🪷 Mahābhārata · Śānti-Parva · Chapter 131

The Book of Peace · the great dharma-śāstra · Parva 12 · 18 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 18 Shlokas

MBh 12.131.1
भीष्म उवाच स्वराष्ट्रात्परराष्ट्राच्च कोशं संजनयेन्नृपः कोशाद्धि धर्मः कौन्तेय राज्यमूलः प्रवर्तते
MBh 12.131.2
तस्मात्संजनयेत्कोशं संहृत्य परिपालयेत् परिपाल्यानुगृह्णीयादेष धर्मः सनातनः
MBh 12.131.3
न कोशः शुद्धशौचेन न नृशंसेन जायते पदं मध्यममास्थाय कोशसंग्रहणं चरेत्
MBh 12.131.4
अबलस्य कुतः कोशो ह्यकोशस्य कुतो बलम् अबलस्य कुतो राज्यमराज्ञः श्रीः कुतो भवेत्
MBh 12.131.5
उच्चैर्वृत्तेः श्रियो हानिर्यथैव मरणं तथा तस्मात्कोशं बलं मित्राण्यथ राजा विवर्धयेत्
MBh 12.131.6
हीनकोशं हि राजानमवजानन्ति मानवाः न चास्याल्पेन तुष्यन्ति कार्यमभ्युत्सहन्ति च
MBh 12.131.7
श्रियो हि कारणाद्राजा सत्क्रियां लभते पराम् सास्य गूहति पापानि वासो गुह्यमिव स्त्रियाः
MBh 12.131.8
ऋद्धिमस्यानुवर्तन्ते पुरा विप्रकृता जनाः शालावृका इवाजस्रं जिघांसूनिव विन्दति ईदृशस्य कुतो राज्ञः सुखं भरतसत्तम
MBh 12.131.9
उद्यच्छेदेव न ग्लायेदुद्यमो ह्येव पौरुषम् अप्यपर्वणि भज्येत न नमेतेह कस्यचित्
MBh 12.131.10
अप्यरण्यं समाश्रित्य चरेद्दस्युगणैः सह न त्वेवोद्धृतमर्यादैर्दस्युभिः सहितश्चरेत् दस्यूनां सुलभा सेना रौद्रकर्मसु भारत
MBh 12.131.11
एकान्तेन ह्यमर्यादात्सर्वोऽप्युद्विजते जनः दस्यवोऽप्युपशङ्कन्ते निरनुक्रोशकारिणः
MBh 12.131.12
स्थापयेदेव मर्यादां जनचित्तप्रसादिनीम् अल्पाप्यथेह मर्यादा लोके भवति पूजिता
MBh 12.131.13
नायं लोकोऽस्ति न पर इति व्यवसितो जनः नालं गन्तुं च विश्वासं नास्तिके भयशङ्किनि
MBh 12.131.14
यथा सद्भिः परादानमहिंसा दस्युभिस्तथा अनुरज्यन्ति भूतानि समर्यादेषु दस्युषु
MBh 12.131.15
अयुध्यमानस्य वधो दारामर्शः कृतघ्नता ब्रह्मवित्तस्य चादानं निःशेषकरणं तथा स्त्रिया मोषः परिस्थानं दस्युष्वेतद्विगर्हितम्
MBh 12.131.16
स एष एव भवति दस्युरेतानि वर्जयन् अभिसंदधते ये न विनाशायास्य भारत नशेषमेवोपालभ्य न कुर्वन्तीति निश्चयः
MBh 12.131.17
तस्मात्सशेषं कर्तव्यं स्वाधीनमपि दस्युभिः न बलस्थोऽहमस्मीति नृशंसानि समाचरेत्
MBh 12.131.18
सशेषकारिणस्तात शेषं पश्यन्ति सर्वतः निःशेषकारिणो नित्यमशेषकरणाद्भयम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 18 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.131local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷