🪷 Mahābhārata · Śalya-Parva · Chapter 4

The Book of Śalya · Parva 9 · 50 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 50 Shlokas

MBh 9.4.1
संजय उवाच एवमुक्तस्ततो राजा गौतमेन यशस्विना निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशां पते
MBh 9.4.2
ततो मुहूर्तं स ध्यात्वा धार्तराष्ट्रो महामनाः कृपं शारद्वतं वाक्यमित्युवाच परंतपः
MBh 9.4.3
यत्किंचित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम् कृतं च भवता सर्वं प्राणान्संत्यज्य युध्यता
MBh 9.4.4
गाहमानमनीकानि युध्यमानं महारथैः पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान्
MBh 9.4.5
सुहृदा यदिदं वाच्यं भवता श्रावितो ह्यहम् न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम्
MBh 9.4.6
हेतुकारणसंयुक्तं हितं वचनमुत्तमम् उच्यमानं महाबाहो न मे विप्राग्र्य रोचते
MBh 9.4.7
राज्याद्विनिकृतोऽस्माभिः कथं सोऽस्मासु विश्वसेत् अक्षद्यूते च नृपतिर्जितोऽस्माभिर्महाधनः स कथं मम वाक्यानि श्रद्दध्याद्भूय एव तु
MBh 9.4.8
तथा दौत्येन संप्राप्तः कृष्णः पार्थहिते रतः प्रलब्धश्च हृषीकेशस्तच्च कर्म विरोधितम् स च मे वचनं ब्रह्मन्कथमेवाभिमंस्यते
MBh 9.4.9
विललाप हि यत्कृष्णा सभामध्ये समेयुषी न तन्मर्षयते कृष्णो न राज्यहरणं तथा
MBh 9.4.10
एकप्राणावुभौ कृष्णावन्योन्यं प्रति संहतौ पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत्प्रभो
MBh 9.4.11
स्वस्रीयं च हतं श्रुत्वा दुःखं स्वपिति केशवः कृतागसो वयं तस्य स मदर्थं कथं क्षमेत्
MBh 9.4.12
अभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः स कथं मद्धिते यत्नं प्रकरिष्यति याचितः
MBh 9.4.13
मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः प्रतिज्ञातं च तेनोग्रं स भज्येत न संनमेत्
MBh 9.4.14
उभौ तौ बद्धनिस्त्रिंशावुभौ चाबद्धकङ्कटौ कृतवैरावुभौ वीरौ यमावपि यमोपमौ
MBh 9.4.15
धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह तौ कथं मद्धिते यत्नं प्रकुर्यातां द्विजोत्तम
MBh 9.4.16
दुःशासनेन यत्कृष्णा एकवस्त्रा रजस्वला परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः
MBh 9.4.17
तथा विवसनां दीनां स्मरन्त्यद्यापि पाण्डवाः न निवारयितुं शक्याः संग्रामात्ते परंतपाः
MBh 9.4.18
यदा च द्रौपदी कृष्णा मद्विनाशाय दुःखिता उग्रं तेपे तपः कृष्णा भर्तॄणामर्थसिद्धये स्थण्डिले नित्यदा शेते यावद्वैरस्य यातना
MBh 9.4.19
निक्षिप्य मानं दर्पं च वासुदेवसहोदरा कृष्णायाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा
MBh 9.4.20
इति सर्वं समुन्नद्धं न निर्वाति कथंचन अभिमन्योर्विनाशेन स संधेयः कथं मया
MBh 9.4.21
कथं च नाम भुक्त्वेमां पृथिवीं सागराम्बराम् पाण्डवानां प्रसादेन भुञ्जीयां राज्यमल्पकम्
MBh 9.4.22
उपर्युपरि राज्ञां वै ज्वलितो भास्करो यथा युधिष्ठिरं कथं पश्चादनुयास्यामि दासवत्
MBh 9.4.23
कथं भुक्त्वा स्वयं भोगान्दत्त्वा दायांश्च पुष्कलान् कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम्
MBh 9.4.24
नाभ्यसूयामि ते वाक्यमुक्तं स्निग्धं हितं त्वया न तु संधिमहं मन्ये प्राप्तकालं कथंचन
MBh 9.4.25
सुनीतमनुपश्यामि सुयुद्धेन परंतप नायं क्लीबयितुं कालः संयोद्धुं काल एव नः
MBh 9.4.26
इष्टं मे बहुभिर्यज्ञैर्दत्ता विप्रेषु दक्षिणाः प्राप्ताः क्रमश्रुता वेदाः शत्रूणां मूर्ध्नि च स्थितम्
MBh 9.4.27
भृत्या मे सुभृतास्तात दीनश्चाभ्युद्धृतो जनः यातानि परराष्ट्राणि स्वराष्ट्रमनुपालितम्
MBh 9.4.28
भुक्ताश्च विविधा भोगास्त्रिवर्गः सेवितो मया पितॄणां गतमानृण्यं क्षत्रधर्मस्य चोभयोः
MBh 9.4.29
न ध्रुवं सुखमस्तीह कुतो राज्यं कुतो यशः इह कीर्तिर्विधातव्या सा च युद्धेन नान्यथा
MBh 9.4.30
गृहे यत्क्षत्रियस्यापि निधनं तद्विगर्हितम् अधर्मः सुमहानेष यच्छय्यामरणं गृहे
MBh 9.4.31
अरण्ये यो विमुञ्चेत संग्रामे वा तनुं नरः क्रतूनाहृत्य महतो महिमानं स गच्छति
MBh 9.4.32
कृपणं विलपन्नार्तो जरयाभिपरिप्लुतः म्रियते रुदतां मध्ये ज्ञातीनां न स पूरुषः
MBh 9.4.33
त्यक्त्वा तु विविधान्भोगान्प्राप्तानां परमां गतिम् अपीदानीं सुयुद्धेन गच्छेयं सत्सलोकताम्
MBh 9.4.34
शूराणामार्यवृत्तानां संग्रामेष्वनिवर्तिनाम् धीमतां सत्यसंधानां सर्वेषां क्रतुयाजिनाम्
MBh 9.4.35
शस्त्रावभृथमाप्तानां ध्रुवं वासस्त्रिविष्टपे मुदा नूनं प्रपश्यन्ति शुभ्रा ह्यप्सरसां गणाः
MBh 9.4.36
पश्यन्ति नूनं पितरः पूजिताञ्शक्रसंसदि अप्सरोभिः परिवृतान्मोदमानांस्त्रिविष्टपे
MBh 9.4.37
पन्थानममरैर्यातं शूरैश्चैवानिवर्तिभिः अपि तैः संगतं मार्गं वयमप्यारुहेमहि
MBh 9.4.38
पितामहेन वृद्धेन तथाचार्येण धीमता जयद्रथेन कर्णेन तथा दुःशासनेन च
MBh 9.4.39
घटमाना मदर्थेऽस्मिन्हताः शूरा जनाधिपाः शेरते लोहिताक्ताङ्गाः पृथिव्यां शरविक्षताः
MBh 9.4.40
उत्तमास्त्रविदः शूरा यथोक्तक्रतुयाजिनः त्यक्त्वा प्राणान्यथान्यायमिन्द्रसद्मसु धिष्ठिताः
MBh 9.4.41
तैस्त्वयं रचितः पन्था दुर्गमो हि पुनर्भवेत् संपतद्भिर्महावेगैरितो याद्भिश्च सद्गतिम्
MBh 9.4.42
ये मदर्थे हताः शूरास्तेषां कृतमनुस्मरन् ऋणं तत्प्रतिमुञ्चानो न राज्ये मन आदधे
MBh 9.4.43
पातयित्वा वयस्यांश्च भ्रातॄनथ पितामहान् जीवितं यदि रक्षेयं लोको मां गर्हयेद्ध्रुवम्
MBh 9.4.44
कीदृशं च भवेद्राज्यं मम हीनस्य बन्धुभिः सखिभिश्च सुहृद्भिश्च प्रणिपत्य च पाण्डवम्
MBh 9.4.45
सोऽहमेतादृशं कृत्वा जगतोऽस्य पराभवम् सुयुद्धेन ततः स्वर्गं प्राप्स्यामि न तदन्यथा
MBh 9.4.46
एवं दुर्योधनेनोक्तं सर्वे संपूज्य तद्वचः साधु साध्विति राजानं क्षत्रियाः संबभाषिरे
MBh 9.4.47
पराजयमशोचन्तः कृतचित्ताश्च विक्रमे सर्वे सुनिश्चिता योद्धुमुदग्रमनसोऽभवन्
MBh 9.4.48
ततो वाहान्समाश्वास्य सर्वे युद्धाभिनन्दिनः ऊने द्वियोजने गत्वा प्रत्यतिष्ठन्त कौरवाः
MBh 9.4.49
आकाशे विद्रुमे पुण्ये प्रस्थे हिमवतः शुभे अरुणां सरस्वतीं प्राप्य पपुः सस्नुश्च तज्जलम्
MBh 9.4.50
तव पुत्राः कृतोत्साहाः पर्यवर्तन्त ते ततः पर्यवस्थाप्य चात्मानमन्योन्येन पुनस्तदा सर्वे राजन्न्यवर्तन्त क्षत्रियाः कालचोदिताः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 50 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 9.4local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷