🪷 Mahābhārata · Śānti-Parva · Chapter 147
The Book of Peace · the great dharma-śāstra · Parva 12 · 22 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 22 Shlokas
MBh 12.147.1
भीष्म उवाच
एवमुक्तः प्रत्युवाच तं मुनिं जनमेजयः
गर्ह्यं भवान्गर्हयति निन्द्यं निन्दति मा भवान्
MBh 12.147.2
धिक्कार्यं मा धिक्कुरुते तस्मात्त्वाहं प्रसादये
सर्वं हीदं स्वकृतं मे ज्वलाम्यग्नाविवाहितः
MBh 12.147.3
स्वकर्माण्यभिसंधाय नाभिनन्दति मे मनः
प्राप्तं नूनं मया घोरं भयं वैवस्वतादपि
MBh 12.147.4
तत्तु शल्यमनिर्हृत्य कथं शक्ष्यामि जीवितुम्
सर्वमन्यून्विनीय त्वमभि मा वद शौनक
MBh 12.147.5
महानसं ब्राह्मणानां भविष्याम्यर्थवान्पुनः
अस्तु शेषं कुलस्यास्य मा पराभूदिदं कुलम्
MBh 12.147.6
न हि नो ब्रह्मशप्तानां शेषो भवितुमर्हति
श्रुतीरलभमानानां संविदं वेदनिश्चयात्
MBh 12.147.7
निर्विद्यमानः सुभृशं भूयो वक्ष्यामि सांप्रतम्
भूयश्चैवाभिनङ्क्षन्ति निर्धर्मा निर्जपा इव
MBh 12.147.8
अर्वाक्च प्रतितिष्ठन्ति पुलिन्दशबरा इव
न ह्ययज्ञा अमुं लोकं प्राप्नुवन्ति कथंचन
MBh 12.147.9
अविज्ञायैव मे प्रज्ञां बालस्येव सुपण्डितः
ब्रह्मन्पितेव पुत्रेभ्यः प्रति मां वाञ्छ शौनक
MBh 12.147.10
शौनक उवाच
किमाश्चर्यं यतः प्राज्ञो बहु कुर्याद्धि सांप्रतम्
इति वै पण्डितो भूत्वा भूतानां नोपतप्यति
MBh 12.147.11
प्रज्ञाप्रासादमारुह्य अशोच्यः शोचते जनान्
जगतीस्थानिवाद्रिस्थः प्रज्ञया प्रतिपश्यति
MBh 12.147.12
न चोपलभते तत्र न च कार्याणि पश्यति
निर्विण्णात्मा परोक्षो वा धिक्कृतः सर्वसाधुषु
MBh 12.147.13
विदित्वोभयतो वीर्यं माहात्म्यं वेद आगमे
कुरुष्वेह महाशान्तिं ब्रह्मा शरणमस्तु ते
MBh 12.147.14
तद्वै पारत्रिकं चारु ब्राह्मणानामकुप्यताम्
अथ चेत्तप्यसे पापैर्धर्मं चेदनुपश्यसि
MBh 12.147.15
जनमेजय उवाच
अनुतप्ये च पापेन न चाधर्मं चराम्यहम्
बुभूषुं भजमानं च प्रतिवाञ्छामि शौनक
MBh 12.147.16
शौनक उवाच
छित्त्वा स्तम्भं च मानं च प्रीतिमिच्छामि ते नृप
सर्वभूतहिते तिष्ठ धर्मं चैव प्रतिस्मर
MBh 12.147.17
न भयान्न च कार्पण्यान्न लोभात्त्वामुपाह्वये
तां मे देवा गिरं सत्यां शृण्वन्तु ब्राह्मणैः सह
MBh 12.147.18
सोऽहं न केनचिच्चार्थी त्वां च धर्ममुपाह्वये
क्रोशतां सर्वभूतानामहो धिगिति कुर्वताम्
MBh 12.147.19
वक्ष्यन्ति मामधर्मज्ञा वक्ष्यन्त्यसुहृदो जनाः
वाचस्ताः सुहृदः श्रुत्वा संज्वरिष्यन्ति मे भृशम्
MBh 12.147.20
केचिदेव महाप्राज्ञाः परिज्ञास्यन्ति कार्यताम्
जानीहि मे कृतं तात ब्राह्मणान्प्रति भारत
MBh 12.147.21
यथा ते मत्कृते क्षेमं लभेरंस्तत्तथा कुरु
प्रतिजानीहि चाद्रोहं ब्राह्मणानां नराधिप
MBh 12.147.22
जनमेजय उवाच
नैव वाचा न मनसा न पुनर्जातु कर्मणा
द्रोग्धास्मि ब्राह्मणान्विप्र चरणावेव ते स्पृशे
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 146
- Next chapter · Śānti-Parva Ch 148 →
Sources and Connected Readings
Continue from these 22 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.147local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷