🪷 Mahābhārata · Śalya-Parva · Chapter 36
The Book of Śalya · Parva 9 · 63 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 63 Shlokas
MBh 9.36.1
वैशंपायन उवाच
ततो विनशनं राजन्नाजगाम हलायुधः
शूद्राभीरान्प्रति द्वेषाद्यत्र नष्टा सरस्वती
MBh 9.36.2
यस्मात्सा भरतश्रेष्ठ द्वेषान्नष्टा सरस्वती
तस्मात्तदृषयो नित्यं प्राहुर्विनशनेति ह
MBh 9.36.3
तच्चाप्युपस्पृश्य बलः सरस्वत्यां महाबलः
सुभूमिकं ततोऽगच्छत्सरस्वत्यास्तटे वरे
MBh 9.36.4
तत्र चाप्सरसः शुभ्रा नित्यकालमतन्द्रिताः
क्रीडाभिर्विमलाभिश्च क्रीडन्ति विमलाननाः
MBh 9.36.5
तत्र देवाः सगन्धर्वा मासि मासि जनेश्वर
अभिगच्छन्ति तत्तीर्थं पुण्यं ब्राह्मणसेवितम्
MBh 9.36.6
तत्रादृश्यन्त गन्धर्वास्तथैवाप्सरसां गणाः
समेत्य सहिता राजन्यथाप्राप्तं यथासुखम्
MBh 9.36.7
तत्र मोदन्ति देवाश्च पितरश्च सवीरुधः
पुण्यैः पुष्पैः सदा दिव्यैः कीर्यमाणाः पुनः पुनः
MBh 9.36.8
आक्रीडभूमिः सा राजंस्तासामप्सरसां शुभा
सुभूमिकेति विख्याता सरस्वत्यास्तटे वरे
MBh 9.36.9
तत्र स्नात्वा च दत्त्वा च वसु विप्रेषु माधवः
श्रुत्वा गीतं च तद्दिव्यं वादित्राणां च निःस्वनम्
MBh 9.36.10
छायाश्च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम्
गन्धर्वाणां ततस्तीर्थमागच्छद्रोहिणीसुतः
MBh 9.36.11
विश्वावसुमुखास्तत्र गन्धर्वास्तपसान्विताः
नृत्तवादित्रगीतं च कुर्वन्ति सुमनोरमम्
MBh 9.36.12
तत्र दत्त्वा हलधरो विप्रेभ्यो विविधं वसु
अजाविकं गोखरोष्ट्रं सुवर्णं रजतं तथा
MBh 9.36.13
भोजयित्वा द्विजान्कामैः संतर्प्य च महाधनैः
प्रययौ सहितो विप्रैः स्तूयमानश्च माधवः
MBh 9.36.14
तस्माद्गन्धर्वतीर्थाच्च महाबाहुररिंदमः
गर्गस्रोतो महातीर्थमाजगामैककुण्डली
MBh 9.36.15
यत्र गर्गेण वृद्धेन तपसा भावितात्मना
कालज्ञानगतिश्चैव ज्योतिषां च व्यतिक्रमः
MBh 9.36.16
उत्पाता दारुणाश्चैव शुभाश्च जनमेजय
सरस्वत्याः शुभे तीर्थे विहिता वै महात्मना
तस्य नाम्ना च तत्तीर्थं गर्गस्रोत इति स्मृतम्
MBh 9.36.17
तत्र गर्गं महाभागमृषयः सुव्रता नृप
उपासां चक्रिरे नित्यं कालज्ञानं प्रति प्रभो
MBh 9.36.18
तत्र गत्वा महाराज बलः श्वेतानुलेपनः
विधिवद्धि धनं दत्त्वा मुनीनां भावितात्मनाम्
MBh 9.36.19
उच्चावचांस्तथा भक्ष्यान्द्विजेभ्यो विप्रदाय सः
नीलवासास्ततोऽगच्छच्छङ्खतीर्थं महायशाः
MBh 9.36.20
तत्रापश्यन्महाशङ्खं महामेरुमिवोच्छ्रितम्
श्वेतपर्वतसंकाशमृषिसंघैर्निषेवितम्
सरस्वत्यास्तटे जातं नगं तालध्वजो बली
MBh 9.36.21
यक्षा विद्याधराश्चैव राक्षसाश्चामितौजसः
पिशाचाश्चामितबला यत्र सिद्धाः सहस्रशः
MBh 9.36.22
ते सर्वे ह्यशनं त्यक्त्वा फलं तस्य वनस्पतेः
व्रतैश्च नियमैश्चैव काले काले स्म भुञ्जते
MBh 9.36.23
प्राप्तैश्च नियमैस्तैस्तैर्विचरन्तः पृथक्पृथक्
अदृश्यमाना मनुजैर्व्यचरन्पुरुषर्षभ
MBh 9.36.24
एवं ख्यातो नरपते लोकेऽस्मिन्स वनस्पतिः
तत्र तीर्थं सरस्वत्याः पावनं लोकविश्रुतम्
MBh 9.36.25
तस्मिंश्च यदुशार्दूलो दत्त्वा तीर्थे यशस्विनाम्
ताम्रायसानि भाण्डानि वस्त्राणि विविधानि च
MBh 9.36.26
पूजयित्वा द्विजांश्चैव पूजितश्च तपोधनैः
पुण्यं द्वैतवनं राजन्नाजगाम हलायुधः
MBh 9.36.27
तत्र गत्वा मुनीन्दृष्ट्वा नानावेषधरान्बलः
आप्लुत्य सलिले चापि पूजयामास वै द्विजान्
MBh 9.36.28
तथैव दत्त्वा विप्रेभ्यः परिभोगान्सुपुष्कलान्
ततः प्रायाद्बलो राजन्दक्षिणेन सरस्वतीम्
MBh 9.36.29
गत्वा चैव महाबाहुर्नातिदूरं महायशाः
धर्मात्मा नागधन्वानं तीर्थमागमदच्युतः
MBh 9.36.30
यत्र पन्नगराजस्य वासुकेः संनिवेशनम्
महाद्युतेर्महाराज बहुभिः पन्नगैर्वृतम्
यत्रासन्नृषयः सिद्धाः सहस्राणि चतुर्दश
MBh 9.36.31
यत्र देवाः समागम्य वासुकिं पन्नगोत्तमम्
सर्वपन्नगराजानमभ्यषिञ्चन्यथाविधि
पन्नगेभ्यो भयं तत्र विद्यते न स्म कौरव
MBh 9.36.32
तत्रापि विधिवद्दत्त्वा विप्रेभ्यो रत्नसंचयान्
प्रायात्प्राचीं दिशं राजन्दीप्यमानः स्वतेजसा
MBh 9.36.33
आप्लुत्य बहुशो हृष्टस्तेषु तीर्थेषु लाङ्गली
दत्त्वा वसु द्विजातिभ्यो जगामाति तपस्विनः
MBh 9.36.34
तत्रस्थानृषिसंघांस्तानभिवाद्य हलायुधः
ततो रामोऽगमत्तीर्थमृषिभिः सेवितं महत्
MBh 9.36.35
यत्र भूयो निववृते प्राङ्मुखा वै सरस्वती
ऋषीणां नैमिषेयाणामवेक्षार्थं महात्मनाम्
MBh 9.36.36
निवृत्तां तां सरिच्छ्रेष्ठां तत्र दृष्ट्वा तु लाङ्गली
बभूव विस्मितो राजन्बलः श्वेतानुलेपनः
MBh 9.36.37
जनमेजय उवाच
कस्मात्सरस्वती ब्रह्मन्निवृत्ता प्राङ्मुखी ततः
व्याख्यातुमेतदिच्छामि सर्वमध्वर्युसत्तम
MBh 9.36.38
कस्मिंश्च कारणे तत्र विस्मितो यदुनन्दनः
विनिवृत्ता सरिच्छ्रेष्ठा कथमेतद्द्विजोत्तम
MBh 9.36.39
वैशंपायन उवाच
पूर्वं कृतयुगे राजन्नैमिषेयास्तपस्विनः
वर्तमाने सुबहुले सत्रे द्वादशवार्षिके
ऋषयो बहवो राजंस्तत्र संप्रतिपेदिरे
MBh 9.36.40
उषित्वा च महाभागास्तस्मिन्सत्रे यथाविधि
निवृत्ते नैमिषेये वै सत्रे द्वादशवार्षिके
आजग्मुरृषयस्तत्र बहवस्तीर्थकारणात्
MBh 9.36.41
ऋषीणां बहुलत्वात्तु सरस्वत्या विशां पते
तीर्थानि नगरायन्ते कूले वै दक्षिणे तदा
MBh 9.36.42
समन्तपञ्चकं यावत्तावत्ते द्विजसत्तमाः
तीर्थलोभान्नरव्याघ्र नद्यास्तीरं समाश्रिताः
MBh 9.36.43
जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम्
स्वाध्यायेनापि महता बभूवुः पूरिता दिशः
MBh 9.36.44
अग्निहोत्रैस्ततस्तेषां हूयमानैर्महात्मनाम्
अशोभत सरिच्छ्रेष्ठा दीप्यमानैः समन्ततः
MBh 9.36.45
वालखिल्या महाराज अश्मकुट्टाश्च तापसाः
दन्तोलूखलिनश्चान्ये संप्रक्षालास्तथापरे
MBh 9.36.46
वायुभक्षा जलाहाराः पर्णभक्षाश्च तापसाः
नानानियमयुक्ताश्च तथा स्थण्डिलशायिनः
MBh 9.36.47
आसन्वै मुनयस्तत्र सरस्वत्याः समीपतः
शोभयन्तः सरिच्छ्रेष्ठां गङ्गामिव दिवौकसः
MBh 9.36.48
ततः पश्चात्समापेतुरृषयः सत्रयाजिनः
तेऽवकाशं न ददृशुः कुरुक्षेत्रे महाव्रताः
MBh 9.36.49
ततो यज्ञोपवीतैस्ते तत्तीर्थं निर्मिमाय वै
जुहुवुश्चाग्निहोत्राणि चक्रुश्च विविधाः क्रियाः
MBh 9.36.50
ततस्तमृषिसंघातं निराशं चिन्तयान्वितम्
दर्शयामास राजेन्द्र तेषामर्थे सरस्वती
MBh 9.36.51
ततः कुञ्जान्बहून्कृत्वा संनिवृत्ता सरिद्वरा
ऋषीणां पुण्यतपसां कारुण्याज्जनमेजय
MBh 9.36.52
ततो निवृत्य राजेन्द्र तेषामर्थे सरस्वती
भूयः प्रतीच्यभिमुखी सुस्राव सरितां वरा
MBh 9.36.53
अमोघा गमनं कृत्वा तेषां भूयो व्रजाम्यहम्
इत्यद्भुतं महच्चक्रे ततो राजन्महानदी
MBh 9.36.54
एवं स कुञ्जो राजेन्द्र नैमिषेय इति स्मृतः
कुरुक्षेत्रे कुरुश्रेष्ठ कुरुष्व महतीः क्रियाः
MBh 9.36.55
तत्र कुञ्जान्बहून्दृष्ट्वा संनिवृत्तां च तां नदीम्
बभूव विस्मयस्तत्र रामस्याथ महात्मनः
MBh 9.36.56
उपस्पृश्य तु तत्रापि विधिवद्यदुनन्दनः
दत्त्वा दायान्द्विजातिभ्यो भाण्डानि विविधानि च
भक्ष्यं पेयं च विविधं ब्राह्मणान्प्रत्यपादयत्
MBh 9.36.57
ततः प्रायाद्बलो राजन्पूज्यमानो द्विजातिभिः
सरस्वतीतीर्थवरं नानाद्विजगणायुतम्
MBh 9.36.58
बदरेङ्गुदकाश्मर्यप्लक्षाश्वत्थविभीतकैः
पनसैश्च पलाशैश्च करीरैः पीलुभिस्तथा
MBh 9.36.59
सरस्वतीतीररुहैर्बन्धनैः स्यन्दनैस्तथा
परूषकवनैश्चैव बिल्वैराम्रातकैस्तथा
MBh 9.36.60
अतिमुक्तकषण्डैश्च पारिजातैश्च शोभितम्
कदलीवनभूयिष्ठमिष्टं कान्तं मनोरमम्
MBh 9.36.61
वाय्वम्बुफलपर्णादैर्दन्तोलूखलिकैरपि
तथाश्मकुट्टैर्वानेयैर्मुनिभिर्बहुभिर्वृतम्
MBh 9.36.62
स्वाध्यायघोषसंघुष्टं मृगयूथशताकुलम्
अहिंस्रैर्धर्मपरमैर्नृभिरत्यन्तसेवितम्
MBh 9.36.63
सप्तसारस्वतं तीर्थमाजगाम हलायुधः
यत्र मङ्कणकः सिद्धस्तपस्तेपे महामुनिः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śalya-Parva chapter-index (64 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śalya-Parva Ch 35
- Next chapter · Śalya-Parva Ch 37 →
Sources and Connected Readings
Continue from these 63 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 9.36local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷