🪷 Mahābhārata · Śalya-Parva · Chapter 3

The Book of Śalya · Parva 9 · 50 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 50 Shlokas

MBh 9.3.1
संजय उवाच शृणु राजन्नवहितो यथा वृत्तो महान्क्षयः कुरूणां पाण्डवानां च समासाद्य परस्परम्
MBh 9.3.2
निहते सूतपुत्रे तु पाण्डवेन महात्मना विद्रुतेषु च सैन्येषु समानीतेषु चासकृत्
MBh 9.3.3
विमुखे तव पुत्रे तु शोकोपहतचेतसि भृशोद्विग्नेषु सैन्येषु दृष्ट्वा पार्थस्य विक्रमम्
MBh 9.3.4
ध्यायमानेषु सैन्येषु दुःखं प्राप्तेषु भारत बलानां मथ्यमानानां श्रुत्वा निनदमुत्तमम्
MBh 9.3.5
अभिज्ञानं नरेन्द्राणां विकृतं प्रेक्ष्य संयुगे पतितान्रथनीडांश्च रथांश्चापि महात्मनाम्
MBh 9.3.6
रणे विनिहतान्नागान्दृष्ट्वा पत्तींश्च मारिष आयोधनं चातिघोरं रुद्रस्याक्रीडसंनिभम्
MBh 9.3.7
अप्रख्यातिं गतानां तु राज्ञां शतसहस्रशः कृपाविष्टः कृपो राजन्वयःशीलसमन्वितः
MBh 9.3.8
अब्रवीत्तत्र तेजस्वी सोऽभिसृत्य जनाधिपम् दुर्योधनं मन्युवशाद्वचनं वचनक्षमः
MBh 9.3.9
दुर्योधन निबोधेदं यत्त्वा वक्ष्यामि कौरव श्रुत्वा कुरु महाराज यदि ते रोचतेऽनघ
MBh 9.3.10
न युद्धधर्माच्छ्रेयान्वै पन्था राजेन्द्र विद्यते यं समाश्रित्य युध्यन्ते क्षत्रियाः क्षत्रियर्षभ
MBh 9.3.11
पुत्रो भ्राता पिता चैव स्वस्रेयो मातुलस्तथा संबन्धिबान्धवाश्चैव योध्या वै क्षत्रजीविना
MBh 9.3.12
वधे चैव परो धर्मस्तथाधर्मः पलायने ते स्म घोरां समापन्ना जीविकां जीवितार्थिनः
MBh 9.3.13
तत्र त्वां प्रतिवक्ष्यामि किंचिदेव हितं वचः हते भीष्मे च द्रोणे च कर्णे चैव महारथे
MBh 9.3.14
जयद्रथे च निहते तव भ्रातृषु चानघ लक्ष्मणे तव पुत्रे च किं शेषं पर्युपास्महे
MBh 9.3.15
येषु भारं समासज्य राज्ये मतिमकुर्महि ते संत्यज्य तनूर्याताः शूरा ब्रह्मविदां गतिम्
MBh 9.3.16
वयं त्विह विनाभूता गुणवद्भिर्महारथैः कृपणं वर्तयिष्याम पातयित्वा नृपान्बहून्
MBh 9.3.17
सर्वैरपि च जीवद्भिर्बीभत्सुरपराजितः कृष्णनेत्रो महाबाहुर्देवैरपि दुरासदः
MBh 9.3.18
इन्द्रकार्मुकवज्राभमिन्द्रकेतुमिवोच्छ्रितम् वानरं केतुमासाद्य संचचाल महाचमूः
MBh 9.3.19
सिंहनादेन भीमस्य पाञ्चजन्यस्वनेन च गाण्डीवस्य च निर्घोषात्संहृष्यन्ति मनांसि नः
MBh 9.3.20
चरन्तीव महाविद्युन्मुष्णन्ती नयनप्रभाम् अलातमिव चाविद्धं गाण्डीवं समदृश्यत
MBh 9.3.21
जाम्बूनदविचित्रं च धूयमानं महद्धनुः दृश्यते दिक्षु सर्वासु विद्युदभ्रघनेष्विव
MBh 9.3.22
उह्यमानश्च कृष्णेन वायुनेव बलाहकः तावकं तद्बलं राजन्नर्जुनोऽस्त्रविदां वरः गहनं शिशिरे कक्षं ददाहाग्निरिवोत्थितः
MBh 9.3.23
गाहमानमनीकानि महेन्द्रसदृशप्रभम् धनंजयमपश्याम चतुर्दन्तमिव द्विपम्
MBh 9.3.24
विक्षोभयन्तं सेनां ते त्रासयन्तं च पार्थिवान् धनंजयमपश्याम नलिनीमिव कुञ्जरम्
MBh 9.3.25
त्रासयन्तं तथा योधान्धनुर्घोषेण पाण्डवम् भूय एनमपश्याम सिंहं मृगगणा इव
MBh 9.3.26
सर्वलोकमहेष्वासौ वृषभौ सर्वधन्विनाम् आमुक्तकवचौ कृष्णौ लोकमध्ये विरेजतुः
MBh 9.3.27
अद्य सप्तदशाहानि वर्तमानस्य भारत संग्रामस्यातिघोरस्य वध्यतां चाभितो युधि
MBh 9.3.28
वायुनेव विधूतानि तवानीकानि सर्वशः शरदम्भोदजालानि व्यशीर्यन्त समन्ततः
MBh 9.3.29
तां नावमिव पर्यस्तां भ्रान्तवातां महार्णवे तव सेनां महाराज सव्यसाची व्यकम्पयत्
MBh 9.3.30
क्व नु ते सूतपुत्रोऽभूत्क्व नु द्रोणः सहानुगः अहं क्व च क्व चात्मा ते हार्दिक्यश्च तथा क्व नु दुःशासनश्च भ्राता ते भ्रातृभिः सहितः क्व नु
MBh 9.3.31
बाणगोचरसंप्राप्तं प्रेक्ष्य चैव जयद्रथम् संबन्धिनस्ते भ्रातॄंश्च सहायान्मातुलांस्तथा
MBh 9.3.32
सर्वान्विक्रम्य मिषतो लोकांश्चाक्रम्य मूर्धनि जयद्रथो हतो राजन्किं नु शेषमुपास्महे
MBh 9.3.33
को वेह स पुमानस्ति यो विजेष्यति पाण्डवम् तस्य चास्त्राणि दिव्यानि विविधानि महात्मनः गाण्डीवस्य च निर्घोषो वीर्याणि हरते हि नः
MBh 9.3.34
नष्टचन्द्रा यथा रात्रिः सेनेयं हतनायका नागभग्नद्रुमा शुष्का नदीवाकुलतां गता
MBh 9.3.35
ध्वजिन्यां हतनेत्रायां यथेष्टं श्वेतवाहनः चरिष्यति महाबाहुः कक्षेऽग्निरिव संज्वलन्
MBh 9.3.36
सात्यकेश्चैव यो वेगो भीमसेनस्य चोभयोः दारयेत गिरीन्सर्वाञ्शोषयेत च सागरान्
MBh 9.3.37
उवाच वाक्यं यद्भीमः सभामध्ये विशां पते कृतं तत्सकलं तेन भूयश्चैव करिष्यति
MBh 9.3.38
प्रमुखस्थे तदा कर्णे बलं पाण्डवरक्षितम् दुरासदं तथा गुप्तं गूढं गाण्डीवधन्वना
MBh 9.3.39
युष्माभिस्तानि चीर्णानि यान्यसाधूनि साधुषु अकारणकृतान्येव तेषां वः फलमागतम्
MBh 9.3.40
आत्मनोऽर्थे त्वया लोको यत्नतः सर्व आहृतः स ते संशयितस्तात आत्मा च भरतर्षभ
MBh 9.3.41
रक्ष दुर्योधनात्मानमात्मा सर्वस्य भाजनम् भिन्ने हि भाजने तात दिशो गच्छति तद्गतम्
MBh 9.3.42
हीयमानेन वै संधिः पर्येष्टव्यः समेन च विग्रहो वर्धमानेन नीतिरेषा बृहस्पतेः
MBh 9.3.43
ते वयं पाण्डुपुत्रेभ्यो हीनाः स्वबलशक्तितः अत्र ते पाण्डवैः सार्धं संधिं मन्ये क्षमं प्रभो
MBh 9.3.44
न जानीते हि यः श्रेयः श्रेयसश्चावमन्यते स क्षिप्रं भ्रश्यते राज्यान्न च श्रेयोऽनुविन्दति
MBh 9.3.45
प्रणिपत्य हि राजानं राज्यं यदि लभेमहि श्रेयः स्यान्न तु मौढ्येन राजन्गन्तुं पराभवम्
MBh 9.3.46
वैचित्रवीर्यवचनात्कृपाशीलो युधिष्ठिरः विनियुञ्जीत राज्ये त्वां गोविन्दवचनेन च
MBh 9.3.47
यद्ब्रूयाद्धि हृषीकेशो राजानमपराजितम् अर्जुनं भीमसेनं च सर्वं कुर्युरसंशयम्
MBh 9.3.48
नातिक्रमिष्यते कृष्णो वचनं कौरवस्य ह धृतराष्ट्रस्य मन्येऽहं नापि कृष्णस्य पाण्डवः
MBh 9.3.49
एतत्क्षममहं मन्ये तव पार्थैरविग्रहम् न त्वा ब्रवीमि कार्पण्यान्न प्राणपरिरक्षणात् पथ्यं राजन्ब्रवीमि त्वां तत्परासुः स्मरिष्यसि
MBh 9.3.50
इति वृद्धो विलप्यैतत्कृपः शारद्वतो वचः दीर्घमुष्णं च निःश्वस्य शुशोच च मुमोह च

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 50 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 9.3local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷