ठितम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 23 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.17local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷