🪷 Mahābhārata · Śalya-Parva · Chapter 61

The Book of Śalya · Parva 9 · 40 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 40 Shlokas

MBh 9.61.1
संजय उवाच ततस्ते प्रययुः सर्वे निवासाय महीक्षितः शङ्खान्प्रध्मापयन्तो वै हृष्टाः परिघबाहवः
MBh 9.61.2
पाण्डवान्गच्छतश्चापि शिबिरं नो विशां पते महेष्वासोऽन्वगात्पश्चाद्युयुत्सुः सात्यकिस्तथा
MBh 9.61.3
धृष्टद्युम्नः शिखण्डी च द्रौपदेयाश्च सर्वशः सर्वे चान्ये महेष्वासा ययुः स्वशिबिराण्युत
MBh 9.61.4
ततस्ते प्राविशन्पार्था हतत्विट्कं हतेश्वरम् दुर्योधनस्य शिबिरं रङ्गवद्विसृते जने
MBh 9.61.5
गतोत्सवं पुरमिव हृतनागमिव ह्रदम् स्त्रीवर्षवरभूयिष्ठं वृद्धामात्यैरधिष्ठितम्
MBh 9.61.6
तत्रैतान्पर्युपातिष्ठन्दुर्योधनपुरःसराः कृताञ्जलिपुटा राजन्काषायमलिनाम्बराः
MBh 9.61.7
शिबिरं समनुप्राप्य कुरुराजस्य पाण्डवाः अवतेरुर्महाराज रथेभ्यो रथसत्तमाः
MBh 9.61.8
ततो गाण्डीवधन्वानमभ्यभाषत केशवः स्थितः प्रियहिते नित्यमतीव भरतर्षभ
MBh 9.61.9
अवरोपय गाण्डीवमक्षय्यौ च महेषुधी अथाहमवरोक्ष्यामि पश्चाद्भरतसत्तम
MBh 9.61.10
स्वयं चैवावरोह त्वमेतच्छ्रेयस्तवानघ तच्चाकरोत्तथा वीरः पाण्डुपुत्रो धनंजयः
MBh 9.61.11
अथ पश्चात्ततः कृष्णो रश्मीनुत्सृज्य वाजिनाम् अवारोहत मेधावी रथाद्गाण्डीवधन्वनः
MBh 9.61.12
अथावतीर्णे भूतानामीश्वरे सुमहात्मनि कपिरन्तर्दधे दिव्यो ध्वजो गाण्डीवधन्वनः
MBh 9.61.13
स दग्धो द्रोणकर्णाभ्यां दिव्यैरस्त्रैर्महारथः अथ दीप्तोऽग्निना ह्याशु प्रजज्वाल महीपते
MBh 9.61.14
सोपासङ्गः सरश्मिश्च साश्वः सयुगबन्धुरः भस्मीभूतोऽपतद्भूमौ रथो गाण्डीवधन्वनः
MBh 9.61.15
तं तथा भस्मभूतं तु दृष्ट्वा पाण्डुसुताः प्रभो अभवन्विस्मिता राजन्नर्जुनश्चेदमब्रवीत्
MBh 9.61.16
कृताञ्जलिः सप्रणयं प्रणिपत्याभिवाद्य च गोविन्द कस्माद्भगवन्रथो दग्धोऽयमग्निना
MBh 9.61.17
किमेतन्महदाश्चर्यमभवद्यदुनन्दन तन्मे ब्रूहि महाबाहो श्रोतव्यं यदि मन्यसे
MBh 9.61.18
वासुदेव उवाच अस्त्रैर्बहुविधैर्दग्धः पूर्वमेवायमर्जुन मदधिष्ठितत्वात्समरे न विशीर्णः परंतप
MBh 9.61.19
इदानीं तु विशीर्णोऽयं दग्धो ब्रह्मास्त्रतेजसा मया विमुक्तः कौन्तेय त्वय्यद्य कृतकर्मणि
MBh 9.61.20
संजय उवाच ईषदुत्स्मयमानश्च भगवान्केशवोऽरिहा परिष्वज्य च राजानं युधिष्ठिरमभाषत
MBh 9.61.21
दिष्ट्या जयसि कौन्तेय दिष्ट्या ते शत्रवो जिताः दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः
MBh 9.61.22
त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ मुक्ता वीरक्षयादस्मात्संग्रामान्निहतद्विषः क्षिप्रमुत्तरकालानि कुरु कार्याणि भारत
MBh 9.61.23
उपयातमुपप्लव्यं सह गाण्डीवधन्वना आनीय मधुपर्कं मां यत्पुरा त्वमवोचथाः
MBh 9.61.24
एष भ्राता सखा चैव तव कृष्ण धनंजयः रक्षितव्यो महाबाहो सर्वास्वापत्स्विति प्रभो तव चैवं ब्रुवाणस्य तथेत्येवाहमब्रुवम्
MBh 9.61.25
स सव्यसाची गुप्तस्ते विजयी च नरेश्वर भ्रातृभिः सह राजेन्द्र शूरः सत्यपराक्रमः मुक्तो वीरक्षयादस्मात्संग्रामाद्रोमहर्षणात्
MBh 9.61.26
एवमुक्तस्तु कृष्णेन धर्मराजो युधिष्ठिरः हृष्टरोमा महाराज प्रत्युवाच जनार्दनम्
MBh 9.61.27
प्रमुक्तं द्रोणकर्णाभ्यां ब्रह्मास्त्रमरिमर्दन कस्त्वदन्यः सहेत्साक्षादपि वज्री पुरंदरः
MBh 9.61.28
भवतस्तु प्रसादेन संग्रामे बहवो जिताः महारणगतः पार्थो यच्च नासीत्पराङ्मुखः
MBh 9.61.29
तथैव च महाबाहो पर्यायैर्बहुभिर्मया कर्मणामनुसंतानं तेजसश्च गतिः शुभा
MBh 9.61.30
उपप्लव्ये महर्षिर्मे कृष्णद्वैपायनोऽब्रवीत् यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः
MBh 9.61.31
इत्येवमुक्ते ते वीराः शिबिरं तव भारत प्रविश्य प्रत्यपद्यन्त कोशरत्नर्द्धिसंचयान्
MBh 9.61.32
रजतं जातरूपं च मणीनथ च मौक्तिकान् भूषणान्यथ मुख्यानि कम्बलान्यजिनानि च दासीदासमसंख्येयं राज्योपकरणानि च
MBh 9.61.33
ते प्राप्य धनमक्षय्यं त्वदीयं भरतर्षभ उदक्रोशन्महेष्वासा नरेन्द्र विजितारयः
MBh 9.61.34
ते तु वीराः समाश्वस्य वाहनान्यवमुच्य च अतिष्ठन्त मुहुः सर्वे पाण्डवाः सात्यकिस्तथा
MBh 9.61.35
अथाब्रवीन्महाराज वासुदेवो महायशाः अस्माभिर्मङ्गलार्थाय वस्तव्यं शिबिराद्बहिः
MBh 9.61.36
तथेत्युक्त्वा च ते सर्वे पाण्डवाः सात्यकिस्तथा वासुदेवेन सहिता मङ्गलार्थं ययुर्बहिः
MBh 9.61.37
ते समासाद्य सरितं पुण्यामोघवतीं नृप न्यवसन्नथ तां रात्रिं पाण्डवा हतशत्रवः
MBh 9.61.38
ततः संप्रेषयामासुर्यादवं नागसाह्वयम् स च प्रायाज्जवेनाशु वासुदेवः प्रतापवान् दारुकं रथमारोप्य येन राजाम्बिकासुतः
MBh 9.61.39
तमूचुः संप्रयास्यन्तं सैन्यसुग्रीववाहनम् प्रत्याश्वासय गान्धारीं हतपुत्रां यशस्विनीम्
MBh 9.61.40
स प्रायात्पाण्डवैरुक्तस्तत्पुरं सात्वतां वरः आससादयिषुः क्षिप्रं गान्धारीं निहतात्मजाम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 40 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 9.61local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷