🪷 Mahābhārata · Śānti-Parva · Chapter 130

The Book of Peace · the great dharma-śāstra · Parva 12 · 21 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 21 Shlokas

MBh 12.130.1
युधिष्ठिर उवाच हीने परमके धर्मे सर्वलोकातिलङ्घिनि सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने
MBh 12.130.2
केनास्मिन्ब्राह्मणो जीवेज्जघन्ये काल आगते असंत्यजन्पुत्रपौत्राननुक्रोशात्पितामह
MBh 12.130.3
भीष्म उवाच विज्ञानबलमास्थाय जीवितव्यं तथागते सर्वं साध्वर्थमेवेदमसाध्वर्थं न किंचन
MBh 12.130.4
असाधुभ्यो निरादाय साधुभ्यो यः प्रयच्छति आत्मानं संक्रमं कृत्वा कृत्स्नधर्मविदेव सः
MBh 12.130.5
सुरोषेणात्मनो राजन्राज्ये स्थितिमकोपयन् अदत्तमप्याददीत दातुर्वित्तं ममेति वा
MBh 12.130.6
विज्ञानबलपूतो यो वर्तते निन्दितेष्वपि वृत्तविज्ञानवान्धीरः कस्तं किं वक्तुमर्हति
MBh 12.130.7
येषां बलकृता वृत्तिर्नैषामन्याभिरोचते तेजसाभिप्रवर्धन्ते बलवन्तो युधिष्ठिर
MBh 12.130.8
यदेव प्रकृतं शास्त्रमविशेषेण विन्दति तदेव मध्याः सेवन्ते मेधावी चाप्यथोत्तरम्
MBh 12.130.9
ऋत्विक्पुरोहिताचार्यान्सत्कृतैरभिपूजितान् न ब्राह्मणान्यातयेत दोषान्प्राप्नोति यातयन्
MBh 12.130.10
एतत्प्रमाणं लोकस्य चक्षुरेतत्सनातनम् तत्प्रमाणोऽवगाहेत तेन तत्साध्वसाधु वा
MBh 12.130.11
बहूनि ग्रामवास्तव्या रोषाद्ब्रूयुः परस्परम् न तेषां वचनाद्राजा सत्कुर्याद्यातयेत वा
MBh 12.130.12
न वाच्यः परिवादो वै न श्रोतव्यः कथंचन कर्णावेव पिधातव्यौ प्रस्थेयं वा ततोऽन्यतः
MBh 12.130.13
न वै सतां वृत्तमेतत्परिवादो न पैशुनम् गुणानामेव वक्तारः सन्तः सत्सु युधिष्ठिर
MBh 12.130.14
यथा समधुरौ दम्यौ सुदान्तौ साधुवाहिनौ धुरमुद्यम्य वहतस्तथा वर्तेत वै नृपः यथा यथास्य वहतः सहायाः स्युस्तथापरे
MBh 12.130.15
आचारमेव मन्यन्ते गरीयो धर्मलक्षणम् अपरे नैवमिच्छन्ति ये शङ्खलिखितप्रियाः मार्दवादथ लोभाद्वा ते ब्रूयुर्वाक्यमीदृशम्
MBh 12.130.16
आर्षमप्यत्र पश्यन्ति विकर्मस्थस्य यापनम् न चार्षात्सदृशं किंचित्प्रमाणं विद्यते क्वचित्
MBh 12.130.17
देवा अपि विकर्मस्थं यातयन्ति नराधमम् व्याजेन विन्दन्वित्तं हि धर्मात्तु परिहीयते
MBh 12.130.18
सर्वतः सत्कृतः सद्भिर्भूतिप्रभवकारणैः हृदयेनाभ्यनुज्ञातो यो धर्मस्तं व्यवस्यति
MBh 12.130.19
यश्चतुर्गुणसंपन्नं धर्मं वेद स धर्मवित् अहेरिव हि धर्मस्य पदं दुःखं गवेषितुम्
MBh 12.130.20
यथा मृगस्य विद्धस्य मृगव्याधः पदं नयेत् कक्षे रुधिरपातेन तथा धर्मपदं नयेत्
MBh 12.130.21
एवं सद्भिर्विनीतेन पथा गन्तव्यमच्युत राजर्षीणां वृत्तमेतदवगच्छ युधिष्ठिर

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 21 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.130local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷