🪷 Mahābhārata · Śānti-Parva · Chapter 14

The Book of Peace · the great dharma-śāstra · Parva 12 · 39 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 39 Shlokas

MBh 12.14.1
वैशंपायन उवाच अव्याहरति कौन्तेये धर्मराजे युधिष्ठिरे भ्रातॄणां ब्रुवतां तांस्तान्विविधान्वेदनिश्चयान्
MBh 12.14.2
महाभिजनसंपन्ना श्रीमत्यायतलोचना अभ्यभाषत राजेन्द्रं द्रौपदी योषितां वरा
MBh 12.14.3
आसीनमृषभं राज्ञां भ्रातृभिः परिवारितम् सिंहशार्दूलसदृशैर्वारणैरिव यूथपम्
MBh 12.14.4
अभिमानवती नित्यं विशेषेण युधिष्ठिरे लालिता सततं राज्ञा धर्मज्ञा धर्मदर्शिनी
MBh 12.14.5
आमन्त्र्य विपुलश्रोणी साम्ना परमवल्गुना भर्तारमभिसंप्रेक्ष्य ततो वचनमब्रवीत्
MBh 12.14.6
इमे ते भ्रातरः पार्थ शुष्यन्त स्तोकका इव वावाश्यमानास्तिष्ठन्ति न चैनानभिनन्दसे
MBh 12.14.7
नन्दयैतान्महाराज मत्तानिव महाद्विपान् उपपन्नेन वाक्येन सततं दुःखभागिनः
MBh 12.14.8
कथं द्वैतवने राजन्पूर्वमुक्त्वा तथा वचः भ्रातॄनेतान्स्म सहिताञ्शीतवातातपार्दितान्
MBh 12.14.9
वयं दुर्योधनं हत्वा मृधे भोक्ष्याम मेदिनीम् संपूर्णां सर्वकामानामाहवे विजयैषिणः
MBh 12.14.10
विरथांश्च रथान्कृत्वा निहत्य च महागजान् संस्तीर्य च रथैर्भूमिं ससादिभिररिंदमाः
MBh 12.14.11
यजतां विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः वनवासकृतं दुःखं भविष्यति सुखाय नः
MBh 12.14.12
इत्येतानेवमुक्त्वा त्वं स्वयं धर्मभृतां वर कथमद्य पुनर्वीर विनिहंसि मनांस्युत
MBh 12.14.13
न क्लीबो वसुधां भुङ्क्ते न क्लीबो धनमश्नुते न क्लीबस्य गृहे पुत्रा मत्स्याः पङ्क इवासते
MBh 12.14.14
नादण्डः क्षत्रियो भाति नादण्डो भूतिमश्नुते नादण्डस्य प्रजा राज्ञः सुखमेधन्ति भारत
MBh 12.14.15
मित्रता सर्वभूतेषु दानमध्ययनं तपः ब्राह्मणस्यैष धर्मः स्यान्न राज्ञो राजसत्तम
MBh 12.14.16
असतां प्रतिषेधश्च सतां च परिपालनम् एष राज्ञां परो धर्मः समरे चापलायनम्
MBh 12.14.17
यस्मिन्क्षमा च क्रोधश्च दानादाने भयाभये निग्रहानुग्रहौ चोभौ स वै धर्मविदुच्यते
MBh 12.14.18
न श्रुतेन न दानेन न सान्त्वेन न चेज्यया त्वयेयं पृथिवी लब्धा नोत्कोचेन तथाप्युत
MBh 12.14.19
यत्तद्बलममित्राणां तथा वीरसमुद्यतम् हस्त्यश्वरथसंपन्नं त्रिभिरङ्गैर्महत्तरम्
MBh 12.14.20
रक्षितं द्रोणकर्णाभ्यामश्वत्थाम्ना कृपेण च तत्त्वया निहतं वीर तस्माद्भुङ्क्ष्व वसुंधराम्
MBh 12.14.21
जम्बूद्वीपो महाराज नानाजनपदायुतः त्वया पुरुषशार्दूल दण्डेन मृदितः प्रभो
MBh 12.14.22
जम्बूद्वीपेन सदृशः क्रौञ्चद्वीपो नराधिप अपरेण महामेरोर्दण्डेन मृदितस्त्वया
MBh 12.14.23
क्रौञ्चद्वीपेन सदृशः शाकद्वीपो नराधिप पूर्वेण तु महामेरोर्दण्डेन मृदितस्त्वया
MBh 12.14.24
उत्तरेण महामेरोः शाकद्वीपेन संमितः भद्राश्वः पुरुषव्याघ्र दण्डेन मृदितस्त्वया
MBh 12.14.25
द्वीपाश्च सान्तरद्वीपा नानाजनपदालयाः विगाह्य सागरं वीर दण्डेन मृदितास्त्वया
MBh 12.14.26
एतान्यप्रतिमानि त्वं कृत्वा कर्माणि भारत न प्रीयसे महाराज पूज्यमानो द्विजातिभिः
MBh 12.14.27
स त्वं भ्रातॄनिमान्दृष्ट्वा प्रतिनन्दस्व भारत ऋषभानिव संमत्तान्गजेन्द्रानूर्जितानिव
MBh 12.14.28
अमरप्रतिमाः सर्वे शत्रुसाहाः परंतपाः एकोऽपि हि सुखायैषां क्षमः स्यादिति मे मतिः
MBh 12.14.29
किं पुनः पुरुषव्याघ्राः पतयो मे नरर्षभाः समस्तानीन्द्रियाणीव शरीरस्य विचेष्टने
MBh 12.14.30
अनृतं माब्रवीच्छ्वश्रूः सर्वज्ञा सर्वदर्शिनी युधिष्ठिरस्त्वां पाञ्चालि सुखे धास्यत्यनुत्तमे
MBh 12.14.31
हत्वा राजसहस्राणि बहून्याशुपराक्रमः तद्व्यर्थं संप्रपश्यामि मोहात्तव जनाधिप
MBh 12.14.32
येषामुन्मत्तको ज्येष्ठः सर्वे तस्योपचारिणः तवोन्मादेन राजेन्द्र सोन्मादाः सर्वपाण्डवाः
MBh 12.14.33
यदि हि स्युरनुन्मत्ता भ्रातरस्ते जनाधिप बद्ध्वा त्वां नास्तिकैः सार्धं प्रशासेयुर्वसुंधराम्
MBh 12.14.34
कुरुते मूढमेवं हि यः श्रेयो नाधिगच्छति धूपैरञ्जनयोगैश्च नस्यकर्मभिरेव च भेषजैः स चिकित्स्यः स्याद्य उन्मार्गेण गच्छति
MBh 12.14.35
साहं सर्वाधमा लोके स्त्रीणां भरतसत्तम तथा विनिकृतामित्रैर्याहमिच्छामि जीवितुम्
MBh 12.14.36
एतेषां यतमानानामुत्पद्यन्ते तु संपदः त्वं तु सर्वां महीं लब्ध्वा कुरुषे स्वयमापदम्
MBh 12.14.37
यथास्तां संमतौ राज्ञां पृथिव्यां राजसत्तमौ मान्धाता चाम्बरीषश्च तथा राजन्विराजसे
MBh 12.14.38
प्रशाधि पृथिवीं देवीं प्रजा धर्मेण पालयन् सपर्वतवनद्वीपां मा राजन्विमना भव
MBh 12.14.39
यजस्व विविधैर्यज्ञैर्जुह्वन्नग्नीन्प्रयच्छ च पुराणि भोगान्वासांसि द्विजातिभ्यो नृपोत्तम

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 39 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.14local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷