🪷 Mahābhārata · Śānti-Parva · Chapter 148
The Book of Peace · the great dharma-śāstra · Parva 12 · 35 shlokas in canonical Devanāgarī Sanskrit
Mahābhārata Detail Source-Anchor Spine
This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.
MBh 12.148local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
The Devanāgarī Yathārtha · 35 Shlokas
MBh 12.148.1
[ष]
तस्मात ते ऽहं परवक्ष्यामि धर्मम आवृत्तचेतसे
शरीमान महाबलस तुष्टॊ यस तवं धर्मम अवेक्षसे
पुरस्ताद दारुणॊ भूत्वा सुचित्रतरम एव तत
MBh 12.148.2
अनुगृह्णन्ति भूतानि सवेन वृत्तेन पार्थिव
कृत्स्ने नूनं सद असती इति लॊकॊ वयवस्यति
यत्र तवं तादृशॊ भूत्वा धर्मम अद्यानुपश्यसि
MBh 12.148.3
हित्वा सुरुचिरं भक्ष्यं भॊगांश च तप आस्थितः
इत्य एतद अपि भूतानाम अद्भुतं जनमेजय
MBh 12.148.4
यॊ दुर्बलॊ भवेद दाता कृपणॊ वा तपॊधनः
अनाश्चर्यं तद इत्य आहुर नातिदूरे हि वर्तते
MBh 12.148.5
एतद एव हि कार्पण्यं समग्रम असमीक्षितम
तस्मात समीक्षयैव सयाद भवेत तस्मिंस ततॊ गुणः
MBh 12.148.6
यज्ञॊ दानं दया वेदाः सत्यं च पृथिवीपते
पञ्चैतानि पवित्राणि षष्ठं सुचरितं तपः
MBh 12.148.7
तद एव राज्ञां परमं पवित्रं जनमेजय
तेन सम्यग गृहीतेन शरेयांसं धर्मम आप्स्यसि
MBh 12.148.8
पुण्यदेशाभिगमनं पवित्रं परमं समृतम
अपि हय उदाहरन्तीमा गाथा गीता ययातिना
MBh 12.148.9
यॊ मर्त्यः परतिपद्येत आयुर जीवेत वा पुनः
यज्ञम एकान्ततः कृत्वा तत संन्यस्य तपश चरेत
MBh 12.148.10
पुण्यम आहुः कुरुक्षेत्रं सरस्वत्यां पृथूदकम
यत्रावगाह्य पीत्वा वा नैवं शवॊ मरणं तपेत
MBh 12.148.11
महासुरः पुष्कराणि परभासॊत्तर मानसे
कालॊदं तव एव गन्तासि लब्धायुर जीविते पुनः
MBh 12.148.12
सरस्वती दृषद्वत्यौ सेवमानॊ ऽनुसंचरेः
सवाध्यायशीलः सथानेषु सर्वेषु समुपस्पृशेः
MBh 12.148.13
तयागधर्मं पवित्राणां संन्यासं परम अब्रवीत
अत्राप्य उदाहरन्तीमा गाथाः सत्यवता कृताः
MBh 12.148.14
यथा कुमारः सत्यॊ वै न पुण्यॊ न च पापकृत
न हय अस्ति सर्वभूतेषु दुःखम अस्मिन कुतः सुखम
MBh 12.148.15
एवं परकृतिभूतानां सर्वसंसर्ग यायिनाम
तयजतां जीवितं परायॊ विवृते पुण्यपातके
MBh 12.148.16
यत तव एव राज्ञॊ जयायॊ वै कार्याणां तद वदामि ते
बलेन संविभागैश च जय सवर्गं पुनीष्व च
MBh 12.148.17
यस्यैवं बलम ओजश च स धर्मस्य परभुर नरः
बराह्मणानां सुखार्थं तवं पर्येहि पृथिवीम इमाम
MBh 12.148.18
यथैवैनान पुराक्षैप्सीस तथैवैनान परसादय
अपि धिक करियमाणॊ ऽपि तयज्यमानॊ ऽपय अनेकधा
MBh 12.148.19
आत्मनॊ दर्शनं विद्वन नाहन्तास्मीति मा करुधः
घटमानः सवकार्येषु कुरु नैःश्रेयसं परम
MBh 12.148.20
हिमाग्नि घॊरसदृशॊ राजा भवति कश चन
लाङ्गलाशनि कल्पॊ वा भवत्य अन्यः परंतप
MBh 12.148.21
न निःशेषेण मन्तव्यम अचिकित्स्येन वा पुनः
न जातु नाहम अस्मीति परसक्तव्यम असाधुषु
MBh 12.148.22
विकर्मणा तप्यमानः पादात पापस्य मुच्यते
नैतत कार्यं पुनर इति दवितीयात परिमुच्यते
चरिष्ये धर्मम एवेति तृतीयात परिमुच्यते
MBh 12.148.23
कल्याणन अनुमन्तव्यं पुरुषेण बुभूषता
ये सुगन्धीनि सेवन्ते तथा गन्धा भवन्ति ते
ये दुर्गन्धीनि सेवन्ते तथा गन्धा भवन्ति ते
MBh 12.148.24
तपश्चर्या परः सद्यः पापाद धि परिमुच्यते
संवत्सरम उपास्याग्निम अभिशस्तः परमुच्यते
तरीणि वर्षाण्य उपास्याग्निं भरूणहा विप्रमुच्यते
MBh 12.148.25
यावतः पराणिनॊ हन्यात तज जातीयान सवभावतः
परमीयमाणान उन्मॊच्य भरूणहा विप्रमुच्यते
MBh 12.148.26
अपि वाप्सु निमज्जेत तरिर जपन्न अघ मर्षणम
यथाश्वमेधावभृथस तथा तन मनुर अब्रवीत
MBh 12.148.27
कषिप्रं परणुदते पापं सत्कारं लभते तथा
अपि चैनं परसीदन्ति भूतानि जड मूकवत
MBh 12.148.28
बृहस्पतिं देव गुरुं सुरासुराः; समेत्य सर्वे नृपते ऽनवयुञ्जन
धर्मे फलं वेत्थ कृते महर्षे; तथेतरस्मिन नरके पापलॊके
MBh 12.148.29
उभे तु यस्य सुकृते भवेतां; किं सवित तयॊस तत्र जयॊत्तरं सयात
आचक्ष्व नः कर्मफलं महर्षे; कथं पापं नुदते पुण्यशीलः
MBh 12.148.30
[ब]
कृत्वा पापं पूर्वम अबुद्धिपूर्वं; पुण्यानि यः कुरुते बुद्धिपूर्वम
स तत पापं नुदते पुण्यशीलॊ; वासॊ यथा मलिनं कषार युक्त्या
MBh 12.148.31
पापं कृत्वा न मन्येत नाहम अस्मीति पूरुषः
चिकीर्षेद एव कल्याणं शरद्दधानॊ ऽनसूयकः
MBh 12.148.32
छिद्राणि वसनस्येव साधुना विवृणॊति यः
यः पापं पुरुषः कृत्वा कल्याणम अभिपद्यते
MBh 12.148.33
यथादित्यः पुनर उद्यंस तमः सर्वं वयपॊहति
कल्याणम आचरन्न एवं सर्वं पापं वयपॊहति
MBh 12.148.34
[भ]
एवम उक्त्वा स राजानम इन्द्रॊतॊ जनमेजयम
याजयाम आस विधिवद वाजिमेधेन शौनकः
MBh 12.148.35
ततः स राजा वयपनीतकल्मषः; शरिया युतः परज्वलिताग्निरूपया
विवेश राज्यं सवम अमित्रकर्शनॊ; दिवं यथा पूर्णवपुर निशाकरः
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 147
- Next chapter · Śānti-Parva Ch 149 →
🪷 जय व्यास भगवान् 🪷