🪷 Mahābhārata · Śānti-Parva · Chapter 161
The Book of Peace · the great dharma-śāstra · Parva 12 · 48 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 48 Shlokas
MBh 12.161.1
वैशंपायन उवाच
इत्युक्तवति भीष्मे तु तूष्णींभूते युधिष्ठिरः
पप्रच्छावसरं गत्वा भ्रातॄन्विदुरपञ्चमान्
MBh 12.161.2
धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता
तेषां गरीयान्कतमो मध्यमः को लघुश्च कः
MBh 12.161.3
कस्मिंश्चात्मा नियन्तव्यस्त्रिवर्गविजयाय वै
संतुष्टा नैष्ठिकं वाक्यं यथावद्वक्तुमर्हथ
MBh 12.161.4
ततोऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान्
जगाद विदुरो वाक्यं धर्मशास्त्रमनुस्मरन्
MBh 12.161.5
बाहुश्रुत्यं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा
भावशुद्धिर्दया सत्यं संयमश्चात्मसंपदः
MBh 12.161.6
एतदेवाभिपद्यस्व मा ते भूच्चलितं मनः
एतन्मूलौ हि धर्मार्थावेतदेकपदं हितम्
MBh 12.161.7
धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः
धर्मेण देवा दिविगा धर्मे चार्थः समाहितः
MBh 12.161.8
धर्मो राजन्गुणश्रेष्ठो मध्यमो ह्यर्थ उच्यते
कामो यवीयानिति च प्रवदन्ति मनीषिणः
तस्माद्धर्मप्रधानेन भवितव्यं यतात्मना
MBh 12.161.9
समाप्तवचने तस्मिन्नर्थशास्त्रविशारदः
पार्थो वाक्यार्थतत्त्वज्ञो जगौ वाक्यमतन्द्रितः
MBh 12.161.10
कर्मभूमिरियं राजन्निह वार्त्ता प्रशस्यते
कृषिवाणिज्यगोरक्ष्यं शिल्पानि विविधानि च
MBh 12.161.11
अर्थ इत्येव सर्वेषां कर्मणामव्यतिक्रमः
न ऋतेऽर्थेन वर्तेते धर्मकामाविति श्रुतिः
MBh 12.161.12
विजयी ह्यर्थवान्धर्ममाराधयितुमुत्तमम्
कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः
MBh 12.161.13
अर्थस्यावयवावेतौ धर्मकामाविति श्रुतिः
अर्थसिद्ध्या हि निर्वृत्तावुभावेतौ भविष्यतः
MBh 12.161.14
उद्भूतार्थं हि पुरुषं विशिष्टतरयोनयः
ब्रह्माणमिव भूतानि सततं पर्युपासते
MBh 12.161.15
जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः
मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक्
MBh 12.161.16
काषायवसनाश्चान्ये श्मश्रुला ह्रीसुसंवृताः
विद्वांसश्चैव शान्ताश्च मुक्ताः सर्वपरिग्रहैः
MBh 12.161.17
अर्थार्थिनः सन्ति केचिदपरे स्वर्गकाङ्क्षिणः
कुलप्रत्यागमाश्चैके स्वं स्वं मार्गमनुष्ठिताः
MBh 12.161.18
आस्तिका नास्तिकाश्चैव नियताः संयमे परे
अप्रज्ञानं तमोभूतं प्रज्ञानं तु प्रकाशता
MBh 12.161.19
भृत्यान्भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान्
एतन्मतिमतां श्रेष्ठ मतं मम यथातथम्
अनयोस्तु निबोध त्वं वचनं वाक्यकण्ठयोः
MBh 12.161.20
ततो धर्मार्थकुशलौ माद्रीपुत्रावनन्तरम्
नकुलः सहदेवश्च वाक्यं जगदतुः परम्
MBh 12.161.21
आसीनश्च शयानश्च विचरन्नपि च स्थितः
अर्थयोगं दृढं कुर्याद्योगैरुच्चावचैरपि
MBh 12.161.22
अस्मिंस्तु वै सुसंवृत्ते दुर्लभे परमप्रिये
इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः
MBh 12.161.23
योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः
मध्विवामृतसंयुक्तं तस्मादेतौ मताविह
MBh 12.161.24
अनर्थस्य न कामोऽस्ति तथार्थोऽधर्मिणः कुतः
तस्मादुद्विजते लोको धर्मार्थाद्यो बहिष्कृतः
MBh 12.161.25
तस्माद्धर्मप्रधानेन साध्योऽर्थः संयतात्मना
विश्वस्तेषु च भूतेषु कल्पते सर्व एव हि
MBh 12.161.26
धर्मं समाचरेत्पूर्वं तथार्थं धर्मसंयुतम्
ततः कामं चरेत्पश्चात्सिद्धार्थस्य हि तत्फलम्
MBh 12.161.27
विरेमतुस्तु तद्वाक्यमुक्त्वा तावश्विनोः सुतौ
भीमसेनस्तदा वाक्यमिदं वक्तुं प्रचक्रमे
MBh 12.161.28
नाकामः कामयत्यर्थं नाकामो धर्ममिच्छति
नाकामः कामयानोऽस्ति तस्मात्कामो विशिष्यते
MBh 12.161.29
कामेन युक्ता ऋषयस्तपस्येव समाहिताः
पलाशफलमूलाशा वायुभक्षाः सुसंयताः
MBh 12.161.30
वेदोपवादेष्वपरे युक्ताः स्वाध्यायपारगाः
श्राद्धयज्ञक्रियायां च तथा दानप्रतिग्रहे
MBh 12.161.31
वणिजः कर्षका गोपाः कारवः शिल्पिनस्तथा
दैवकर्मकृतश्चैव युक्ताः कामेन कर्मसु
MBh 12.161.32
समुद्रं चाविशन्त्यन्ये नराः कामेन संयुताः
कामो हि विविधाकारः सर्वं कामेन संततम्
MBh 12.161.33
नास्ति नासीन्नाभविष्यद्भूतं कामात्मकात्परम्
एतत्सारं महाराज धर्मार्थावत्र संश्रितौ
MBh 12.161.34
नवनीतं यथा दध्नस्तथा कामोऽर्थधर्मतः
श्रेयस्तैलं च पिण्याकाद्घृतं श्रेय उदश्वितः
MBh 12.161.35
श्रेयः पुष्पफलं काष्ठात्कामो धर्मार्थयोर्वरः
पुष्पतो मध्विव रसः कामात्संजायते सुखम्
MBh 12.161.36
सुचारुवेषाभिरलंकृताभि;र्मदोत्कटाभिः प्रियवादिनीभिः
रमस्व योषाभिरुपेत्य कामं; कामो हि राजंस्तरसाभिपाती
MBh 12.161.37
बुद्धिर्ममैषा परिषत्स्थितस्य; मा भूद्विचारस्तव धर्मपुत्र
स्यात्संहितं सद्भिरफल्गुसारं; समेत्य वाक्यं परमानृशंस्यम्
MBh 12.161.38
धर्मार्थकामाः सममेव सेव्या; यस्त्वेकसेवी स नरो जघन्यः
द्वयोस्तु दक्षं प्रवदन्ति मध्यं; स उत्तमो यो निरतस्त्रिवर्गे
MBh 12.161.39
प्राज्ञः सुहृच्चन्दनसारलिप्तो; विचित्रमाल्याभरणैरुपेतः
ततो वचः संग्रहविग्रहेण; प्रोक्त्वा यवीयान्विरराम भीमः
MBh 12.161.40
ततो मुहूर्तादथ धर्मराजो; वाक्यानि तेषामनुचिन्त्य सम्यक्
उवाच वाचावितथं स्मयन्वै; बहुश्रुतो धर्मभृतां वरिष्ठः
MBh 12.161.41
निःसंशयं निश्चितधर्मशास्त्राः; सर्वे भवन्तो विदितप्रमाणाः
विज्ञातुकामस्य ममेह वाक्य;मुक्तं यद्वै नैष्ठिकं तच्छ्रुतं मे
इह त्ववश्यं गदतो ममापि; वाक्यं निबोधध्वमनन्यभावाः
MBh 12.161.42
यो वै न पापे निरतो न पुण्ये; नार्थे न धर्मे मनुजो न कामे
विमुक्तदोषः समलोष्टकाञ्चनः; स मुच्यते दुःखसुखार्थसिद्धेः
MBh 12.161.43
भूतानि जातीमरणान्वितानि; जराविकारैश्च समन्वितानि
भूयश्च तैस्तैः प्रतिबोधितानि; मोक्षं प्रशंसन्ति न तं च विद्मः
MBh 12.161.44
स्नेहे नबद्धस्य न सन्ति तानी;त्येवं स्वयंभूर्भगवानुवाच
बुधाश्च निर्वाणपरा वदन्ति; तस्मान्न कुर्यात्प्रियमप्रियं च
MBh 12.161.45
एतत्प्रधानं न तु कामकारो; यथा नियुक्तोऽस्मि तथा चरामि
भूतानि सर्वाणि विधिर्नियुङ्क्ते; विधिर्बलीयानिति वित्त सर्वे
MBh 12.161.46
न कर्मणाप्नोत्यनवाप्यमर्थं; यद्भावि सर्वं भवतीति वित्त
त्रिवर्गहीनोऽपि हि विन्दतेऽर्थं; तस्मादिदं लोकहिताय गुह्यम्
MBh 12.161.47
ततस्तदग्र्यं वचनं मनोनुगं; समस्तमाज्ञाय ततोऽतिहेतुमत्
तदा प्रणेदुश्च जहर्षिरे च ते; कुरुप्रवीराय च चक्रुरञ्जलीन्
MBh 12.161.48
सुचारुवर्णाक्षरशब्दभूषितां; मनोनुगां निर्धुतवाक्यकण्टकाम्
निशम्य तां पार्थिव पार्थभाषितां; गिरं नरेन्द्राः प्रशशंसुरेव ते
पुनश्च पप्रच्छ सरिद्वरासुतं; ततः परं धर्ममहीनसत्त्वः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 160
- Next chapter · Śānti-Parva Ch 162 →
Sources and Connected Readings
Continue from these 48 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.161local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷