🪷 Mahābhārata · Śānti-Parva · Chapter 162

The Book of Peace · the great dharma-śāstra · Parva 12 · 49 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 49 Shlokas

MBh 12.162.1
युधिष्ठिर उवाच पितामह महाप्राज्ञ कुरूणां कीर्तिवर्धन प्रश्नं कंचित्प्रवक्ष्यामि तन्मे व्याख्यातुमर्हसि
MBh 12.162.2
कीदृशा मानवाः सौम्याः कैः प्रीतिः परमा भवेत् आयत्यां च तदात्वे च के क्षमास्तान्वदस्व मे
MBh 12.162.3
न हि तत्र धनं स्फीतं न च संबन्धिबान्धवाः तिष्ठन्ति यत्र सुहृदस्तिष्ठन्तीति मतिर्मम
MBh 12.162.4
दुर्लभो हि सुहृच्छ्रोता दुर्लभश्च हितः सुहृत् एतद्धर्मभृतां श्रेष्ठ सर्वं व्याख्यातुमर्हसि
MBh 12.162.5
भीष्म उवाच संधेयान्पुरुषान्राजन्नसंधेयांश्च तत्त्वतः वदतो मे निबोध त्वं निखिलेन युधिष्ठिर
MBh 12.162.6
लुब्धः क्रूरस्त्यक्तधर्मा निकृतः शठ एव च क्षुद्रः पापसमाचारः सर्वशङ्की तथालसः
MBh 12.162.7
दीर्घसूत्रोऽनृजुः कष्टो गुरुदारप्रधर्षकः व्यसने यः परित्यागी दुरात्मा निरपत्रपः
MBh 12.162.8
सर्वतः पापदर्शी च नास्तिको वेदनिन्दकः संप्रकीर्णेन्द्रियो लोके यः कामनिरतश्चरेत्
MBh 12.162.9
असत्यो लोकविद्विष्टः समये चानवस्थितः पिशुनोऽथाकृतप्रज्ञो मत्सरी पापनिश्चयः
MBh 12.162.10
दुःशीलोऽथाकृतात्मा च नृशंसः कितवस्तथा मित्रैरर्थकृती नित्यमिच्छत्यर्थपरश्च यः
MBh 12.162.11
वहतश्च यथाशक्ति यो न तुष्यति मन्दधीः अमित्रमिव यो भुङ्क्ते सदा मित्रं नरर्षभ
MBh 12.162.12
अस्थानक्रोधनो यश्च अकस्माच्च विरज्यते सुहृदश्चैव कल्याणानाशु त्यजति किल्बिषी
MBh 12.162.13
अल्पेऽप्यपकृते मूढस्तथाज्ञानात्कृतेऽपि च कार्योपसेवी मित्रेषु मित्रद्वेषी नराधिप
MBh 12.162.14
शत्रुर्मित्रमुखो यश्च जिह्मप्रेक्षी विलोभनः न रज्यति च कल्याणे यस्त्यजेत्तादृशं नरम्
MBh 12.162.15
पानपो द्वेषणः क्रूरो निर्घृणः परुषस्तथा परोपतापी मित्रध्रुक्तथा प्राणिवधे रतः
MBh 12.162.16
कृतघ्नश्चाधमो लोके न संधेयः कथंचन छिद्रान्वेषी न संधेयः संधेयानपि मे शृणु
MBh 12.162.17
कुलीना वाक्यसंपन्ना ज्ञानविज्ञानकोविदाः मित्रज्ञाश्च कृतज्ञाश्च सर्वज्ञाः शोकवर्जिताः
MBh 12.162.18
माधुर्यगुणसंपन्नाः सत्यसंधा जितेन्द्रियाः व्यायामशीलाः सततं भृतपुत्राः कुलोद्गताः
MBh 12.162.19
रूपवन्तो गुणोपेतास्तथालुब्धा जितश्रमाः दोषैर्वियुक्ताः प्रथितैस्ते ग्राह्याः पार्थिवेन ह
MBh 12.162.20
यथाशक्तिसमाचाराः सन्तस्तुष्यन्ति हि प्रभो नास्थाने क्रोधवन्तश्च न चाकस्माद्विरागिणः
MBh 12.162.21
विरक्ताश्च न रुष्यन्ति मनसाप्यर्थकोविदाः आत्मानं पीडयित्वापि सुहृत्कार्यपरायणाः न विरज्यन्ति मित्रेभ्यो वासो रक्तमिवाविकम्
MBh 12.162.22
दोषांश्च लोभमोहादीनर्थेषु युवतिष्वथ न दर्शयन्ति सुहृदां विश्वस्ता बन्धुवत्सलाः
MBh 12.162.23
लोष्टकाञ्चनतुल्यार्थाः सुहृत्स्वशठबुद्धयः ये चरन्त्यनभीमाना निसृष्टार्थविभूषणाः संगृह्णन्तः परिजनं स्वाम्यर्थपरमाः सदा
MBh 12.162.24
ईदृशैः पुरुषश्रेष्ठैः संधिं यः कुरुते नृपः तस्य विस्तीर्यते राष्ट्रं ज्योत्स्ना ग्रहपतेरिव
MBh 12.162.25
शास्त्रनित्या जितक्रोधा बलवन्तो रणप्रियाः क्षान्ताः शीलगुणोपेताः संधेयाः पुरुषोत्तमाः
MBh 12.162.26
ये च दोषसमायुक्ता नराः प्रोक्ता मयानघ तेषामप्यधमो राजन्कृतघ्नो मित्रघातकः त्यक्तव्यः स दुराचारः सर्वेषामिति निश्चयः
MBh 12.162.27
युधिष्ठिर उवाच विस्तरेणार्थसंबन्धं श्रोतुमिच्छामि पार्थिव मित्रद्रोही कृतघ्नश्च यः प्रोक्तस्तं च मे वद
MBh 12.162.28
भीष्म उवाच हन्त ते वर्तयिष्येऽहमितिहासं पुरातनम् उदीच्यां दिशि यद्वृत्तं म्लेच्छेषु मनुजाधिप
MBh 12.162.29
ब्राह्मणो मध्यदेशीयः कृष्णाङ्गो ब्रह्मवर्जितः ग्रामं प्रेक्ष्य जनाकीर्णं प्राविशद्भैक्षकाङ्क्षया
MBh 12.162.30
तत्र दस्युर्धनयुतः सर्ववर्णविशेषवित् ब्रह्मण्यः सत्यसंधश्च दाने च निरतोऽभवत्
MBh 12.162.31
तस्य क्षयमुपागम्य ततो भिक्षामयाचत प्रतिश्रयं च वासार्थं भिक्षां चैवाथ वार्षिकीम्
MBh 12.162.32
प्रादात्तस्मै स विप्राय वस्त्रं च सदृशं नवम् नारीं चापि वयोपेतां भर्त्रा विरहितां तदा
MBh 12.162.33
एतत्संप्राप्य हृष्टात्मा दस्योः सर्वं द्विजस्तदा तस्मिन्गृहवरे राजंस्तया रेमे स गौतमः
MBh 12.162.34
कुटुम्बार्थेषु दस्योः स साहाय्यं चाप्यथाकरोत् तत्रावसत्सोऽथ वर्षाः समृद्धे शबरालये बाणवेध्ये परं यत्नमकरोच्चैव गौतमः
MBh 12.162.35
वक्राङ्गांस्तु स नित्यं वै सर्वतो बाणगोचरे जघान गौतमो राजन्यथा दस्युगणस्तथा
MBh 12.162.36
हिंसापरो घृणाहीनः सदा प्राणिवधे रतः गौतमः संनिकर्षेण दस्युभिः समतामियात्
MBh 12.162.37
तथा तु वसतस्तस्य दस्युग्रामे सुखं तदा अगच्छन्बहवो मासा निघ्नतः पक्षिणो बहून्
MBh 12.162.38
ततः कदाचिदपरो द्विजस्तं देशमागमत् जटी चीराजिनधरः स्वाध्यायपरमः शुचिः
MBh 12.162.39
विनीतो नियताहारो ब्रह्मण्यो वेदपारगः सब्रह्मचारी तद्देश्यः सखा तस्यैव सुप्रियम् तं दस्युग्राममगमद्यत्रासौ गौतमोऽभवत्
MBh 12.162.40
स तु विप्रगृहान्वेषी शूद्रान्नपरिवर्जकः ग्रामे दस्युजनाकीर्णे व्यचरत्सर्वतोदिशम्
MBh 12.162.41
ततः स गौतमगृहं प्रविवेश द्विजोत्तमः गौतमश्चापि संप्राप्तस्तावन्योन्येन संगतौ
MBh 12.162.42
वक्राङ्गभारहस्तं तं धनुष्पाणिं कृतागसम् रुधिरेणावसिक्ताङ्गं गृहद्वारमुपागतम्
MBh 12.162.43
तं दृष्ट्वा पुरुषादाभमपध्वस्तं क्षयागतम् अभिज्ञाय द्विजो व्रीडामगमद्वाक्यमाह च
MBh 12.162.44
किमिदं कुरुषे मौढ्याद्विप्रस्त्वं हि कुलोद्गतः मध्यदेशपरिज्ञातो दस्युभावं गतः कथम्
MBh 12.162.45
पूर्वान्स्मर द्विजाग्र्यांस्तान्प्रख्यातान्वेदपारगान् येषां वंशेऽभिजातस्त्वमीदृशः कुलपांसनः
MBh 12.162.46
अवबुध्यात्मनात्मानं सत्यं शीलं श्रुतं दमम् अनुक्रोशं च संस्मृत्य त्यज वासमिमं द्विज
MBh 12.162.47
एवमुक्तः स सुहृदा तदा तेन हितैषिणा प्रत्युवाच ततो राजन्विनिश्चित्य तदार्तवत्
MBh 12.162.48
अधनोऽस्मि द्विजश्रेष्ठ न च वेदविदप्यहम् वृत्त्यर्थमिह संप्राप्तं विद्धि मां द्विजसत्तम
MBh 12.162.49
त्वद्दर्शनात्तु विप्रर्षे कृतार्थं वेद्म्यहं द्विज आत्मानं सह यास्यावः श्वो वसाद्येह शर्वरीम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 49 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.162local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷