🪷 Mahābhārata · Śānti-Parva · Chapter 15
The Book of Peace · the great dharma-śāstra · Parva 12 · 58 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 58 Shlokas
MBh 12.15.1
वैशंपायन उवाच
याज्ञसेन्या वचः श्रुत्वा पुनरेवार्जुनोऽब्रवीत्
अनुमान्य महाबाहुं ज्येष्ठं भ्रातरमीश्वरम्
MBh 12.15.2
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः
MBh 12.15.3
धर्मं संरक्षते दण्डस्तथैवार्थं नराधिप
कामं संरक्षते दण्डस्त्रिवर्गो दण्ड उच्यते
MBh 12.15.4
दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते
एतद्विद्वन्नुपादत्स्व स्वभावं पश्य लौकिकम्
MBh 12.15.5
राजदण्डभयादेके पापाः पापं न कुर्वते
यमदण्डभयादेके परलोकभयादपि
MBh 12.15.6
परस्परभयादेके पापाः पापं न कुर्वते
एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम्
MBh 12.15.7
दण्डस्यैव भयादेके न खादन्ति परस्परम्
अन्धे तमसि मज्जेयुर्यदि दण्डो न पालयेत्
MBh 12.15.8
यस्माददान्तान्दमयत्यशिष्टान्दण्डयत्यपि
दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः
MBh 12.15.9
वाचि दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम्
दानदण्डः स्मृतो वैश्यो निर्दण्डः शूद्र उच्यते
MBh 12.15.10
असंमोहाय मर्त्यानामर्थसंरक्षणाय च
मर्यादा स्थापिता लोके दण्डसंज्ञा विशां पते
MBh 12.15.11
यत्र श्यामो लोहिताक्षो दण्डश्चरति सूनृतः
प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति
MBh 12.15.12
ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः
दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः
MBh 12.15.13
नाभीतो यजते राजन्नाभीतो दातुमिच्छति
नाभीतः पुरुषः कश्चित्समये स्थातुमिच्छति
MBh 12.15.14
नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम्
नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम्
MBh 12.15.15
नाघ्नतः कीर्तिरस्तीह न वित्तं न पुनः प्रजाः
इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत
MBh 12.15.16
य एव देवा हन्तारस्ताँल्लोकोऽर्चयते भृशम्
हन्ता रुद्रस्तथा स्कन्दः शक्रोऽग्निर्वरुणो यमः
MBh 12.15.17
हन्ता कालस्तथा वायुर्मृत्युर्वैश्रवणो रविः
वसवो मरुतः साध्या विश्वेदेवाश्च भारत
MBh 12.15.18
एतान्देवान्नमस्यन्ति प्रतापप्रणता जनाः
न ब्रह्माणं न धातारं न पूषाणं कथंचन
MBh 12.15.19
मध्यस्थान्सर्वभूतेषु दान्ताञ्शमपरायणान्
यजन्ते मानवाः केचित्प्रशान्ताः सर्वकर्मसु
MBh 12.15.20
न हि पश्यामि जीवन्तं लोके कंचिदहिंसया
सत्त्वैः सत्त्वानि जीवन्ति दुर्बलैर्बलवत्तराः
MBh 12.15.21
नकुलो मूषकानत्ति बिडालो नकुलं तथा
बिडालमत्ति श्वा राजञ्श्वानं व्यालमृगस्तथा
MBh 12.15.22
तानत्ति पुरुषः सर्वान्पश्य धर्मो यथागतः
प्राणस्यान्नमिदं सर्वं जङ्गमं स्थावरं च यत्
MBh 12.15.23
विधानं देवविहितं तत्र विद्वान्न मुह्यति
यथा सृष्टोऽसि राजेन्द्र तथा भवितुमर्हसि
MBh 12.15.24
विनीतक्रोधहर्षा हि मन्दा वनमुपाश्रिताः
विना वधं न कुर्वन्ति तापसाः प्राणयापनम्
MBh 12.15.25
उदके बहवः प्राणाः पृथिव्यां च फलेषु च
न च कश्चिन्न तान्हन्ति किमन्यत्प्राणयापनात्
MBh 12.15.26
सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित्
पक्ष्मणोऽपि निपातेन येषां स्यात्स्कन्धपर्ययः
MBh 12.15.27
ग्रामान्निष्क्रम्य मुनयो विगतक्रोधमत्सराः
वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः
MBh 12.15.28
भूमिं भित्त्वौषधीश्छित्त्वा वृक्षादीनण्डजान्पशून्
मनुष्यास्तन्वते यज्ञांस्ते स्वर्गं प्राप्नुवन्ति च
MBh 12.15.29
दण्डनीत्यां प्रणीतायां सर्वे सिध्यन्त्युपक्रमाः
कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः
MBh 12.15.30
दण्डश्चेन्न भवेल्लोके व्यनशिष्यन्निमाः प्रजाः
शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः
MBh 12.15.31
सत्यं चेदं ब्रह्मणा पूर्वमुक्तं; दण्डः प्रजा रक्षति साधु नीतः
पश्याग्नयश्च प्रतिशाम्यन्त्यभीताः; संतर्जिता दण्डभयाज्ज्वलन्ति
MBh 12.15.32
अन्धं तम इवेदं स्यान्न प्रज्ञायेत किंचन
दण्डश्चेन्न भवेल्लोके विभजन्साध्वसाधुनी
MBh 12.15.33
येऽपि संभिन्नमर्यादा नास्तिका वेदनिन्दकाः
तेऽपि भोगाय कल्पन्ते दण्डेनोपनिपीडिताः
MBh 12.15.34
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः
दण्डस्य हि भयाद्भीतो भोगायेह प्रकल्पते
MBh 12.15.35
चातुर्वर्ण्याप्रमोहाय सुनीतनयनाय च
दण्डो विधात्रा विहितो धर्मार्थावभिरक्षितुम्
MBh 12.15.36
यदि दण्डान्न बिभ्येयुर्वयांसि श्वापदानि च
अद्युः पशून्मनुष्यांश्च यज्ञार्थानि हवींषि च
MBh 12.15.37
न ब्रह्मचार्यधीयीत कल्याणी गौर्न दुह्यते
न कन्योद्वहनं गच्छेद्यदि दण्डो न पालयेत्
MBh 12.15.38
विश्वलोपः प्रवर्तेत भिद्येरन्सर्वसेतवः
ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत्
MBh 12.15.39
न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः
विधिवद्दक्षिणावन्ति यदि दण्डो न पालयेत्
MBh 12.15.40
चरेयुर्नाश्रमे धर्मं यथोक्तं विधिमाश्रिताः
न विद्यां प्राप्नुयात्कश्चिद्यदि दण्डो न पालयेत्
MBh 12.15.41
न चोष्ट्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः
युक्ता वहेयुर्यानानि यदि दण्डो न पालयेत्
MBh 12.15.42
न प्रेष्या वचनं कुर्युर्न बालो जातु कर्हिचित्
तिष्ठेत्पितृमते धर्मे यदि दण्डो न पालयेत्
MBh 12.15.43
दण्डे स्थिताः प्रजाः सर्वा भयं दण्डं विदुर्बुधाः
दण्डे स्वर्गो मनुष्याणां लोकोऽयं च प्रतिष्ठितः
MBh 12.15.44
न तत्र कूटं पापं वा वञ्चना वापि दृश्यते
यत्र दण्डः सुविहितश्चरत्यरिविनाशनः
MBh 12.15.45
हविः श्वा प्रपिबेद्धृष्टो दण्डश्चेन्नोद्यतो भवेत्
हरेत्काकः पुरोडाशं यदि दण्डो न पालयेत्
MBh 12.15.46
यदिदं धर्मतो राज्यं विहितं यद्यधर्मतः
कार्यस्तत्र न शोको वै भुङ्क्ष्व भोगान्यजस्व च
MBh 12.15.47
सुखेन धर्मं श्रीमन्तश्चरन्ति शुचिवाससः
संवसन्तः प्रियैर्दारैर्भुञ्जानाश्चान्नमुत्तमम्
MBh 12.15.48
अर्थे सर्वे समारम्भाः समायत्ता न संशयः
स च दण्डे समायत्तः पश्य दण्डस्य गौरवम्
MBh 12.15.49
लोकयात्रार्थमेवेह धर्मप्रवचनं कृतम्
अहिंसा साधुहिंसेति श्रेयान्धर्मपरिग्रहः
MBh 12.15.50
नात्यन्तगुणवान्कश्चिन्न चाप्यत्यन्तनिर्गुणः
उभयं सर्वकार्येषु दृश्यते साध्वसाधु च
MBh 12.15.51
पशूनां वृषणं छित्त्वा ततो भिन्दन्ति नस्तकान्
कृषन्ति बहवो भारान्बध्नन्ति दमयन्ति च
MBh 12.15.52
एवं पर्याकुले लोके विपथे जर्जरीकृते
तैस्तैर्न्यायैर्महाराज पुराणं धर्ममाचर
MBh 12.15.53
यज देहि प्रजा रक्ष धर्मं समनुपालय
अमित्राञ्जहि कौन्तेय मित्राणि परिपालय
MBh 12.15.54
मा च ते निघ्नतः शत्रून्मन्युर्भवतु भारत
न तत्र किल्बिषं किंचित्कर्तुर्भवति भारत
MBh 12.15.55
आततायी हि यो हन्यादाततायिनमागतम्
न तेन भ्रूणहा स स्यान्मन्युस्तं मन्युमृच्छति
MBh 12.15.56
अवध्यः सर्वभूतानामन्तरात्मा न संशयः
अवध्ये चात्मनि कथं वध्यो भवति केनचित्
MBh 12.15.57
यथा हि पुरुषः शालां पुनः संप्रविशेन्नवाम्
एवं जीवः शरीराणि तानि तानि प्रपद्यते
MBh 12.15.58
देहान्पुराणानुत्सृज्य नवान्संप्रतिपद्यते
एवं मृत्युमुखं प्राहुर्ये जनास्तत्त्वदर्शिनः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 14
- Next chapter · Śānti-Parva Ch 16 →
Sources and Connected Readings
Continue from these 58 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.15local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷