🪷 Mahābhārata · Sauptika-Parva · Chapter 12

The Book of the Sleeping Warriors · Parva 10 · 40 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 40 Shlokas

MBh 10.12.1
वैशंपायन उवाच तस्मिन्प्रयाते दुर्धर्षे यदूनामृषभस्ततः अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम्
MBh 10.12.2
एष पाण्डव ते भ्राता पुत्रशोकमपारयन् जिघांसुर्द्रौणिमाक्रन्दे याति भारत भारतः
MBh 10.12.3
भीमः प्रियस्ते सर्वेभ्यो भ्रातृभ्यो भरतर्षभ तं कृच्छ्रगतमद्य त्वं कस्मान्नाभ्यवपद्यसे
MBh 10.12.4
यत्तदाचष्ट पुत्राय द्रोणः परपुरंजयः अस्त्रं ब्रह्मशिरो नाम दहेद्यत्पृथिवीमपि
MBh 10.12.5
तन्महात्मा महाभागः केतुः सर्वधनुष्मताम् प्रत्यपादयदाचार्यः प्रीयमाणो धनंजयम्
MBh 10.12.6
तत्पुत्रोऽस्यैवमेवैनमन्वयाचदमर्षणः ततः प्रोवाच पुत्राय नातिहृष्टमना इव
MBh 10.12.7
विदितं चापलं ह्यासीदात्मजस्य महात्मनः सर्वधर्मविदाचार्यो नान्विषत्सततं सुतम्
MBh 10.12.8
परमापद्गतेनापि न स्म तात त्वया रणे इदमस्त्रं प्रयोक्तव्यं मानुषेषु विशेषतः
MBh 10.12.9
इत्युक्तवान्गुरुः पुत्रं द्रोणः पश्चादथोक्तवान् न त्वं जातु सतां मार्गे स्थातेति पुरुषर्षभ
MBh 10.12.10
स तदाज्ञाय दुष्टात्मा पितुर्वचनमप्रियम् निराशः सर्वकल्याणैः शोचन्पर्यपतन्महीम्
MBh 10.12.11
ततस्तदा कुरुश्रेष्ठ वनस्थे त्वयि भारत अवसद्द्वारकामेत्य वृष्णिभिः परमार्चितः
MBh 10.12.12
स कदाचित्समुद्रान्ते वसन्द्रारवतीमनु एक एकं समागम्य मामुवाच हसन्निव
MBh 10.12.13
यत्तदुग्रं तपः कृष्ण चरन्सत्यपराक्रमः अगस्त्याद्भारताचार्यः प्रत्यपद्यत मे पिता
MBh 10.12.14
अस्त्रं ब्रह्मशिरो नाम देवगन्धर्वपूजितम् तदद्य मयि दाशार्ह यथा पितरि मे तथा
MBh 10.12.15
अस्मत्तस्तदुपादाय दिव्यमस्त्रं यदूत्तम ममाप्यस्त्रं प्रयच्छ त्वं चक्रं रिपुहरं रणे
MBh 10.12.16
स राजन्प्रीयमाणेन मयाप्युक्तः कृताञ्जलिः याचमानः प्रयत्नेन मत्तोऽस्त्रं भरतर्षभ
MBh 10.12.17
देवदानवगन्धर्वमनुष्यपतगोरगाः न समा मम वीर्यस्य शतांशेनापि पिण्डिताः
MBh 10.12.18
इदं धनुरियं शक्तिरिदं चक्रमियं गदा यद्यदिच्छसि चेदस्त्रं मत्तस्तत्तद्ददानि ते
MBh 10.12.19
यच्छक्नोषि समुद्यन्तुं प्रयोक्तुमपि वा रणे तद्गृहाण विनास्त्रेण यन्मे दातुमभीप्ससि
MBh 10.12.20
स सुनाभं सहस्रारं वज्रनाभमयस्मयम् वव्रे चक्रं महाबाहो स्पर्धमानो मया सह
MBh 10.12.21
गृहाण चक्रमित्युक्तो मया तु तदनन्तरम् जग्राहोपेत्य सहसा चक्रं सव्येन पाणिना न चैतदशकत्स्थानात्संचालयितुमच्युत
MBh 10.12.22
अथ तद्दक्षिणेनापि ग्रहीतुमुपचक्रमे सर्वयत्नेन तेनापि गृह्णन्नेतदकल्पयत्
MBh 10.12.23
ततः सर्वबलेनापि यच्चैतन्न शशाक सः उद्धर्तुं वा चालयितुं द्रौणिः परमदुर्मनाः कृत्वा यत्नं परं श्रान्तः स न्यवर्तत भारत
MBh 10.12.24
निवृत्तमथ तं तस्मादभिप्रायाद्विचेतसम् अहमामन्त्र्य सुस्निग्धमश्वत्थामानमब्रुवम्
MBh 10.12.25
यः स देवमनुष्येषु प्रमाणं परमं गतः गाण्डीवधन्वा श्वेताश्वः कपिप्रवरकेतनः
MBh 10.12.26
यः साक्षाद्देवदेवेशं शितिकण्ठमुमापतिम् द्वंद्वयुद्धे पराजिष्णुस्तोषयामास शंकरम्
MBh 10.12.27
यस्मात्प्रियतरो नास्ति ममान्यः पुरुषो भुवि नादेयं यस्य मे किंचिदपि दाराः सुतास्तथा
MBh 10.12.28
तेनापि सुहृदा ब्रह्मन्पार्थेनाक्लिष्टकर्मणा नोक्तपूर्वमिदं वाक्यं यत्त्वं मामभिभाषसे
MBh 10.12.29
ब्रह्मचर्यं महद्घोरं चीर्त्वा द्वादशवार्षिकम् हिमवत्पार्श्वमभ्येत्य यो मया तपसार्चितः
MBh 10.12.30
समानव्रतचारिण्यां रुक्मिण्यां योऽन्वजायत सनत्कुमारस्तेजस्वी प्रद्युम्नो नाम मे सुतः
MBh 10.12.31
तेनाप्येतन्महद्दिव्यं चक्रमप्रतिमं मम न प्रार्थितमभून्मूढ यदिदं प्रार्थितं त्वया
MBh 10.12.32
रामेणातिबलेनैतन्नोक्तपूर्वं कदाचन न गदेन न साम्बेन यदिदं प्रार्थितं त्वया
MBh 10.12.33
द्वारकावासिभिश्चान्यैर्वृष्ण्यन्धकमहारथैः नोक्तपूर्वमिदं जातु यदिदं प्रार्थितं त्वया
MBh 10.12.34
भारताचार्यपुत्रः सन्मानितः सर्वयादवैः चक्रेण रथिनां श्रेष्ठ किं नु तात युयुत्ससे
MBh 10.12.35
एवमुक्तो मया द्रौणिर्मामिदं प्रत्युवाच ह प्रयुज्य भवते पूजां योत्स्ये कृष्ण त्वयेत्युत
MBh 10.12.36
ततस्ते प्रार्थितं चक्रं देवदानवपूजितम् अजेयः स्यामिति विभो सत्यमेतद्ब्रवीमि ते
MBh 10.12.37
त्वत्तोऽहं दुर्लभं काममनवाप्यैव केशव प्रतियास्यामि गोविन्द शिवेनाभिवदस्व माम्
MBh 10.12.38
एतत्सुनाभं वृष्णीनामृषभेण त्वया धृतम् चक्रमप्रतिचक्रेण भुवि नान्योऽभिपद्यते
MBh 10.12.39
एतावदुक्त्वा द्रौणिर्मां युग्यमश्वान्धनानि च आदायोपययौ बालो रत्नानि विविधानि च
MBh 10.12.40
स संरम्भी दुरात्मा च चपलः क्रूर एव च वेद चास्त्रं ब्रह्मशिरस्तस्माद्रक्ष्यो वृकोदरः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 40 source-pinned Devanāgarī addresses to Sauptika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 10.12local chapter route · Sauptika-ParvaSauptika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷