🪷 Mahābhārata · Śalya-Parva · Chapter 37
The Book of Śalya · Parva 9 · 50 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 50 Shlokas
MBh 9.37.1
जनमेजय उवाच
सप्तसारस्वतं कस्मात्कश्च मङ्कणको मुनिः
कथं सिद्धश्च भगवान्कश्चास्य नियमोऽभवत्
MBh 9.37.2
कस्य वंशे समुत्पन्नः किं चाधीतं द्विजोत्तम
एतदिच्छाम्यहं श्रोतुं विधिवद्द्विजसत्तम
MBh 9.37.3
वैशंपायन उवाच
राजन्सप्त सरस्वत्यो याभिर्व्याप्तमिदं जगत्
आहूता बलवद्भिर्हि तत्र तत्र सरस्वती
MBh 9.37.4
सुप्रभा काञ्चनाक्षी च विशाला मानसह्रदा
सरस्वती ओघवती सुवेणुर्विमलोदका
MBh 9.37.5
पितामहस्य महतो वर्तमाने महीतले
वितते यज्ञवाटे वै समेतेषु द्विजातिषु
MBh 9.37.6
पुण्याहघोषैर्विमलैर्वेदानां निनदैस्तथा
देवेषु चैव व्यग्रेषु तस्मिन्यज्ञविधौ तदा
MBh 9.37.7
तत्र चैव महाराज दीक्षिते प्रपितामहे
यजतस्तत्र सत्रेण सर्वकामसमृद्धिना
MBh 9.37.8
मनसा चिन्तिता ह्यर्था धर्मार्थकुशलैस्तदा
उपतिष्ठन्ति राजेन्द्र द्विजातींस्तत्र तत्र ह
MBh 9.37.9
जगुश्च तत्र गन्धर्वा ननृतुश्चाप्सरोगणाः
वादित्राणि च दिव्यानि वादयामासुरञ्जसा
MBh 9.37.10
तस्य यज्ञस्य संपत्त्या तुतुषुर्देवता अपि
विस्मयं परमं जग्मुः किमु मानुषयोनयः
MBh 9.37.11
वर्तमाने तथा यज्ञे पुष्करस्थे पितामहे
अब्रुवन्नृषयो राजन्नायं यज्ञो महाफलः
न दृश्यते सरिच्छ्रेष्ठा यस्मादिह सरस्वती
MBh 9.37.12
तच्छ्रुत्वा भगवान्प्रीतः सस्माराथ सरस्वतीम्
पितामहेन यजता आहूता पुष्करेषु वै
सुप्रभा नाम राजेन्द्र नाम्ना तत्र सरस्वती
MBh 9.37.13
तां दृष्ट्वा मुनयस्तुष्टा वेगयुक्तां सरस्वतीम्
पितामहं मानयन्तीं क्रतुं ते बहु मेनिरे
MBh 9.37.14
एवमेषा सरिच्छ्रेष्ठा पुष्करेषु सरस्वती
पितामहार्थं संभूता तुष्ट्यर्थं च मनीषिणाम्
MBh 9.37.15
नैमिषे मुनयो राजन्समागम्य समासते
तत्र चित्राः कथा ह्यासन्वेदं प्रति जनेश्वर
MBh 9.37.16
तत्र ते मुनयो ह्यासन्नानास्वाध्यायवेदिनः
ते समागम्य मुनयः सस्मरुर्वै सरस्वतीम्
MBh 9.37.17
सा तु ध्याता महाराज ऋषिभिः सत्रयाजिभिः
समागतानां राजेन्द्र सहायार्थं महात्मनाम्
आजगाम महाभागा तत्र पुण्या सरस्वती
MBh 9.37.18
नैमिषे काञ्चनाक्षी तु मुनीनां सत्रयाजिनाम्
आगता सरितां श्रेष्ठा तत्र भारत पूजिता
MBh 9.37.19
गयस्य यजमानस्य गयेष्वेव महाक्रतुम्
आहूता सरितां श्रेष्ठा गययज्ञे सरस्वती
MBh 9.37.20
विशालां तु गयेष्वाहुरृषयः संशितव्रताः
सरित्सा हिमवत्पार्श्वात्प्रसूता शीघ्रगामिनी
MBh 9.37.21
औद्दालकेस्तथा यज्ञे यजतस्तत्र भारत
समेते सर्वतः स्फीते मुनीनां मण्डले तदा
MBh 9.37.22
उत्तरे कोसलाभागे पुण्ये राजन्महात्मनः
औद्दालकेन यजता पूर्वं ध्याता सरस्वती
MBh 9.37.23
आजगाम सरिच्छ्रेष्ठा तं देशमृषिकारणात्
पूज्यमाना मुनिगणैर्वल्कलाजिनसंवृतैः
मनोह्रदेति विख्याता सा हि तैर्मनसा हृता
MBh 9.37.24
सुवेणुरृषभद्वीपे पुण्ये राजर्षिसेविते
कुरोश्च यजमानस्य कुरुक्षेत्रे महात्मनः
आजगाम महाभागा सरिच्छ्रेष्ठा सरस्वती
MBh 9.37.25
ओघवत्यपि राजेन्द्र वसिष्ठेन महात्मना
समाहूता कुरुक्षेत्रे दिव्यतोया सरस्वती
MBh 9.37.26
दक्षेण यजता चापि गङ्गाद्वारे सरस्वती
विमलोदा भगवती ब्रह्मणा यजता पुनः
समाहूता ययौ तत्र पुण्ये हैमवते गिरौ
MBh 9.37.27
एकीभूतास्ततस्तास्तु तस्मिंस्तीर्थे समागताः
सप्तसारस्वतं तीर्थं ततस्तत्प्रथितं भुवि
MBh 9.37.28
इति सप्त सरस्वत्यो नामतः परिकीर्तिताः
सप्तसारस्वतं चैव तीर्थं पुण्यं तथा स्मृतम्
MBh 9.37.29
शृणु मङ्कणकस्यापि कौमारब्रह्मचारिणः
आपगामवगाढस्य राजन्प्रक्रीडितं महत्
MBh 9.37.30
दृष्ट्वा यदृच्छया तत्र स्त्रियमम्भसि भारत
स्नायन्तीं रुचिरापाङ्गीं दिग्वाससमनिन्दिताम्
सरस्वत्यां महाराज चस्कन्दे वीर्यमम्भसि
MBh 9.37.31
तद्रेतः स तु जग्राह कलशे वै महातपाः
सप्तधा प्रविभागं तु कलशस्थं जगाम ह
तत्रर्षयः सप्त जाता जज्ञिरे मरुतां गणाः
MBh 9.37.32
वायुवेगो वायुबलो वायुहा वायुमण्डलः
वायुज्वालो वायुरेता वायुचक्रश्च वीर्यवान्
एवमेते समुत्पन्ना मरुतां जनयिष्णवः
MBh 9.37.33
इदमन्यच्च राजेन्द्र शृण्वाश्चर्यतरं भुवि
महर्षेश्चरितं यादृक्त्रिषु लोकेषु विश्रुतम्
MBh 9.37.34
पुरा मङ्कणकः सिद्धः कुशाग्रेणेति नः श्रुतम्
क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत्
स वि शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान्
MBh 9.37.35
ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत्
प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम्
MBh 9.37.36
ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैः
विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप
नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि
MBh 9.37.37
ततो देवो मुनिं दृष्ट्वा हर्षाविष्टमतीव ह
सुराणां हितकामार्थं महादेवोऽभ्यभाषत
MBh 9.37.38
भो भो ब्राह्मण धर्मज्ञ किमर्थं नरिनर्त्सि वै
हर्षस्थानं किमर्थं वै तवेदं मुनिसत्तम
तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम
MBh 9.37.39
ऋषिरुवाच
किं न पश्यसि मे ब्रह्मन्कराच्छाकरसं स्रुतम्
यं दृष्ट्वा वै प्रनृत्तोऽहं हर्षेण महता विभो
MBh 9.37.40
तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम्
अहं न विस्मयं विप्र गच्छामीति प्रपश्य माम्
MBh 9.37.41
एवमुक्त्वा मुनिश्रेष्ठं महादेवेन धीमता
अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोऽभवत्
MBh 9.37.42
ततो भस्म क्षताद्राजन्निर्गतं हिमसंनिभम्
तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः
MBh 9.37.43
ऋषिरुवाच
नान्यं देवादहं मन्ये रुद्रात्परतरं महत्
सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक्
MBh 9.37.44
त्वया सृष्टमिदं विश्वं वदन्तीह मनीषिणः
त्वामेव सर्वं विशति पुनरेव युगक्षये
MBh 9.37.45
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया
त्वयि सर्वे स्म दृश्यन्ते सुरा ब्रह्मादयोऽनघ
MBh 9.37.46
सर्वस्त्वमसि देवानां कर्ता कारयिता च ह
त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः
MBh 9.37.47
एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽब्रवीत्
भगवंस्त्वत्प्रसादाद्वै तपो मे न क्षरेदिति
MBh 9.37.48
ततो देवः प्रीतमनास्तमृषिं पुनरब्रवीत्
तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा
आश्रमे चेह वत्स्यामि त्वया सार्धमहं सदा
MBh 9.37.49
सप्तसारस्वते चास्मिन्यो मामर्चिष्यते नरः
न तस्य दुर्लभं किंचिद्भवितेह परत्र च
सारस्वतं च लोकं ते गमिष्यन्ति न संशयः
MBh 9.37.50
एतन्मङ्कणकस्यापि चरितं भूरितेजसः
स हि पुत्रः सजन्यायामुत्पन्नो मातरिश्वना
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śalya-Parva chapter-index (64 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śalya-Parva Ch 36
- Next chapter · Śalya-Parva Ch 38 →
Sources and Connected Readings
Continue from these 50 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 9.37local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷