🪷 Mahābhārata · Śalya-Parva · Chapter 62
The Book of Śalya · Parva 9 · 73 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 73 Shlokas
MBh 9.62.1
जनमेजय उवाच
किमर्थं राजशार्दूलो धर्मराजो युधिष्ठिरः
गान्धार्याः प्रेषयामास वासुदेवं परंतपम्
MBh 9.62.2
यदा पूर्वं गतः कृष्णः शमार्थं कौरवान्प्रति
न च तं लब्धवान्कामं ततो युद्धमभूदिदम्
MBh 9.62.3
निहतेषु तु योधेषु हते दुर्योधने तथा
पृथिव्यां पाण्डवेयस्य निःसपत्ने कृते युधि
MBh 9.62.4
विद्रुते शिबिरे शून्ये प्राप्ते यशसि चोत्तमे
किं नु तत्कारणं ब्रह्मन्येन कृष्णो गतः पुनः
MBh 9.62.5
न चैतत्कारणं ब्रह्मन्नल्पं वै प्रतिभाति मे
यत्रागमदमेयात्मा स्वयमेव जनार्दनः
MBh 9.62.6
तत्त्वतो वै समाचक्ष्व सर्वमध्वर्युसत्तम
यच्चात्र कारणं ब्रह्मन्कार्यस्यास्य विनिश्चये
MBh 9.62.7
वैशंपायन उवाच
त्वद्युक्तोऽयमनुप्रश्नो यन्मां पृच्छसि पार्थिव
तत्तेऽहं संप्रवक्ष्यामि यथावद्भरतर्षभ
MBh 9.62.8
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे
व्युत्क्रम्य समयं राजन्धार्तराष्ट्रं महाबलम्
MBh 9.62.9
अन्यायेन हतं दृष्ट्वा गदायुद्धेन भारत
युधिष्ठिरं महाराज महद्भयमथाविशत्
MBh 9.62.10
चिन्तयानो महाभागां गान्धारीं तपसान्विताम्
घोरेण तपसा युक्तां त्रैलोक्यमपि सा दहेत्
MBh 9.62.11
तस्य चिन्तयमानस्य बुद्धिः समभवत्तदा
गान्धार्याः क्रोधदीप्तायाः पूर्वं प्रशमनं भवेत्
MBh 9.62.12
सा हि पुत्रवधं श्रुत्वा कृतमस्माभिरीदृशम्
मानसेनाग्निना क्रुद्धा भस्मसान्नः करिष्यति
MBh 9.62.13
कथं दुःखमिदं तीव्रं गान्धारी प्रसहिष्यति
श्रुत्वा विनिहतं पुत्रं छलेनाजिह्मयोधिनम्
MBh 9.62.14
एवं विचिन्त्य बहुधा भयशोकसमन्वितः
वासुदेवमिदं वाक्यं धर्मराजोऽभ्यभाषत
MBh 9.62.15
तव प्रसादाद्गोविन्द राज्यं निहतकण्टकम्
अप्राप्यं मनसापीह प्राप्तमस्माभिरच्युत
MBh 9.62.16
प्रत्यक्षं मे महाबाहो संग्रामे रोमहर्षणे
विमर्दः सुमहान्प्राप्तस्त्वया यादवनन्दन
MBh 9.62.17
त्वया देवासुरे युद्धे वधार्थममरद्विषाम्
यथा साह्यं पुरा दत्तं हताश्च विबुधद्विषः
MBh 9.62.18
साह्यं तथा महाबाहो दत्तमस्माकमच्युत
सारथ्येन च वार्ष्णेय भवता यद्धृता वयम्
MBh 9.62.19
यदि न त्वं भवेन्नाथः फल्गुनस्य महारणे
कथं शक्यो रणे जेतुं भवेदेष बलार्णवः
MBh 9.62.20
गदाप्रहारा विपुलाः परिघैश्चापि ताडनम्
शक्तिभिर्भिण्डिपालैश्च तोमरैः सपरश्वधैः
MBh 9.62.21
वाचश्च परुषाः प्राप्तास्त्वया ह्यस्मद्धितैषिणा
ताश्च ते सफलाः सर्वा हते दुर्योधनेऽच्युत
MBh 9.62.22
गान्धार्या हि महाबाहो क्रोधं बुध्यस्व माधव
सा हि नित्यं महाभागा तपसोग्रेण कर्शिता
MBh 9.62.23
पुत्रपौत्रवधं श्रुत्वा ध्रुवं नः संप्रधक्ष्यति
तस्याः प्रसादनं वीर प्राप्तकालं मतं मम
MBh 9.62.24
कश्च तां क्रोधदीप्ताक्षीं पुत्रव्यसनकर्शिताम्
वीक्षितुं पुरुषः शक्तस्त्वामृते पुरुषोत्तम
MBh 9.62.25
तत्र मे गमनं प्राप्तं रोचते तव माधव
गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिंदम
MBh 9.62.26
त्वं हि कर्ता विकर्ता च लोकानां प्रभवाप्ययः
हेतुकारणसंयुक्तैर्वाक्यैः कालसमीरितैः
MBh 9.62.27
क्षिप्रमेव महाप्राज्ञ गान्धारीं शमयिष्यसि
पितामहश्च भगवान्कृष्णस्तत्र भविष्यति
MBh 9.62.28
सर्वथा ते महाबाहो गान्धार्याः क्रोधनाशनम्
कर्तव्यं सात्वतश्रेष्ठ पाण्डवानां हितैषिणा
MBh 9.62.29
धर्मराजस्य वचनं श्रुत्वा यदुकुलोद्वहः
आमन्त्र्य दारुकं प्राह रथः सज्जो विधीयताम्
MBh 9.62.30
केशवस्य वचः श्रुत्वा त्वरमाणोऽथ दारुकः
न्यवेदयद्रथं सज्जं केशवाय महात्मने
MBh 9.62.31
तं रथं यादवश्रेष्ठः समारुह्य परंतपः
जगाम हास्तिनपुरं त्वरितः केशवो विभुः
MBh 9.62.32
ततः प्रायान्महाराज माधवो भगवान्रथी
नागसाह्वयमासाद्य प्रविवेश च वीर्यवान्
MBh 9.62.33
प्रविश्य नगरं वीरो रथघोषेण नादयन्
विदितो धृतराष्ट्रस्य सोऽवतीर्य रथोत्तमात्
MBh 9.62.34
अभ्यगच्छददीनात्मा धृतराष्ट्रनिवेशनम्
पूर्वं चाभिगतं तत्र सोऽपश्यदृषिसत्तमम्
MBh 9.62.35
पादौ प्रपीड्य कृष्णस्य राज्ञश्चापि जनार्दनः
अभ्यवादयदव्यग्रो गान्धारीं चापि केशवः
MBh 9.62.36
ततस्तु यादवश्रेष्ठो धृतराष्ट्रमधोक्षजः
पाणिमालम्ब्य राज्ञः स सस्वरं प्ररुरोद ह
MBh 9.62.37
स मुहूर्तमिवोत्सृज्य बाष्पं शोकसमुद्भवम्
प्रक्षाल्य वारिणा नेत्रे आचम्य च यथाविधि
उवाच प्रश्रितं वाक्यं धृतराष्ट्रमरिंदमः
MBh 9.62.38
न तेऽस्त्यविदितं किंचिद्भूतभव्यस्य भारत
कालस्य च यथा वृत्तं तत्ते सुविदितं प्रभो
MBh 9.62.39
यदिदं पाण्डवैः सर्वैस्तव चित्तानुरोधिभिः
कथं कुलक्षयो न स्यात्तथा क्षत्रस्य भारत
MBh 9.62.40
भ्रातृभिः समयं कृत्वा क्षान्तवान्धर्मवत्सलः
द्यूतच्छलजितैः शक्तैर्वनवासोऽभ्युपागतः
MBh 9.62.41
अज्ञातवासचर्या च नानावेशसमावृतैः
अन्ये च बहवः क्लेशास्त्वशक्तैरिव नित्यदा
MBh 9.62.42
मया च स्वयमागम्य युद्धकाल उपस्थिते
सर्वलोकस्य सांनिध्ये ग्रामांस्त्वं पञ्च याचितः
MBh 9.62.43
त्वया कालोपसृष्टेन लोभतो नापवर्जिताः
तवापराधान्नृपते सर्वं क्षत्रं क्षयं गतम्
MBh 9.62.44
भीष्मेण सोमदत्तेन बाह्लिकेन कृपेण च
द्रोणेन च सपुत्रेण विदुरेण च धीमता
याचितस्त्वं शमं नित्यं न च तत्कृतवानसि
MBh 9.62.45
कालोपहतचित्तो हि सर्वो मुह्यति भारत
यथा मूढो भवान्पूर्वमस्मिन्नर्थे समुद्यते
MBh 9.62.46
किमन्यत्कालयोगाद्धि दिष्टमेव परायणम्
मा च दोषं महाराज पाण्डवेषु निवेशय
MBh 9.62.47
अल्पोऽप्यतिक्रमो नास्ति पाण्डवानां महात्मनाम्
धर्मतो न्यायतश्चैव स्नेहतश्च परंतप
MBh 9.62.48
एतत्सर्वं तु विज्ञाय आत्मदोषकृतं फलम्
असूयां पाण्डुपुत्रेषु न भवान्कर्तुमर्हति
MBh 9.62.49
कुलं वंशश्च पिण्डश्च यच्च पुत्रकृतं फलम्
गान्धार्यास्तव चैवाद्य पाण्डवेषु प्रतिष्ठितम्
MBh 9.62.50
एतत्सर्वमनुध्यात्वा आत्मनश्च व्यतिक्रमम्
शिवेन पाण्डवान्ध्याहि नमस्ते भरतर्षभ
MBh 9.62.51
जानासि च महाबाहो धर्मराजस्य या त्वयि
भक्तिर्भरतशार्दूल स्नेहश्चापि स्वभावतः
MBh 9.62.52
एतच्च कदनं कृत्वा शत्रूणामपकारिणाम्
दह्यते स्म दिवारात्रं न च शर्माधिगच्छति
MBh 9.62.53
त्वां चैव नरशार्दूल गान्धारीं च यशस्विनीम्
स शोचन्भरतश्रेष्ठ न शान्तिमधिगच्छति
MBh 9.62.54
ह्रिया च परयाविष्टो भवन्तं नाधिगच्छति
पुत्रशोकाभिसंतप्तं बुद्धिव्याकुलितेन्द्रियम्
MBh 9.62.55
एवमुक्त्वा महाराज धृतराष्ट्रं यदूत्तमः
उवाच परमं वाक्यं गान्धारीं शोककर्शिताम्
MBh 9.62.56
सौबलेयि निबोध त्वं यत्त्वां वक्ष्यामि सुव्रते
त्वत्समा नास्ति लोकेऽस्मिन्नद्य सीमन्तिनी शुभे
MBh 9.62.57
जानामि च यथा राज्ञि सभायां मम संनिधौ
धर्मार्थसहितं वाक्यमुभयोः पक्षयोर्हितम्
उक्तवत्यसि कल्याणि न च ते तनयैः श्रुतम्
MBh 9.62.58
दुर्योधनस्त्वया चोक्तो जयार्थी परुषं वचः
शृणु मूढ वचो मह्यं यतो धर्मस्ततो जयः
MBh 9.62.59
तदिदं समनुप्राप्तं तव वाक्यं नृपात्मजे
एवं विदित्वा कल्याणि मा स्म शोके मनः कृथाः
पाण्डवानां विनाशाय मा ते बुद्धिः कदाचन
MBh 9.62.60
शक्ता चासि महाभागे पृथिवीं सचराचराम्
चक्षुषा क्रोधदीप्तेन निर्दग्धुं तपसो बलात्
MBh 9.62.61
वासुदेववचः श्रुत्वा गान्धारी वाक्यमब्रवीत्
एवमेतन्महाबाहो यथा वदसि केशव
MBh 9.62.62
आधिभिर्दह्यमानाया मतिः संचलिता मम
सा मे व्यवस्थिता श्रुत्वा तव वाक्यं जनार्दन
MBh 9.62.63
राज्ञस्त्वन्धस्य वृद्धस्य हतपुत्रस्य केशव
त्वं गतिः सह तैर्वीरैः पाण्डवैर्द्विपदां वर
MBh 9.62.64
एतावदुक्त्वा वचनं मुखं प्रच्छाद्य वाससा
पुत्रशोकाभिसंतप्ता गान्धारी प्ररुरोद ह
MBh 9.62.65
तत एनां महाबाहुः केशवः शोककर्शिताम्
हेतुकारणसंयुक्तैर्वाक्यैराश्वासयत्प्रभुः
MBh 9.62.66
समाश्वास्य च गान्धारीं धृतराष्ट्रं च माधवः
द्रौणेः संकल्पितं भावमन्वबुध्यत केशवः
MBh 9.62.67
ततस्त्वरित उत्थाय पादौ मूर्ध्ना प्रणम्य च
द्वैपायनस्य राजेन्द्र ततः कौरवमब्रवीत्
MBh 9.62.68
आपृच्छे त्वां कुरुश्रेष्ठ मा च शोके मनः कृथाः
द्रौणेः पापोऽस्त्यभिप्रायस्तेनास्मि सहसोत्थितः
पाण्डवानां वधे रात्रौ बुद्धिस्तेन प्रदर्शिता
MBh 9.62.69
एतच्छ्रुत्वा तु वचनं गान्धार्या सहितोऽब्रवीत्
धृतराष्ट्रो महाबाहुः केशवं केशिसूदनम्
MBh 9.62.70
शीघ्रं गच्छ महाबाहो पाण्डवान्परिपालय
भूयस्त्वया समेष्यामि क्षिप्रमेव जनार्दन
प्रायात्ततस्तु त्वरितो दारुकेण सहाच्युतः
MBh 9.62.71
वासुदेवे गते राजन्धृतराष्ट्रं जनेश्वरम्
आश्वासयदमेयात्मा व्यासो लोकनमस्कृतः
MBh 9.62.72
वासुदेवोऽपि धर्मात्मा कृतकृत्यो जगाम ह
शिबिरं हास्तिनपुराद्दिदृक्षुः पाण्डवान्नृप
MBh 9.62.73
आगम्य शिबिरं रात्रौ सोऽभ्यगच्छत पाण्डवान्
तच्च तेभ्यः समाख्याय सहितस्तैः समाविशत्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śalya-Parva chapter-index (64 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śalya-Parva Ch 61
- Next chapter · Śalya-Parva Ch 63 →
Sources and Connected Readings
Continue from these 73 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 9.62local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷